सोमनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सोमनाथ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
सोमनाथः

સોમનાથ

Somnath
सोमनाथमन्दिरम् वेरावळ
सोमनाथस्य मन्दिरम् वेरावळ
स्थितिः वेरावळ (सौराष्ट्रः), गुजरातराज्यम्
मुख्योत्सवः महाशिवरात्रिः (माघमासस्य कृष्णा चतुर्दशी)
स्थापकः चन्द्रः
जालस्थानम् www.somnath.org

सोमनाथमन्दिरं ( /ˈsmənɑːθəh/) (गुजराती: સોમનાથ, आङ्ग्ल: Somnath) गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे प्रभासपाटणपत्तने समुद्रतटे स्थितं भव्यमन्दिरं वर्तते । समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति । सोमनाथः द्वादशज्योतिर्लिङ्गेषु प्रप्रथममं महत्तमञ्च ज्योतिर्लिङ्गं वर्तते । सोमेश्वरः इत्यप्यस्य नामान्तरम् । चन्द्रः (सोमः) अस्य लिङ्गस्य स्थापनां कृतवान् । अत्रैव कपिलानदी-सरस्वतीनदी-हिरण्यानदीनां सङ्गमः भवति । अत एतद् क्षेत्रं त्रिवेणीक्षेत्रमिति नाम्नापि प्रसिद्धम् ।

पुराणे सोमनाथः[सम्पादयतु]

पुराणेषूल्लेखोस्ति यत् त्रेतायुगे वैवस्वतमन्वन्तरे शुक्लपक्षस्य तृतीयायां अस्य मन्दिरस्य स्थापना बभूव । अत्रैव चन्द्रः तपः कृतवानासीत् । एतल्लिङ्गं चन्द्र एव अस्थापयत् । पौराणिककथानुसारं चन्द्रः दक्षस्य सप्तविंशतिकन्याभिः सह विवाहं कृतवान् आसीत् । परन्तु चन्द्रः (दक्षस्य लघुत्तमा कन्या) रोहिण्याम् अधिकं स्निह्यति स्म । तेन अन्ये चन्द्रपत्नीनाम् अवगणना तु भवति स्म, परन्तु तेषामपमानमपि भवति स्म । द्विवारं दक्षः स्वजामातरं "एवं न करु" इति पर्यबोधयत । परन्तु चन्द्रः स्वव्यवहारं न परिवर्तितवान् । तेन कुपितः दक्षः चन्द्रं "त्वं क्षयरोगी भव" इति अशप्यत् । चन्द्रे क्षये सति देवाः भीताः सन्

भगवान् श्रीसोमनाथः

ब्रह्मणः समीपं गताः । ब्रह्मा अवदत्, चन्द्रः प्रभासपाटणक्षेत्रे शिवोपासनां करोति चेत् तस्य शापशमनं भवेत् इति । चन्द्रः सौराष्टे स्थितं प्रभासपाटणक्षेत्रम् गत्वा शिवलिङ्गञ्च निर्माय शिवोपासनां प्रारभत । शिवे प्रसन्ने सति चन्द्रं शापमुक्तम् अकरोत् । तदा शिवः अकथयत्, इतः परम् अहमत्र सोमनाथरूपेण निवसामीति । सोमलिङ्गस्य दर्शनेन भक्तानां सर्वाणि पापानि नश्यन्ति । अपेक्षितं फलं प्राप्य मरणानन्तरं स्वर्गं प्राप्नुवन्ति इति विश्वासः अस्ति । प्रभासक्षेत्रस्य परिभ्रमणेन पृथ्वीप्रदक्षिणफलं प्राप्यते इति शिवपुराणस्य कोटिरुद्रसंहितायाम् उक्तम् अस्ति ।

स्कन्दपुराणे “प्रभासखण्डः” इति पृथक् विभागः एव अस्ति । तत्र प्रभासतीर्थस्य एव वर्णनं कृतम् अस्ति । ऋग्वेदस्य खिलसूक्ते अपि सोमनाथक्षेत्रस्य उल्लेखः अस्ति ।

