सवणूरु वृक्षसमूहः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
व्रुक्षा
व्रुक्षा
व्रुक्षा

सवणूरु वृक्षदेवालयः हावेरीमण्डलस्य प्रसिद्धं स्थानम् अस्ति सवणूरुनगरम् । पूर्वम् एतत् सवणूरु- संस्थानस्य मुख्यस्थानमासीत् । पूर्वतनराजमन्दिराणां महाद्वाराणां चिह्नानि अधुनापि सन्ति । कल्मठप्रदेशे ऐतिहासिकाः दैत्याकारकाः बृहद्वृक्षाः सन्ति । अनेकेभ्यः शतकेभ्यः एते वृक्षाः अद्भुतम् अनुभवं यच्छन्तः सन्ति । वृक्षस्य गात्रम् वीक्ष्य सर्वे विस्मिताः भवन्ति । स्थानीयजनाः एतान् वृक्षान् ’दोड्डहुणसेमर अथवा ‘गोड्डुहुणसेमर’ इति कथयन्ति । एते वृक्षाः बाम्बिकेषियाजातीयाः इति वृक्षशास्त्रज्ञानाम् अभिप्रायः अस्ति । एतेषां भूस्थरीयपरिधिः १२ मीटर् मिता अस्ति । अग्रभागे न्यूनगात्राः सन्ति । नवम्बर् डिसेम्बरमाससमये एतेषु पुष्पाणि विकसन्ति । उर्वारुकम् इव अस्य फलानि भवन्ति । कपयः एतानि फलानि खादन्ति । अतः कपीनां आहारदायकाः वृक्षाः इति च जनाः कथयन्ति । एतेषु फलेषु च औषधीयाः गुणाः सन्ति । एतेषां वृक्षाणाम् परिधिः क्रमशः १४.६० मीटर्, ११.९७ मीटर् , ६१.६३ मीटरच सन्ति । औन्नत्यं क्रमशः १६.५० मीटर् १५.४० मीटर, १६.५० मीटर च सन्ति । एते वृक्षाः सदा शितलां छायां यच्छन्ति । एतेषां अधः स्यापितः आहारः दुष्टः न भवति । वृक्षाणां अधः ये तिष्ठन्ति तेषाण्नां शीघ्रं शीतबाधा भवति । सर्वः अनुभवः तत्र गत्वा एव प्राप्तव्यः।

मार्गः[सम्पादयतु]

धूमशकटमार्गः[सम्पादयतु]

बेङ्गळूरु-हुब्बळ्ळीमार्गे सवणूरु निस्थानमस्ति । निस्थानतः ५ कि.मी ।

वाहनमार्गः[सम्पादयतु]

धारवाडतः८० कि.मी । हुब्बळ्ळीतः ६० कि.मी

"https://sa.wikipedia.org/w/index.php?title=सवणूरु_वृक्षसमूहः&oldid=391688" इत्यस्माद् प्रतिप्राप्तम्