सर्वज्ञः
स्वभावः
[सम्पादयतु]सर्वज्ञः(Sarvagna) व्यवहारे चतुरः विवेकी तथा आदर्श: पुरुषश्च आसीत् । सः यथास्तिथिं साक्षात् वदति स्म इति कारणतः मूलस्थानं ग्रामं च त्यक्त्त्वा अटनीयम् अभवत् । एतेन अटनेन सः जीवने बहून् विषयान् ज्ञातवान् । सत्पथे गच्छन् सः सर्वे अस्मदीयाः एव इति भावयति स्म । अतः सः अनुभववान् कविः जातः ।
जन्म
[सम्पादयतु]कवेः सर्वज्ञस्य जातिमतादिविषये किमपि वक्तुं न शक्यते । एतस्य जन्मनः ऊहाः सत्यार्हाः न इति वदन्ति । सः क्रि .श . १५६५तमे वर्षे जातः स्यात् इति ऊहा । आहत्य १६ शतके सः अजीवत् इति वक्तुं शक्यते ।
कार्यम्
[सम्पादयतु]समाजस्य वक्रतां त्रिपदीनां द्वारा विशिष्टशैल्या अलिखत् कविः सर्वज्ञः । “अजेन अस्पृष्टं हरितं नास्ति” इव सर्वज्ञेन अनुक्तः विचाराः एव न सन्ति । एतस्य त्रिपदिषु जीवनधर्मं गोपितः अस्ति । श्रीयुतकृष्णशास्त्रिणः सर्वज्ञं “कन्नडभाषाजनानां तिरुवल्लुवर् इव वेमनः इव” इति उक्तवान् । तमिऴ्साहित्ये तिरुवल्लुवर् इव तेलुगुसाहित्ये वेमनः इव इति अभिप्रैति सः । सर्वज्ञस्य विशिष्टप्रयोगैः कन्नडसाहित्यं सार्थकथाम् आपन्नम् इति वक्तुं शक्यते ।