यत्र गङ्गायमुना यत्र प्राची सरस्वती
यत्र सोमेश्वरो देवस्तत्र माममृतं कृधीन्द्रायिन्दो परिस्रव ॥
                             (ऋग्वेदः, खिलसूक्तम् ९.२०.५)

श्रीकृष्णेन स्वावतारस्य अवसानकाले अन्तिमानि दिनानि अत्रैव यापितानि इति पुराणानां वचनम् । श्रीकृष्णावतारस्य परिसमाप्तिकाले यदा जराव्याधेन मुक्तः बाणः कृष्णस्य पादम् अघातयत् । तदा श्रीकृष्णः अत्र अन्तर्धानोऽभूदिति वर्णनमायाति । तस्य देहोत्सर्गस्थाने हिरण्यानद्याः तीरे यादवस्थली नामकं क्षेत्रम् अस्ति । अत्रैव यादवाः अन्तःकलहेन नाशं प्राप्नुवन् इति कथा श्रूयते । राज्ञा बलिना अत्र अश्वमेधयागः कृतः इत्यपि स्कन्दपुराणे वर्ण्यते ।

इतिहासः[सम्पादयतु]

पुरा मुख्यमन्दिरस्य पुरोभागे २०० किलोभारयुता स्वर्णशृङ्खलायुता महाघण्टा आसीत् । कर्मकराणां कार्यसमयस्य परिवर्तनावसरे एतां घण्टां वादयन्ति स्म । मन्दिरस्य पूजादिकार्यनिर्वहणाय १००० ब्राह्मणाः नियुक्ताः आसन् । यात्रिकाणां क्षौरकार्यार्थम् एव ३०० नापिताः नियुक्ताः आसन् । देवालयस्य नित्यनैमित्तिक-गायनवादननिमित्तं ३०० गायकानां, ५०० कलाविदां च नियुक्तिः कृता आसीत् । मन्दिरस्य निर्वहणार्थं १०,००० ग्रामेभ्यः ३० कोटिमितानां रूप्यकाणां निधिः सङ्गृहीतः आसीत् ।

१८६९ तमे वर्षे सोमनाथः

चन्द्रस्थापितम् एतन्मन्दिरं बहुवारं ध्वस्तं जातमस्ति । परन्तु सर्वदा शिवभक्ताः एतस्य पुनर्निर्माणं कृतवन्तः । सर्वप्रथमं चन्द्रः इदं मन्दिरं स्वर्णेन निर्मापितवान्, यस्य ध्वंसानन्तरं रावणः रजतेन मन्दिरस्य पुनर्निर्माणं कारितवान्, अस्यापि ध्वंसानन्तरं भगवान् विष्णुः चन्दनकाष्ठैः अस्य मन्दिरस्य पुनर्निर्माणं कारयामास । तदनन्तरमपि अस्य मन्दिरस्य ध्वंसः, पुनर्निर्माणश्च बहुवारं अभूत् ।

ध्वस्तं सोमनाथमन्दिरम्

७२५ तमे वर्षे 'जूनायद' नामकः 'आरब'शासकः एतन्मन्दिरम् अलुण्ठत् अध्वंसत च । ततः ८१५ तमे वर्षे नागभट्टनामकः कश्चन राजा पुनर्निर्माणं कारितवान् । पुनः १०२६ तमे वर्षे 'महमद गजनी' नामकः यवनराजा मन्दिरम् अलुण्ठत् । एषोऽपि मन्दिरं ध्वस्तं कृतवान् परन्तु कथं चेद् असख्यकानां यात्रिकानां वधं कृत्वा, अन्ते मन्दिरं अग्निसात्करोत् । पश्चाद् १०२६-१०४२ मध्ये राजा भीमदेवः पुनर्निर्माणं कारितवान् । १७०६ तमे वर्षे मोगल राजा औरङ्गजेब सोमनाथं अलुण्ठत् अध्वंसत च ।

