सुभाषचन्द्रबोसजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

भारतवीरस्य सुभाषचन्द्रबोसमहोदयस्य महाकार्याणि स्वातंत्र्यप्रेमान्दोलनानि स्मरन्तः प्रतिजनवरीमासस्य २३ तमम् दिनं ’सुभाषचन्द्रबोसजयन्ती’अथवा नेताजीजयन्ती इति आचरन्ति । भारतदेशतः आङ्ग्लान् निष्कासयितुं सुभाषचन्द्रबोस महोदयः भारतदेशे तथा विदेशेष्वपि अभूतपूर्वं कार्यं कृतवान् । सर्वेषां भारतीयानां मनसि स्वातन्त्रजागृतिं च कृतवान् ।

वैयक्तिक जीवनम्[सम्पादयतु]

सुभाषचन्‍द्रबोसः २३ जनवरी १८९७ तमे दिने जन्म लब्धवान् । पिता जानकीनाथः माता च प्रभावती । श्रीजानकीनाथः ओड़िशाराज्यस्य कटकनगरे प्रख्यातः न्यायावादी आसीत् । बाल्ये सुभाषचन्द्रः अतीव कुशलः दैवभक्तः प्रतिभावान् च आसीत् । स्वामी विवेकानन्दः श्री अरविन्दः इत्यादिनां प्रभावे आसीत् । उत्तमोपदेशेषु सुभाषचन्द्रस्य मनः संलग्नं भवति स्म । कोलकता- प्रेसिडेन्सिमहाविद्यालयतः बी.ए पदवीं लब्धवान् । अनन्तरं पितुः अपेक्षानुसारम् इङ्ग्लैण्डदेशं गत्वा भारतीयप्रशासनिकसेवापरीक्षाम् उत्तीर्य भारतम् आगतवान् ।

स्वात्रन्त्रसंग्रामे कार्यारम्भः[सम्पादयतु]

आङ्गल् सर्वकारसेवायां प्रविष्टः एषः १९२० तमे वर्षे असहकारान्दोलनसमये सेवां त्यक्त्वा श्रीमहात्मा गान्धिः इत्यादिभिः आरब्धे स्वातन्त्र्यसग्रामे भागं गृहीतवान् । कोलकतानगरे स्थितस्य श्री चित्तरञ्जनदासमहोदयस्य मार्गदर्शने सुभाषचन्द्रबोसमहोदयेन कार्यारम्भः कृतः ।

यदा श्री चित्तरञ्जनहासमहोदयः काङ्ग्रोसपक्षतः निर्वाचितः भूत्वा कोलकतानगरसभायाः अध्यक्षः अभवत् तदा सुभाषचन्द्रबोसमहोदयः नगरसभायाः प्रशासनिक-अधिकारिरुपेण कार्यं कृतवान् । तदा अनेकोत्तमकार्येषु रतं तं दृष्ट्वा आङ्गलसर्वकारेण सुभाषचन्द्रबोसमहोदयः बर्मादेशस्थिते माण्डलेकारागारे स्थापितः। कोलकतानगरे ‘अखिलबङ्गालतरुणसङ्घटनया सैमन् कमीशन् विरोधः कृतः । अनेकानि सम्मेलनानि कृतानि अभवन् । एतैः बङ्गालप्रान्तीयाः युवजनाः स्वातन्त्र्यसंग्रामे भागं स्वीकृतवन्तः । सुभाषचन्द्रबोसमहोदयः आङ्गलसर्वकारस्य कृते सिंहस्वप्नः इव आसीत् ।

१९२८ तमे वर्षे कोलकतानगरे अखिलभारतीयकाङ्ग्रेससम्मेलनम् अभवत् । तदा सम्मेलने “पूर्णं स्वातन्त्र्यम् अस्माकम् उद्धिश्यम् इति घोषितवान् । श्री सुभाशचन्द्रबोसः सर्वेषां गौरवपात्रम् अभवत् । इतः वर्षाभ्यन्तरे एव भारतदेशः स्वतन्त्रः भवतु “ इति आङ्गलसर्वकाराय निर्णयः प्रेषितः अभवत् ।

भारतदेशाय स्वातन्त्र्यदानार्थं चर्चाकरणाय आगतः सैमन नियोगः सर्वैः बहिष्कृतः आसीत् । लाहोरनगरे १९२९ तमे वर्षे काङ्ग्रेस-अधिवेशने “वयम् आङ्गल सर्वकारस्य निर्णयागमनपर्यन्तं न प्रतीक्ष्यामहे। अस्माकमेव प्रशासनं रचयामः” इति सुभाषचन्द्रबोसमहोदयः घोषितवान् । परन्तु श्रीमहात्मा गान्धिः एतं निर्णयं नाङ्गीकृतवान् । सुभाषचन्द्रबोसः १९३८ तमे वर्षे काङ्ग्रेसपक्षस्य अध्यक्षः अभवत् । अग्रिमवर्षेऽपि त्रिपुरासम्मेलने स्वागन्त्यान्दोलनाय नवीनं रुपं दातुम् इष्टवान् । किन्तु श्रीमहात्मागान्धिना विमनस्कः काङ्ग्रेस् अध्यक्ष स्थानं परित्यज्य बहिरागतवान् ।

सङ्घटनाकार्यानि[सम्पादयतु]

