सप्तमीविभक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कारकसप्तमी, उपपदस्प्तमी, चेति सप्तमी द्विधा । अधिकरणसंज्ञां पुरस्कृत्य प्रवर्तमानां सप्तमी कारकसप्तमी । अधिकरणसंज्ञा च एकेनैव सूत्रेण विहिता । यदा अधिकरणसंज्ञा प्रवृत्ता भवति तदा ‘सप्तम्यधिकरणे च -२.३.३६’ (अधिकरणे सप्तमी स्यात् । चकाराद्दूरान्तिकार्थेभ्यः । ) इति सूत्रेण सप्तमी प्रवर्तते । बहुभिः सूत्रैः वार्तिकैः च उपपदसप्तमी विहिता । कर्मप्रवचनीयसंज्ञां पुरस्कृत्य सप्तमी तु एकेनैव सूत्रेण विहिता । १. बालः कटे उपविशति । पाचकः स्थाल्याम् ओदनं पचति । तस्य पठने इच्छा अस्ति । तिलेषु तैलम् अस्ति । आधारोऽधिकरणम् -१.४.४५ कर्तृकर्मद्वारा तन्निष्ठाक्रियायाः आधारः कारकम् अधिकरणसंज्ञः स्यात् । (अष्टमं (८) पृष्ठं पश्यन्तु । आधारस्त्रिधा –

एतदपि पश्यन्तु

"https://sa.wikipedia.org/w/index.php?title=सप्तमीविभक्तिः&oldid=395974" इत्यस्माद् प्रतिप्राप्तम्