सम्पूर्णे इतिहासे सोमनाथ-मन्दिरस्य बहुवारं नाशः अभवत् । बहवः यवनराजानः, मुगलराजानः च सोमनाथ-मन्दिरस्य सम्पत्तिं लुण्ठितवन्तः ।

  • सोमनाथस्य प्रथमं मन्दिरं ईसाई-युगस्य प्रारम्भे एव अभवत् इति उच्यते [१]। तदनन्तरं गुजरात-राज्यस्य वल्लभी-प्रदेशस्य मैतृक-राजभिः सोमनाथ-मन्दिरस्य द्वितीयवारं निर्माणं कारितम् आसीत्[२]
  • पुनश्च ई. स. ७२५ तमे वर्षे सिन्ध-प्रदेशस्य अरबशासकेन द्वितीयमन्दिरस्य नाशं कर्तुं स्वस्य सैन्यं प्रेषितम् आसीत् ।
  • तदनन्तरं ई. स. ८१५ तमे वर्षे प्रतिहार-वंशस्य राज्ञा नागभट्टद्वितीयेन सोमनाथस्य तृतीयमन्दिरस्य रक्तसिकतापाषाणैः निर्माणं कारितम्[१],[३]
  • पुनश्च गजनी-साम्राज्यस्य महमूद इत्याख्येन ई. स. १०२६ तमे वर्षे मन्दिरस्य नाशं कृतम् । तेन शिवलिङ्गम् अपि त्रोटितम् । अतः प्रमुखशिवलिङ्गं पूर्णतया नष्टम् जातम् आसीत् ।
  • ई. स. १०२६ तमे वर्षे चतुर्थवारं मालवा-प्रान्तस्य परमार-वंशस्य राज्ञा भोजेन मन्दिरस्य निर्मार्णं कारितम् । पुनश्च ई. स. १०४२ तमे वर्षे गुजरात-राज्यस्य सोलङ्की-वंशस्य राज्ञा भीमेन अपि अस्य पुनर्निर्माणं कारितम् आसीत् ।
  • काष्ठैः मन्दिरस्य निर्माणं कारितम् आसीत् । अतः सोलङ्की-वंशस्य राज्ञा कुमारपालेन पुनः पाषाणैः मन्दिरस्य निर्माणं कारितम् आसीत् ।
  • पुनश्च १३०० तमे वर्षे अलफ खान इत्याख्येन राज्ञा मन्दिरं नाशितम् [३]
  • तदनन्तरं ई. स. १३९४ तमे वर्षे गुजरात-राज्ये पुनः देहली-साम्राज्यस्य सार्वभौमत्वम् अभवत् । ई. स. १७०६ तमे वर्षे औरङ्गजेब् इत्याख्येन मुगल-राज्ञा मन्दिरस्य नाशः कृतः ।[२]

लुण्ठकः “महमद”[सम्पादयतु]

महमद इत्याख्यः एकः यवनशासकः आसीत् । सः निर्दयी, निकृष्टः च शासकः आसीत् । सः सोमनाथ-मन्दिरस्य ऐश्वर्यं ज्ञातवान् आसीत् । अतः लोभकारणेन सः सोमनाथ-मन्दिरं लुण्ठितुम् ऐच्छत् ।

सोमनाथ-मन्दिरं गन्तुं उत्तर-पूर्वदिशि मार्गः आसीत् । किन्तु तस्मिन् मार्गे अवरोधः भवितुं शक्यते स्म । अतः महमद अन्यमार्गेण सोमनाथ-नगरं प्राप्तवान् । किन्तु सः कुतः सोमनाथ-मन्दिरं प्राप्तवान् आसीत्, तस्य किमपि प्रमाणं नास्ति । तथापि अनुमानम् अस्ति यत् – “सः राजस्थान-राज्यस्य रणप्रदेशं प्राप्य गतवान् स्यात् इति” ।

