सदस्यसम्भाषणम्:Prasad chandi98
विषयः योज्यताम्
|
तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि
|
-- ॐNehalDaveND•✉•✎ ०५:५७, ८ मे २०२२ (UTC)
"नहि सत्यात्परो धर्मः”
[सम्पादयतु]सत्यं द्विविम् अस्ति, भौतिकम् आध्यात्मिकञ्च। तत्र भौतिकं सत्यं कीदृशम् इति एवमुक्तम् “यथा दृष्टं यथा श्रुतं यथा मनसि अनुभूतं तथैव कथनं सत्यम्”।इति। आध्यात्मिकं सत्यं एवं भवति “त्रिकालाबाधितं सत्यम्”। अयमाशयः भूतभविष्यद्वर्तमानेषु त्रिषु कालेषु यत् वर्तते तत् सत्यं अभिधीयते, आध्यात्मिकं सत्यं प्राप्तुं प्रथमं भौतिकं सत्यम् आश्रयणीयम्। व्यावहारिके जीवने लौकिकं सत्यम् आश्रित्य ये जनाः सर्वाणि कार्याणि कुर्वन्ति ते सकलदुःखरहिताः भवन्ति। दुःखसामग्र्या: समावृताः अपि ते सुखिनः भवन्ति। सत्येन शान्ति: लभ्यते। शान्त्या ध्यानं लभ्यते तथा ध्यानात् आध्यात्मिकं ज्ञानं लभ्यते। एवं सत्येन मनुष्याः स्त्रियश्च मानवजीवनस्य लक्ष्यभूतान् पुरुषार्थचतुष्टयान् धर्मार्थकाममौक्षादीन् चतुरः पदार्थान् प्राप्तुं समर्थाः भवन्ति।
सत्यस्य गणना धर्मशास्त्रेषु अस्ति। सत्यं अत्यन्तं महत्वपूर्णमस्ति। सकलं जगत् सत्ये प्रतिष्ठितम्। मानवजीवनं सत्येन संचालितं भवति। यदि अस्मिन् जगति सत्यस्य आश्रयणं न कृतं स्यात् तर्हि सकलव्यवहारशून्यत्वाद् इदं जगत् नष्टं स्यात्। अस्माकं जीवने विवाहादिव्यवस्था सत्यमाश्रिता अस्ति। वरकन्ययोः अभिभावकैः यत् किंचित् निश्चितं तत् मौखिकम् अस्ति न तु लिखितम्। सत्यमेव आश्रित्य निर्धारितायां तिथौ द्वयोः पक्षयोः जनाः सकलानि विवाहोचितानि कार्याणि सम्पन्नानि कुर्वन्ति। एवं कृषिकर्मणि व्यापारे च ये जनाः सत्यमाश्रित्य कार्यं कुर्वन्ति ते स्वकार्येषु साफल्यं प्राप्नुवन्ति। ये जनाः सत्यमनाश्रित्य कार्यं कुर्वन्ति ते सर्वदा अवनतिं यान्ति।
सत्येन् आत्मबलं प्राप्यते। सत्यवक्तारः सदा उन्नतमस्तकाः सन्ति। ते कस्मादपि न बिभ्यति। समाजे तेषां अतीव आदरो भवति। सत्यवक्तुः व्यक्तित्वं महत्वपूर्णं प्रभावोत्पादकं भवति। ये सत्यं न वदन्ति ते सदा नतमस्तकाः सन्तः इतस्ततः परिभ्रमन्ति। लोके तेषां प्रतिष्ठा न भवति। येषां जनानां लोके प्रतिष्ठा न भवति तेषां जीवनं पृथिव्यां भारस्वरुपमस्ति। तेषु आत्मनिर्बलता वर्तते। ते सदैव भयभीताः सन्ति। एतादृशाः जनाः सर्वेषां घृणापात्राणि भवन्ति। अतः सर्वैः सत्यम् आश्रयणीयम्। सत्येन विश्वासः जायते। विश्वासेन सकलानि कार्याणि सिध्यन्ति। एतदर्थमेव न केवलं अस्माकं देशे अपितु सर्वेषु राष्ट्रेषु सत्यस्य महिमा प्रतिष्ठितः अस्ति। यावन्तः धर्माः धर्मशास्त्रेषु वर्णिताः तेषु सत्यात् परः न कश्चिद् अन्यो धर्मः। एकं सत्यं पालयन्तः जनाः सर्वधर्मपालकाः भवन्ति। सत्ये सर्वेषां धर्माणां अन्तर्भावो भवति।
अस्मिन् भारते सत्यपालने सर्वे प्राचीनाः ॠषयः मुनयः राजानश्च संलग्नाः आसन्। महाराजः हरिश्चन्द्रः सत्याय सर्वं आत्मनः राज्यं त्यक्तवान्। महाराजः दशरथः सत्यपालनाय स्वपुत्रं रामचन्द्रं वने प्रेषितवान्। प्राचीनकाले जनाः सत्याय धनं त्यक्तवन्तः आसन्। किन्तु वर्तमानयुगे जनाः धनाय सत्यं त्यजन्ति। एतस्मादेव कारणात् अस्माकं भारतीयानां वर्तमानं जीवनं दुःखमयमस्ति। अतः धर्मार्थकाममोक्षदायकं सत्यं सर्वैः पालनीयम्। उक्तं च सत्यस्य महत्त्वं श्रुतिना-
सत्यं ब्रूयात् प्रियं ब्रूयात् ना ब्रूयात् सत्यमप्रियम्।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥नी०सं० Prasad chandi98 (चर्चा) ०६:१०, ८ मे २०२२ (UTC)