सम्प्रदानकारकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कर्मणा यमभिप्रैति स सम्प्रदानम् -१.४.३२. कर्मणा यमभिप्रैति स सम्प्रदानम् इति सूत्रार्थः ।

कर्मणा सम्बन्धुं यम् अभिप्रैति (इच्छति) सः सम्प्रदानं स्यादिति फलितार्थः । देयद्रव्योद्देश्यं सम्प्रदानमिति तात्पर्यार्थः । यथा- पिता मोदकं बालाय ददाति । दाधात्वर्थः हस्तादौ स्थापनरुपं फलं तदनुकूलक्रिया च । आनक्रियाश्रयः पिता कर्ता । स्थापनरुपं फलं मोदके । अतः मोदकः कर्म । कर्मभूतेन तेन मोदकेन पिता कं सम्बन्धुम् अभिप्रैति ? कर्मभूतेन मोदकेन बालं सम्बन्धुम् अभिप्रैति । अतः सः बालः सम्प्रदानं भवति (कर्मभूतं वस्तु यम् अधिगच्छति सः सम्प्रदानं भवति । अत्र कर्मभूतं वस्तु मोदकः बालकम् अधिगच्छति । अतः बालः सम्प्रदानम् )

उदाहरणम्[सम्पादयतु]

  1. खण्डिकोपाध्यायः शिष्याय चपेटां ददाति । दाधात्वर्थः संयोगरुपं फलं, तदनुकूलव्यापारश्च । क्रियाश्रयः खण्डिकोपाध्यायः कर्ता । चपेटा नाम प्रसृतकरतलम् । संयोगरुपं फलं चपेटायाम् । अतः चपेटा कर्म भवति । कर्मभूतया चपेटया कं सम्बन्धुम् अभिप्रैति ? कर्मभूतया चपेटया शिष्यम् अभिसम्बन्धुम् अभिप्रैति । अतः शिष्यः सम्प्रदानम् (कर्मभूता चपेटा शिष्यं खलु अधिगच्छति । अतः सः सम्प्रदानम् ।)
  2. चैत्रः रजकाय वस्त्रं ददाति । दाधात्वर्थः अधीनीकरणं, तदनुकूलक्रिया च । क्रियाश्रयः चैत्रः कर्ता । अधीनीकरणरुपं फलं वस्त्रे । अतः वस्त्रं कर्म । कर्मभूतेन वस्त्रेण कं सम्बन्धुम् अभिप्रैति ? कर्मभूतेन वस्त्रेण रजकं सम्बन्धुम् अभिप्रैति, अतः रजकः सम्प्रदानम् (कर्मभूतं वस्त्रं रजकं खलु अधिगच्छति । अतः रजकः सम्प्रदानम् )
  3. राजा विप्राय गां ददाति । दाधात्वर्थः स्वस्वत्त्वनिवृत्तिपूर्वकपरस्वत्वारोपणं, तदनुकूलक्रिया च । दानक्रियाश्रयः राजा कर्ता । स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वारोपणं गवि । अतः गौः कर्म । कर्मभूतया गवा राजा कं सम्बन्धुम् अभिप्रैति ? कर्मभूतया गवा विप्रम् अभिसम्बन्धुम् अभिप्रैति । अतः विप्रः सम्प्रदानम् (कर्मभूता गौः विप्रं खलु अधिगच्छति । अतः विप्रः सम्प्रदानम् ।)

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सम्प्रदानकारकम्&oldid=409806" इत्यस्माद् प्रतिप्राप्तम्