तस्य मार्गे अन्हीलवाड अपि आगतम् । तस्मिन् समये भीमदेवः तत्रत्यः राजा आसीत् । सः सोलङ्की-वंशीयः आसीत् । सहसा महमद इत्याख्यस्य सेनया सह आगमनेन भीमदेवः भीतः जातः । यतः भीमदेवः तदा नूतनः एव आसीत् । किन्तु महमद-इत्याख्येन अन्हीलवाड-प्रदेशस्य वा निवसतां काऽपि क्षतिः न कृता ।

तदनन्तरं तस्य मार्गे बहुचराजी, वीरमगाम, धन्धुका, ऊना देलवाडा, कोडीनार इत्यादयः प्रदेशाः आगताः । तेन कोडीनार-प्रदेशस्य देवालयं नाशितम् । अनेन ज्ञायते यत् – महमद इत्याख्येन सोमनाथ-मन्दिरस्य प्राप्तेः पूर्वं कुत्रापि युद्धं न कृतम् ।

कोडीनार-प्रदेशानन्तरं मार्गे कोऽपि तेन सह युद्धं कर्तुं समर्थः नासीत् । यदा सः गीर-प्रदेशस्य सीमां प्राप्तवान् आसीत्, तदा गीर-प्रदेशस्य आदिवासिजनैः तेन सह युद्धं कृतम् । तस्मिन् युद्धे महमद-इत्याख्यस्य बहवः सैनिकाः मृताः ।

१०२६ तमस्य वर्षस्य जनवरी-मासे महमद सोमनाथ प्रभास-नगरं प्राप्तवान् आसीत् [२]।। साम्प्रतं प्रभास-नगरं सोमनाथ इति नाम्ना ज्ञायते । यदा सः सोमनाथ-नगरं प्राप्तवान् आसीत्, तदा सोमनाथमन्दिरस्य रक्षणार्थं सैन्यम् एव नासीत् । यतो हि भारतवर्षे तस्य मन्दिरस्य प्रतिष्ठा आसीत् यत् - कोपि भारतीयराजा तस्य मन्दिरस्य हानिं न कुर्यात् ।

यदा महमद इत्ययं स्वस्य सैन्येन सह सोमनाथ-मन्दिरं प्राप्तवान्, तदा तत्रत्यैः क्षत्रियैः लघुसैन्यं रचितम् । क्षत्रियाः लघुसैन्येन एव युद्धम् अकुर्वन् । तद्युद्धं आदिनम् अभवत् । रात्रौ युद्धस्य विरामः अभवत् । अपरे दिने प्रातःकाले पुनः महमद इत्याख्येन आक्रमणं कृतम् । तावत्पर्यन्तं रा’नवघण इत्याख्यः राजा सोमनाथ-मन्दिरस्य रक्षणार्थं प्राप्तवान् आसीत् ।

रा’नवघण इत्यस्य सैन्यबलं ज्ञात्वा तस्मिन् दिने महमद इत्याख्येन युद्धम् अवरोधितम् । अनेन सोमनाथ-मन्दिरस्य रक्षकाः निश्चिन्ताः अभवन् । ते आनन्दम् अन्वभवन् । किन्तु इयं महमद इत्याख्यस्य युक्तिः एव आसीत् |

यदा रक्षकाः आनन्दोत्सवम् आमनन्तः आसन्, तस्मिन् समये महमद-इत्यनेन सहसा एव रक्षकेषु आक्रमणं कृतम् । तस्मिन् आक्रमणे बहवः रक्षकाः मृताः ।

तदनन्तरं तेन मन्दिरस्य नाशं कृत्वा सोमनाथ-महादेवस्य लिङ्गं परिखण्डितम् [२]। यदा लिङ्गं खण्डितं जातं, तदा लिङ्गस्य अधस्तात् बहूनि रत्नानि, द्रव्यानि च प्राप्तानि अभवन् । तेषां द्रव्याणां तुलना अपि अशक्या । तस्मिन् युद्धे पञ्चाशत्सहस्रं भारतीयसैनिकाः हताः ।

