सदस्यसम्भाषणम्:Puskar75
विषयः योज्यताम्
|
तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि
|
-- ॐNehalDaveND•✉•✎ १५:४२, ११ मे २०२२ (UTC)
"छात्राणां अवस्थासु संवेगात्मक विकास:"
[सम्पादयतु]मानव जीवने संवेगा: एका स्वाभाविक प्रक्रिया वर्तते। गर्भात् एव संवेगानां उत्पत्ति: भवति। द्वि वर्षस्य आयुत: शिशौ प्रायः सर्वे संवेगा: उत्पद्यन्ते ।शिशौ जन्मसमयात् एव संवेगात्मक व्यवहारस्य अभिव्यक्ति रोदनं ,क्रोध: हस्त, पदौ च चालनेन करोति। संवेगपदमाङग्लभाषायाः "इमोशन" emotions इति पदस्य रूपांतरण वर्तते। इमोशन इति पदं ग्रीकभाषाया उच्चार्थकात् 'अप'(up) शब्दात् गत्यर्थकात् ' मोशन' (motion) इति च पदात् निष्पन्नः। सामान्यतः अस्य अर्थः अस्ति यत् " आभ्यन्तरिकाया उत्तेजनायाः बाह्यप्रकाशनमिति" । यथा क्रोधः , जनः क्रोधं करोति, तदा तस्य ओष्ठौ कम्पितौ भवति, नेत्रे रक्ते भवतः , शरीरं अपि कम्पायमानं भवति।वेलेण्टाइन महोदयानुसारेण संवेगस्य परिभाषा "यदा भावास्तीव्रा भवन्ति ,तदा संवेगस्य स्थितिरुत्तपन्ना भवति " इति यदा मनुष्याणां उपरि संवेगानां प्रभावः भवति, तदा मनुष्याणां शरीरावयवैः प्रतिक्रिया भवन्ति ।ताः प्रतिक्रियाः सर्वैः द्रष्टुं शक्यते। संवेगानां दशाद्वयं १.बाह्यपरिवर्तनम्- संवेगैः शरीरं अङ्गेषु अनेकानि परिवर्तनानि दृश्यन्ते। यथा- मुखमुद्रायां परिवर्तनं, स्वरे परिवर्तनम् , शरीरस्थितौ परिवर्तनञ्च । २.आभ्यन्तरपरिवर्तनम्- आभ्यनतरेपि अनेकानि परिवर्तनानि जायन्ते। ते सर्वे श्वासगत्यां ,नाडीगत्यां ,ह्रदयगत्यां ,रक्तगत्याञ्च भवन्ति। संवेग भेदाः १.भयम् (Fear) २.क्रोधः(Anger) ३.वात्सल्यम्(love) ४.घृणा(Disgust) ५. दुः खम्(Distress) ६ आश्चर्यम् (Wonder)७ आत्महीनता(Negative self feeling) ८.आत्माभिमानः(Feeling of own worship) ९.ऐक्यम् (loneliness)१०. कामुकता(Lust) ११.बुभुक्षा(Appetite) १२.अधिकारभावना (elation) १३.कृतिभावः (Feeling of creativeness)१४.आमोदश्च(amusement). छात्राणामोपरि अपि संवेगानां बहु प्रभावो दृश्यते। अस्यामवस्थायां संवेगानां स्वस्य चरमस्थितिषु भवन्ति। संवेगानां स्थितिः तदा वर्धते यदा कोऽपि शिशुः शैशवावस्था, बाल्यावस्था, किशोरावस्थासु निवसन् समाजं जानाति। समाजव्यवहारस्य तस्योपरि बहु प्रभावो भवति तथा सः आचरणानुगुणं संवेगान् उत्पादयति।
*बाल्यावस्थायां संवेगात्मकविकासः* शैशवावस्थायाः परिसमाप्तिकाले सर्वे एव संवेगाः समुत्पन्नाः जायन्ते। अस्यामवस्थायां नूतनानां संवेगानां दर्शनं नैव भवति। अस्मिन् काले छात्राः संवेगेषु नियन्त्रणं कर्तुं शक्नुवन्ति। संवेगैः सह परिचयः अस्मिन् एव अवस्थायां भवति। *किशोरावस्थायां संवेगात्मकविकासः* अस्यामवस्थायां छात्राणामोपरि संवेगानां चरमस्थितिः दृश्यते। अत्र संवेगानामावेगेषु नियन्त्रणं कर्तुं शक्यते। एतस्यामवस्थायां शरीरस्य आभ्यन्तर बाह्यश्च विकासो भवति। संवेगात्मकस्थिरता अपि परिसमाप्यते। Puskar75 (चर्चा) ०६:२३, १३ मे २०२२ (UTC)