श्री महात्मा गान्धिः खलु शान्तिमार्गप्रियः सुभाषचन्द्रबोसमहोदयस्तु उग्रस्वरूपेण आन्दोलनेन उग्रवादिनायकः इति ख्यातः अभवत् । ‘फार्वर्डब्लाक् इत्येकां नवीनां सङ्घटनां संस्थाप्य स्वातन्त्र्यान्दोलन- कार्याणि आरब्धवान् तदा आङ्गलाः सुभाषचन्द्रबोसमहोदयं कारागारे बद्धवन्तः । यत्र कुत्रापि गमने निषेधं कृतवन्तः। तदा अत्यन्तं कौशलेन साधुवेषं धृत्वा नेताजी महोदयः पेषावरनगरं गत्वा ततः मास्कोमार्गतः जर्मनीदेशं गतवान् । महादण्डनायकेन हिट्लरमहोदयेन सह चर्चां कृत्वा सन्धिं कृतवन्तः । १९४१ तमे वर्षे अजादहिन्दफौजनामकं सैन्यं कृतवन्तः । मलया बर्मा सिङ्गपूरम् इत्यादिषु पूर्वएशियादेशेषु स्थितान् भारतीयान् आनीय एतत् सैन्यं निर्मितवन्तः । त्रिसहस्रजनाः सैनिकाः युद्धसन्नध्दाः आसन् । १९४२ तमे वर्षे भारतदेशे “ भारतं त्यजत (चले जाव) आन्दोलनं प्रवृत्तम् आसीत् । भारतदेशे स्थितान् आङ्गलान् तेषां विरोधिनां जर्मनजापानदेशीयानां साहाय्येन पराजेतुं सुभाषचन्द्रबोसं कार्यप्रवृत्तः अभवत् ।

महिलानां सेनाऽपि सुभाषचन्द्रबोसमहोदयेन कल्पिताऽसीत् । आङ्गलसर्वकारेण तु सुभाषचन्दरबोस- महोदयः कुत्रास्ति इति न ज्ञातमासीत् । अन्वेषणकार्यं प्रचलति स्म । १९४२ तमे वर्षे प्रवृत्ते आन्दोलने सुभाषचन्द्रबोसमहोदयः नायकः भवतु इति भारतीयानाम् आशा आसीत् । भारतदेशे वासं कर्तु नेताजी अपि इष्टवान् आसीत् ।

जर्मनीदेशतः जापानदेशपर्यन्तं नौकायानेन सेनासहितः आगत्य, पूर्वभागतः भारतं प्रवेष्टुम् इच्छन् सुभाषचन्द्रबोसमहोदयः जापानतः निर्गच्छन् आसीत् । तदा एव विमानापघाते सुभाषचन्द्रबोसमहोदयः मृतः अभवत् इति भारते आङ्गलसर्वकारः घोषणाम् अकरोत् । स्वयं सुभाषचन्द्रबोसमहोदयः टोकियोनगरतः वार्तालापं कृत्वा ‘अहं जीवामि’ इति सूचितवान् । अनन्तरम् १९४३ तमे वर्षे [[रासबिहारीबोसः।रासबिहारीबोसमहोदयेन। स्थापितस्य सवतन्त्रभारत- सङ्घस्य. नायको भूत्वा सुभाषचन्द्रबोसमहोदयः भारतीयानां स्वातन्त्र्यप्रियानां नायकः ‘नेताजी’ इति प्रख्यातः। एकवर्षाभ्यन्तरे दिल्लीनगरे लालकिला(रक्तदुर्गे)स्थले स्वतन्त्रभारतस्य त्रिवर्णध्वजः विराजेत् इति घोषणां कृत्वा सुभाषचन्द्रबोसमहोदयः १९४३ तमे वर्षे अण्डमान् द्वीपं वशीकृतवान् । अग्रे भारतागमनम् इति सर्वेषां लक्ष्यमासीत् ।

सुभाषचन्द्रबोसमहोदयः “भवन्तः रक्तं यच्छन्तु, अहं स्वातन्त्र्यं दापयामि’ इति घोषणां कृतवान् । युवजनाः स्वरक्तेन हस्ताक्षराणि दत्तवन्तः । १९४४ तमे वर्षे बर्मादेशे नेताजी सेना आसीत् (किन्तु अग्रे तस्य गमनम् असफलम् अभवत्) । द्वितीयविश्वयुद्धं समाप्तम् आसीत् । २२-८-१९४५ तमे दिनाङ्के टोकियो आकाशवाणीतः ह्रदयविद्रावकं वचनं श्रोतव्यम् अभवत् यत् “ श्रीसुभाषचन्द्रबोसमहोदयः विमानापघाते मरणं प्राप्तवान् “ इति ।

स्वमरणसमयेऽपि भारतस्य स्वातन्त्र्यमेव श्री सुभाषचन्द्रबोसमहोदयस्य मनसि आसीत् । “शीघ्रमेव भारतदेशः स्वतन्त्रः भवति” इति । एषः सन्देशः एव सुभाषचन्द्रबोस महोदयस्य अन्तिमसन्देशः अभवत् । भारतदेशे सुभाषचन्द्रबोसमहोदयस्य जयन्ती समये वीरयोधस्य समर्थदण्डनायकस्य सङ्घटकस्य स्मरणं कुर्वन्ति । देशप्रेमवर्धनार्थम् अनेककार्यक्रमाः आयोज्यन्ते । आधुनिकभारतीयानां श्री सुभाषचन्द्रबोसमहोदयः स्फूर्तिदायकः मार्गदर्शकः देशप्रेमिनेता इति प्रसिद्धः अस्ति । भारतसर्वकारेण भारतरत्नप्रशस्त्या श्री सुभाशचन्द्रबोसमहोदयः सत्कृतः आसीत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]