सामग्री पर जाएँ

सदस्यसम्भाषणम्:Praveshvyas

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अद्भुतसागरः

[सम्पादयतु]

अद्भुतसागरः ज्योतिषशास्त्रस्य संहिता स्कन्धस्य अतीव महत्त्वपूर्णः ग्रन्थः वर्तते | राजा बल्लालसेन अस्य ग्रन्थस्य लेखकः | ग्रन्थारम्भः १०९० शकाब्दे अभवत् | यथा ग्रन्थारम्भे लिखितम् - शाकेऽभ्रनवखेन्द्वा१०९०ख्य आरेभेऽद्भुतसागरम् | गौडेन्द्रे कुञ्जरालानस्तम्भबाहुर्महीपतिः || विशेषरूपेण ग्रन्थेऽस्मिन् त्रिविध उत्पातानां वर्णनं प्राप्यते | प्राचीन सहस्राधिक धूमकेतूनां वर्णनमेव अस्य ग्रन्थस्य महान वैशिष्ठ्यम् | राजा बल्ल्लालसेन ततः पूर्ववर्तिनां अनेकानाम् आचार्याणां ग्रन्थानां नामानि उल्लिखति, ये इदानीं न प्राप्यन्ते | अस्मात् ग्रन्थादेव ज्ञायते यत् पुरातन काले अनेकै आचार्यैः ज्योतिषशास्त्रस्य संहिता ग्रन्थाः लिखिता येषां वर्णनं वराहमिहिरेणापि न कृतम् -

ग्रन्थेऽत्र वृद्धगर्गगर्गपराशरवशिष्ठगार्गीयान् | बार्हस्पत्यबृहस्पतिकठश्रुतिब्रह्मसिद्धान्तान् || आथर्वणाद्भुताशितषट् त्रिंशद् ब्रह्मर्षिकृतीः| गार्गीयमतौशनसे कालावलिसूर्यसिद्धान्तौ || विन्ध्यवासी-वदरायणोशनः शालिहोत्रविधुगुप्तसुश्रुतान् | पीलुकार्यनृपपुत्रदेवलान् भार्गवीयबिजवायकाश्यपान् || (अद्भुतसागर, उपोद्धातः)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Praveshvyas&oldid=193405" इत्यस्माद् प्रतिप्राप्तम्