सर्वभूतानि कौन्तेय...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
- कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य सप्तमः(७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् कल्पक्षये पुनः तानि कल्पादौ विसृजामि अहम् ॥ ७ ॥
अन्वयः
[सम्पादयतु]कौन्तेय ! कल्पक्षये सर्वभूतानि मामिकां प्रकृतिं यान्ति । पुनः कल्पादौ तानि अहं विसृजामि ।
शब्दार्थः
[सम्पादयतु]- कौन्तेय = कुन्तीपुत्र !
- कल्पक्षये = प्रलयकाले
- सर्वभूतानि = समस्तभूतानि
- मामिकाम् = मदीयाम्
- प्रकृतिम् = त्रिगुणात्मिकां प्रकृतिम्
- यान्ति = प्राप्नुवन्ति
- अहं कल्पादौ = अहं सृष्टिकाले
- पुनः = भूयः
- तानि = तानि भूतानि
- विसृजामि = उत्पादयामि ।
अर्थः
[सम्पादयतु]हे अर्जुन ! यदा कल्पस्य क्षयः भवति तदा सर्वाण्यपि भूतानि मायारूपां मम शक्तिं प्रविशन्ति, अर्थात् तत्रैव लीयन्ते । यदा पुनः कल्पस्य आरम्भः तदा निलीनानि तानि सर्वाण्यपि भूतानि पुनः अहं सृजामि ।