सामग्री पर जाएँ

सदस्यसम्भाषणम्:Subhadra kar/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                           ब्रह्मचर्याश्रमः
             भारतीयसंस्कृतौ आश्रमव्यवस्थायाः महत्वपूर्णस्थानमस्ति । मानवकल्याणार्थं जीवन विकासार्थञ्च	भारतीयप्राचीनमहर्षिभिराश्रमव्यवस्थाःविहिताः।
             मानवजीवनं शतवार्षिक-मिति पुरा लोकधारणा आसीत्। आश्रमा चतुर्विधः। यथा-

"ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा।

                                  एते गृहस्थ प्रभवाश्चत्वारः पृथगाश्रमाः।।"
                  तदनुसारेण ब्रह्मचर्य -गृहस्थ-वानप्रस्थ-सऩ्यासाश्च इमे चत्वारः आश्रमाः । जीवनयापनस्येषा आदर्शव्यवस्था चतुर्भिः कर्मभिश्च व्यवस्थितास्ति  - तानि यथा-

1.ब्रह्मचर्याश्रमः - अध्ययनात्मकः ।

                       2.वानप्रस्थाश्रमः -  तपस्यात्मकः।					
                       3.गृहस्थाश्रमः - सर्जनात्मकः।					
                       4.सन्यासाश्रमः - योगात्मकः।

एतेषु ब्रह्मचर्याश्रमः प्रधानः आलोच्यविषयः अस्ति।

         1. ब्रह्मचर्याश्रमः -											
                      प्रथमाश्रमः ब्रह्मचर्य्याभिधः । अयमेव जीवनस्य मूलाधारत्वेन तिष्ठति ।	
      ब्रह्मचर्याश्रमस्य नियमाः -	

उपनयनान्तरं विद्यार्थी गुरोरादेशानुसारेण ब्रह्मचर्य्यं पालयन् गुर्रोनिकटे अध्ययनञ्च करोति। ब्रह्मचारी गुरुकुले स्थित्वा स्वस्य इन्द्रियान् संयम्य दास इव सर्वदा गुरोः हितमाचरेत् । सः सायं प्रातः गुरु - अग्नि - अर्क - सुरोत्तमानामुपासनां कुर्यात् । सर्वदा मौनं भूत्वा एकाग्रेण उभयकाले गायत्रीमन्त्रं जपन् गुरोः समीपे वसन् च्छन्दसां पाठं कुर्यात् । पाठस्य आरम्भे शेषे च गुरोः चरणौ शिरसा नमेत् । शास्रानुसारेण सः सर्वदा मेखला- मृग-चर्म-वस्त्र-जटा-दण्ड-कमण्डलु-यज्ञोपवितान् च धारयेत् तथा हस्ते कुशं धारणं कुर्यात् । सः सायं प्रातः भैक्ष्यं गुरवे निवेदयेत् । गुरोराज्ञानुसारेण भक्षणं कुर्यात् । यदि गुरुणा आज्ञा न दियते तर्हि उपवसेत् । गुरुस्त्रीभिर्युवतिभिः च आलापं न कुर्यात् । केशप्रसाधनोन्मर्दस्नपनाभ्यञ्नादिकं त न कारयेत् । अस्मिन् विषये उक्तम् यथा - "नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् । सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ।।" (श्री .भा.पु- 7.12.9)

     अर्थात् प्रमदा अग्नि समा , पुमान् च घृतकुम्भसमः । अतः उभौ एकस्थाने न वसेत् । स्वस्य कन्यया सह पिता अपि न तिष्ठेत् । 

एवं प्रकारेण गुरुकुले वसन् द्विजाः स्वस्य शक्तिआवश्यकतानुसारेण वेदपाठं , वेदाङ्गादीनां उपनिषदाम् अध्ययनं कृत्वा ज्ञानं लभेयुः। सामर्थ्यानुसारेण गुरुदक्षिणां दत्वा गुरोः आज्ञया गृहस्थाश्रमे प्रविशेत् अथवा आजीवनं ब्रह्मचर्याश्रमे तिष्ठेत् ।

सदस्यः:Subhadra kar/प्रयोगपृष्ठम् के बारे में चर्चा शुरू करें

चर्चा शुरू करें