सामग्री पर जाएँ

सदस्यसम्भाषणम्:Smaranika kar

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND ११:०५, २७ फरवरी २०१९ (UTC)

भाषाध्ययनस्य कौशलानि

[सम्पादयतु]

भाषाध्ययनस्य कौशलानि

स्मरणिका कर शिक्षाशास्त्री प्रथमवर्षम् अनुक्रमाङ्कः – २९

           भाष्-व्यक्तयां वाचि इत्यस्मात् धातोः भाषा इति पदं निष्पन्नं भवति। यस्यार्थः भावाभिव्यक्तिः भवति। मानवसभ्यतायाः संस्कृतेश्च विकासे  भाषायाः महत्वपूर्णं योगदानं वर्तते। भाषा मानवानां स्वभावनायाः अभिव्यक्तेः उत्कृष्टं साधनं वर्तते।  वैदिककालात् शिक्षायाः अङ्गं वर्तते भाषाशिक्षणम्।

 भाषाशिक्षणम्―

           शिक्षणं नाम केवलं व्याकरणस्य अधिगममात्रमपि न भवति, अपितु तदन्तर्गतानां सूत्राणां ज्ञानमपि न, भाषायाः स्वरूपस्य वैशिष्ट्यस्य अवगमनमात्रापि न भवति, अपितु भाषाशिक्षणं नाम श्रवण-भाषण-पठन-लेखनादिषु चतुर्षु कौशलेषु दक्षताप्राप्त एव इति। एषां दक्षतां प्राप्तैव कश्चन कश्चित् भाषां स्वाधीनं समर्थः भवितुं  शक्नोति। अतः एतानि चत्वारि कौशलानि भाषायाः अधिगमार्थं सहाय्यं करोति।

(क)श्रवण―

           भाषाशिक्षणस्य प्रथमकौशलं श्रवणम् एव वर्तते। प्राचीनकाले तुमौखिकपद्धतिः एव श्रेष्ठाः पद्धतिः आसीत्। अस्माकं परम्परा श्रुतिपरम्परा इति असकृत् प्रयुज्यमान षोडशशताब्दीपर्यन्तं केवलं मौखिकपद्धत्या एव वेदाध्ययनं भवति स्म। भाषायाः ग्रहणं प्रायशः श्रावणेन एव भवति। बालकः शब्दान् श्रुत्वा बुद्धौ स्थापयति, ततः उच्चारणं करोति। पुनः  भावग्रहणं करोति।

(ख)भाषणम्―

           भाषाकौशलेषु द्वितीयं स्थानं भाषणस्य वर्तते। अस्मिन् संसारे मानवानां स्वाभिव्यक्तिः प्रकटयितुं प्रायः सामान्यरुपेण भाषा एव माध्यमं वर्तते।भाषायाः सम्यक् विकासार्थं भाषणकौशलस्य विकासम् आवश्यकं वर्तते। अतः कौशलस्य विकासः तु भाषणयाः एव जायते। भाषाशिक्षणे पदानां साधूच्चारणम् अनिवार्यं भवति। अतः एव बालकेभ्यः अधिकाधिक भाषणस्य अवसरः दातव्यः। कक्षायां चित्रं प्रदर्शयित्वा तं विषयमधिकृत्य किञ्चित् भाषणस्य अवसरः दातवयः। सरलकथामाध्यमेन अपि बालकानां भाषाणकौशलस्य विकासः भवति।

(ग) वाचनम्―

           भाषायाः विकासार्थं वाचनकौशलस्य विकासः अपि आवश्यकः वर्तते। लिखितरुपे विद्यमानम् अंशं मनसि पठित्वा तदर्थं भावाग्रहणमेव वाचनमुच्यते। वाचनप्रकाराः निम्नलिखित रूपेण भवन्ति ―

(I)आदर्शवाचनम् (ii)अनुकरणवाचनम् (iii)मौनवाचनम्। (iv)विस्तारवाचनम्

           अतः एव प्रारम्भिकावस्थायाम् एव शिक्षकः कक्षायां वाचनकौशलस्य विकासार्थं प्रयत्नानुसारेण वर्णानामुच्चारणं स्पष्टं तथा शुद्धं भवेत्। वाचनकौशलस्य विकासार्थं शिक्षकाणाम् आदर्शवाचनं सम्यकरूपेण स्पष्टं तथा शुद्धं च अवश्यमेव भवितव्यम्। त्रुटिसंशोधनमाध्यमेन अपि वाचनकौशलस्य विकासः भवति। छात्राणां वाचनकौशलस्य विकासार्थं शिक्षकैः आदर्शवाचनावसरे भावनानुकूलमुखाकृतिः दर्शयेत्। वाचनक्रमे भावपूर्णवाचनस्य अत्यधिकं महत्वमस्ति। अनेन माध्यमेन बालकः अपि तदनुसरणं वाचनाभ्यासं करोति। पाणिनेः शिक्षायां पाठकानां षड्गुणानां  वर्णनं वर्तते –

माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः। धैर्यं लयसमर्थं च षडेते पाठका गुणाः।।

           वाचनक्षमतायाः विकासार्थं वर्णानां स्पष्टता, पदानां स्पष्टविभाजनं सुस्वरः, धैर्यः तथा लयवद्धता तु आवश्यकानि वर्तन्ते।

(घ)लेखनम्― स्वविचारस्य प्रकाशाय लिपिम् आश्रितं क्रियामाणः अक्षरविन्यासः एव लेखनं भवति। परन्तु अक्षरविन्यासः एव लेखनार्थः प्राप्तः न भवति। अर्थबोधनाय वर्णानां पदानां वा सम्यक् क्रमबद्धः सुव्यवस्थितः समायोजनावश्यकं वर्तते। लेखनकौशलस्य विकासार्थं प्रथमस्तु शिक्षकस्य लेखनं सुन्दरं श्यामफलकस्य अधिकाधिकं प्रयोगं यदि भविष्यति तर्हि बालकाः अपि अनुसरणं करिष्यन्ति। अनेन माध्यमेन बालकानां लेखनकौशलस्य विकासः भविष्यति। बालकेभ्यः मित्रं प्रति पत्रलेखनाभ्यासः, लघुनिबन्धलेखनम्, आवेदनपत्रलेखनं, दिनचर्यालेखनम् इत्यादेः अवसरः असकृत् दातव्यः। अनेन माध्यमेन लेखनक्षमतायाः सम्यक् विकासः भवितुं शक्नोति।

Smaranika kar (चर्चा) ११:२३, २७ फरवरी २०१९ (UTC)
"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Smaranika_kar&oldid=442444" इत्यस्माद् प्रतिप्राप्तम्