प्रतिगमनम्[सम्पादयतु]

लुण्ठनानन्तरं महमद ततः त्वरितमेव निर्गतवान् आसीत् । केचन लेखकाः कथयन्ति यत् – यथा महमद निशब्दम् आगतवान् आसीत्, तथैव सः निशब्दम् एव निर्गतवान् आसीत् । सः केनचित् अज्ञातमार्गेण गतवान् । यतः गुजरात-राज्यस्य विभिन्नप्रदेशीयाः राजानः तस्य गमनमार्गे अवरोधकत्वेन आसन् । अतः महमद इत्यनेन सः मार्गः त्यक्तः, यत्र राजानः आसन् ।

“खिताब झइन् उल् अखबार” इत्ययं प्राचीनतमः लेखः आसीत् । तस्य लेखानुगुणं मुनशीजी इत्याख्येन उक्तम् अस्ति यत् – “हिन्दूनां राजा परमदेवः तस्य गमनमार्गे आसीत् । अतः महमद भीतः जातः । सोमनाथ-मन्दिरस्य लुण्ठने यावत् परिश्रमः अभवत्, सः परिश्रमः व्यर्थः मा भवेत् इति विचिन्त्य सः अन्यमार्गेण गतवान् आसीत् ।

सः एकस्य मार्गदर्शकस्य साहाय्येन मानसुरा इत्यस्मात् स्थानात् मुलतान-प्रदेशं प्राप्तवान् आसीत् । सः स्वस्य सेनया सह समुद्रस्य तीरे एव गच्छन् आसीत् । मार्गे मरुप्रदेशः अपि आसीत् । मरुप्रदेशस्य शुष्कभूमेः, समुद्रस्य तरङ्गेभ्यः च तस्य सेनायाः पशवः, यवनाः च हताः । मुलतान-प्रदेशे प्राप्ते सति महमद इत्यस्य महती हानिः जाता ।

परमदेवः कः आसीत् ? इति अद्यावधि अस्पष्टम् अस्ति । किन्तु मुनशीजी महाभागस्य मतानुसारं “परमदेवः तत्कालीनस्य परमार-वंशस्य राजा भोजः आसीत्” इति अनुमानम् अस्ति ।

ई. स. १०२६ तमस्य वर्षस्य अप्रैल-मासस्य २ दिनाङ्के महमद स्वदेशं प्राप्तवान् आसीत् । किन्तु तदा तस्य सेनायाः स्थितिः गम्भीरा आसीत् । अनन्तरं सः कदापि भारतस्य कस्मिंश्चित् अपि प्रदेशे आक्रमणं कर्तुं नैच्छत् ।

अनेन स्पष्टं भवति यत् – महमद युद्धं विहाय एव धनं प्राप्तुं ऐच्छत् । अतः सः गुप्तमार्गेण आवागमनं कृतवान् आसीत् ।

अनन्तरं भीमदेवप्रथमं, कुमारपालनादिभिः राजभिः सोमनाथस्य पुनर्निमाणं कृतम् ।

महमद इत्याख्येन केवलं लुण्ठनकार्यं एव कृतम् । अपरं सः किमपि श्रेष्ठं विशेषं वा कार्यं न कृतवान् । यदा सः गजनी-प्रदेशं प्राप्तवान्, तदा तत्रत्यैः राजपुत्रैः तेन सह युद्धम् कृतम् । तस्मिन् समये सः जीर्णज्वरेण पीडितः आसीत् । तथापि ई. स. १०२७ तमे वर्षे सः सिन्ध-देशे आक्रमणं कृतवान् । तस्मिन् युद्धे सः पराजयं प्राप्तवान् । ई. स. १०३० तमे वर्षे तस्य मृत्युः अभवत् ।

प्रसङ्गस्य वर्णने विवादः[सम्पादयतु]

