सम्भाषणम्:Samskrutha sahithya
विषयः योज्यताम्सङ्गीतं, नृत्यं, नाट्यं, कथावाचनम् इत्यादयः कर्णाटक-राज्यस्य परम्परागतलोककलाः सन्ति ।मालनाड, यक्षगणः, शास्त्रीयनृत्यनाटिकाः च कर्णाटकराज्यस्य प्रधाननाट्यशैल्यः सन्ति|लोकनाट्येषु सनता, पारिजात, यक्षगान, च इत्यादयः लोकप्रियाणि |गुब्बी वीरन्ना, टी फी कैलाशम, बी वी करन्थ, के वी सुबन्ना, प्रसन्ना च एतेषां सङ्घटनानाम् आधारभूताः सन्ति ।वीरागेस, कमसेल, कोलाट, डोलुकुनिता चेत्यादयः कर्णाटक-राज्यस्य प्रचलिताः नृत्यशैल्यः सन्ति । कर्णाटक-राज्यस्य विश्वस्तरीयशास्त्रीयसङ्गीते विशिष्टं स्थानम् अस्ति ।गङ्गूबाई हङ्गल, मल्लिकार्जुन मंसूर, भीमसेन जोशी, बसवराज राजगुरु, सवाई गन्धर्व च इत्यादयः कर्णाटकराज्यस्य कलाकाराः सन्ति । एतेषु केचन कालिदासपुरस्कारेण, पद्मभूषणपुरस्कारेण, पद्मविभूषणपुरस्कारेण च सम्मानिताः सन्ति| सङ्गीते कर्णाटकशैल्यः भारतीयशैल्यः च विशिष्टाः सन्ति ।सम्मानितेषु हरिदासेषु पुरन्दरदासाय कर्णाटकसङ्गीतस्य पितामहस्य उपाधिः प्रदत्तः आसीत्| मैसूरचित्रकलाशैल्याः बहवः चित्रकाराः सन्ति ।“राजा रवि वर्मा” इत्याख्यः अपि सुप्रसिद्धचित्रकारः अस्ति ।सः धार्मिकचित्राणि निर्माति । तेन निर्मितानि चित्राणि सम्पूर्णे भारते, विश्वस्मिन् च पूजनाय प्रयुज्यन्ते ।मैसूरचित्रकलायाः शिक्षणाय “चित्रकला परिषद्” इति नामकं सङ्घटनं प्रचलितम् अस्ति ।
Samskrutha sahithya के बारे में चर्चा शुरू करें
वार्ता पृष्ठ ऐसी जगहें होते हैं जहाँ पर लोग विकिपीडिया की सामग्री को बेहतर से बेहतर कैसे बनाना है, इस बारे में चर्चा करते हैं। Samskrutha sahithya में सुधार कैसे करें, इस बारे में अन्यों के साथ चर्चा आरंभ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।