सदस्यसम्भाषणम्:Subhadra kar/प्रयोगपृष्ठम्
विषयः योज्यताम्ब्रह्मचर्याश्रमः
भारतीयसंस्कृतौ आश्रमव्यवस्थायाः महत्वपूर्णस्थानमस्ति । मानवकल्याणार्थं जीवन विकासार्थञ्च भारतीयप्राचीनमहर्षिभिराश्रमव्यवस्थाःविहिताः।
मानवजीवनं शतवार्षिक-मिति पुरा लोकधारणा आसीत्। आश्रमा चतुर्विधः। यथा-
"ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा।
एते गृहस्थ प्रभवाश्चत्वारः पृथगाश्रमाः।।"
तदनुसारेण ब्रह्मचर्य -गृहस्थ-वानप्रस्थ-सऩ्यासाश्च इमे चत्वारः आश्रमाः । जीवनयापनस्येषा आदर्शव्यवस्था चतुर्भिः कर्मभिश्च व्यवस्थितास्ति - तानि यथा-
1.ब्रह्मचर्याश्रमः - अध्ययनात्मकः ।
2.वानप्रस्थाश्रमः - तपस्यात्मकः।
3.गृहस्थाश्रमः - सर्जनात्मकः।
4.सन्यासाश्रमः - योगात्मकः।
एतेषु ब्रह्मचर्याश्रमः प्रधानः आलोच्यविषयः अस्ति।
1. ब्रह्मचर्याश्रमः -
प्रथमाश्रमः ब्रह्मचर्य्याभिधः । अयमेव जीवनस्य मूलाधारत्वेन तिष्ठति ।
ब्रह्मचर्याश्रमस्य नियमाः -
उपनयनान्तरं विद्यार्थी गुरोरादेशानुसारेण ब्रह्मचर्य्यं पालयन् गुर्रोनिकटे अध्ययनञ्च करोति। ब्रह्मचारी गुरुकुले स्थित्वा स्वस्य इन्द्रियान् संयम्य दास इव सर्वदा गुरोः हितमाचरेत् । सः सायं प्रातः गुरु - अग्नि - अर्क - सुरोत्तमानामुपासनां कुर्यात् । सर्वदा मौनं भूत्वा एकाग्रेण उभयकाले गायत्रीमन्त्रं जपन् गुरोः समीपे वसन् च्छन्दसां पाठं कुर्यात् । पाठस्य आरम्भे शेषे च गुरोः चरणौ शिरसा नमेत् । शास्रानुसारेण सः सर्वदा मेखला- मृग-चर्म-वस्त्र-जटा-दण्ड-कमण्डलु-यज्ञोपवितान् च धारयेत् तथा हस्ते कुशं धारणं कुर्यात् । सः सायं प्रातः भैक्ष्यं गुरवे निवेदयेत् । गुरोराज्ञानुसारेण भक्षणं कुर्यात् । यदि गुरुणा आज्ञा न दियते तर्हि उपवसेत् । गुरुस्त्रीभिर्युवतिभिः च आलापं न कुर्यात् । केशप्रसाधनोन्मर्दस्नपनाभ्यञ्नादिकं त न कारयेत् । अस्मिन् विषये उक्तम् यथा - "नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् । सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ।।" (श्री .भा.पु- 7.12.9)
अर्थात् प्रमदा अग्नि समा , पुमान् च घृतकुम्भसमः । अतः उभौ एकस्थाने न वसेत् । स्वस्य कन्यया सह पिता अपि न तिष्ठेत् ।
एवं प्रकारेण गुरुकुले वसन् द्विजाः स्वस्य शक्तिआवश्यकतानुसारेण वेदपाठं , वेदाङ्गादीनां उपनिषदाम् अध्ययनं कृत्वा ज्ञानं लभेयुः। सामर्थ्यानुसारेण गुरुदक्षिणां दत्वा गुरोः आज्ञया गृहस्थाश्रमे प्रविशेत् अथवा आजीवनं ब्रह्मचर्याश्रमे तिष्ठेत् ।
सदस्यः:Subhadra kar/प्रयोगपृष्ठम् के बारे में चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। सदस्यः:Subhadra kar/प्रयोगपृष्ठम् में सुधार कैसे करें, इस बारे में अन्यों के साथ चर्चा आरंभ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।