समलेश्वरीमन्दिरम्
फलकम्:ଛୋଟ समलेश्वरीमन्दिरं ओडिशादेशस्य सम्बलपुरनगरे समलेश्वरीदेव्याः मन्दिरम् अस्ति । ओडिशा-राज्यस्य सम्बलपुर-नगरस्य बहिः भागे इदं स्थलम् अस्ति । [१]
आख्यानम्
[सम्पादयतु]रामायणे, महिरावणः श्रीरामं लक्ष्मणं च वलिं दातुं लङ्काराज्यस्य मुख्यदेवीं लङ्केश्वरीं प्रति नीतवान् । तत्र हनुमान् कुशलतया लङ्केश्वरीं देवीं पराजित्वा महिरावणं क्षतम् अकरोत्, रामलक्ष्मणं च उद्धारितवान् । एतत् अपमानं सहितुं असमर्था लङ्केश्वरीदेवी तत् स्थानं त्यक्त्वा समलेश्वरी इति नामं गृहीत्वा सम्बलपुरे निवसति स्म ।
वेशः
[सम्पादयतु]पश्चिमोडिशादेशस्य मुख्यदेवी मातासमलेश्वरी आवर्षं दृश्यते । अश्विनमासस्य अमावास्यातिथौ (महालये), सा श्वेतवेषं धारयति । देव्याः एतत् अद्वितीयं वार्षिकरूपं धबलमुखी अथवा गंगादर्शनवेशा इति कथ्यते । 'पुअजितिआँ' पर्वात् देव्याः षोडषपूजाः आरभ्यन्ते । महालयायाः पूर्वसंध्यायां सतीवेशायां देवी भक्तैः दृश्यते । तस्मिन् दिने अर्धरात्रौ भक्ताः मन्दिरद्वाराणि पिधाय कर्पूरमिश्रितेन गंगाजलेन देवीं स्नानं कारयित्वा चन्दनं प्रलेपयन्ति। देव्याः धबलमुखीवेशायां सज्जतां कुर्वन्ति । धबलमुखीवेशे देवी दिनद्वयं यावत् भवति । महालयाश्राद्धदिने भगवतीं एवं रूपेण दर्शनेन गंगादर्शनस्य पुण्यं प्राप्यते इति विश्वासः अस्ति ।
नवरात्रस्य अखण्डदीपः
[सम्पादयतु]विजयदशमीपूर्वं ९ दिवसाः यावत् मन्दिरे नवरात्रम् आचर्यते । अनेके भक्ताः एतानि नवदिवसपर्यन्तं प्रज्वालयन्ति। एतानि सर्वाणि दीपानि विशाले कक्षे भक्तानां नामानि लिखितानि निरन्तरं प्रज्वलिताः भवन्ति येन दीपाः न निष्क्रान्ताः भवन्ति । भक्तानां विश्वासः अस्ति यत् ये जनाः मनसि कामनां कृत्वा दीपस्थापनं कुर्वन्ति, तेषां कामनां मातासमलेश्वरीः निश्चयेन पूरयति। प्रथायाः प्रतिदिनं लोकप्रियतां वर्धति, अतः मन्दिरप्रशासनं तदर्थं अपि एकस्य विशालस्य प्रकोष्ठस्य निर्माणं करोति।
अन्यानि पर्वाणि
[सम्पादयतु]समलेश्वरीदेव्याः मन्दिरे महालयादिने सर्वाधिकतया आडम्बरयुक्तया रीत्या उत्सवः आचर्यते। तथापि दीपावलिः, नवरात्रिः इत्यादयः अन्ये हिन्दुपर्वाणि तथा नुआखाइ-नामकस्य जनोत्सवः अपि विशेषपूजाऽऽराधनया सह भोगव्यवस्थां क्रियते। सम्बलपुरप्रदेशस्य अनेके जनाः यदा नवीनं वाहनं क्रीणन्ति, तदा ते अस्मिन्नेव मन्दिरे प्रथमं पूजां कृत्वा ततः वाहनं चालयन्ति। पुनश्च केचन जनाः विवाहानुष्ठानस्य पूर्वं प्रथमं निमन्त्रणं मातासमलेईं दत्त्वा, तां निमन्त्र्य तदनन्तरं अन्येषां निमन्त्रणवितरणं कुर्वन्ति—इति प्रथा अपि वर्तते।
- ↑ "Maa Samaleswari Temple, Sambalpur". nuaodisha.com. आह्रियत 26 September 2016.