महमद इत्यनेन यावती सम्पत्तिः लुण्ठिता, तस्य अतिशयोक्तिपूर्णं वर्णनं कृतम् अस्ति । अस्य प्रसङ्गानुसारं बहुभिः यवनलेखकैः स्वस्य लेखेषु वर्णनं कृतम् अस्ति । किन्तु तद्वर्णनं अतिशयोक्तिपूर्णम्, अविश्वसनीयं च वर्तते ।

यतो हि तेषां लेखेषु यद्वर्णितम् अस्ति तस्मिन् केवलं – “रक्षकाः मन्दिरस्य रक्षणार्थं युद्धं कृतवन्तः । पञ्चसहस्रं रक्षकाः हुतात्मनः अभवन्” इत्यादि सर्वं वर्णनं सत्यं वर्तते । अन्यं सर्वम् अतिशयोक्तिपूर्णम् अविश्वसनीयं च वर्णनं वर्तते ।

ये इतिहासस्य लेखकाः आसन्, तैः अपि अस्य प्रसङ्गस्य उल्लेखः कुत्रापि न कृतः । हेमचन्द्राचार्यतः सोमेश्वरपर्यन्तं सर्वे लेखकाः अस्य प्रसङ्गस्य विषये किमपि न लिखितवन्तः ।

महमद इत्याख्यस्य ‘अल् उत्ली’ इति नामकेन लेखाधिकारिणा (Secretary) ई. स. १०३१ तमे वर्षे खिताब इयमीनी इति लिखितम् आसीत् । तस्मिन् अपि तेन अस्य प्रसङ्गस्य विषये किमपि न वर्णितम् ।

अक् गार्डीझी इत्याख्यः एकः अरब-भाषायाः लेखकः आसीत् । ई. स. १०४९ तः १०५२ वर्षपर्यन्तं अल् गार्डीझी इत्याख्येन झइन् उल् अखबार इति नामकं पुस्तकं लिखितम् आसीत् । तस्मिन् पुस्तके तेन एव अस्य प्रसङ्गस्य सर्वप्रथमः उल्लेखः कृतः आसीत् ।

अतः "सोमनाथस्य नाशस्य प्रसङ्गः एव न अभवत्" इति नास्ति इति स्पष्टं भवति । किन्तु प्रसङ्गस्य द्विशतं वर्षाणि यावत् यवनलेखकैः ये लेखाः लिखिताः । तेषु लेखेषु अतिशयोक्तियुताः बहवः लेखाः सन्ति । ते लेखाः सम्यक्तया परिशीलनीयाः भवन्ति ।

यवनलेखकाः स्वस्य लेखेषु महमद-इत्याख्यस्य शौर्यस्य प्रशंसां कुर्वन्ति । साम्प्रतम् अनेकाः यवनबौद्धिकाः महमद इत्याख्यस्य पक्षे कथयन्ति यत् - “ महमद इत्याख्येन गजनी-प्रदेशस्य सुन्दरभवनानां निर्माणाय, पुस्तकालयस्य निर्माणाय इत्यादिभ्यः विभिन्नकार्येभ्यः लुण्ठितस्य धनस्य उपयोगः कृतः आसीत् ।

यः जनः अन्यधर्मस्य कलात्मकभवनानां नाशे, लुण्ठने, युद्धे, स्त्रीणाम् अपहरणे इत्यादिषु नीचकार्येषु एव स्वस्य धर्मः इति कथयति, तेन इस्लाम-धर्मस्य सर्वे नियमाः उल्लङ्घिताः ।

महमद इत्याख्येन मथुरा-नगरस्य केशवदेवस्य मन्दिरस्य नाशः कृतः आसीत् । अतः यः स्थापत्यप्रेमी भवति, सः एतावत् कार्यं कथं कर्तुं शक्नोति ?

महमद इत्याख्यस्य ‘अल् उत्ली’ इति नामकेन लेखाधिकारिणा (Secretary) मन्दिरस्य विषये उक्तं यत् – “इदं मन्दिरं समृद्धं आसीत् । सर्वोत्कृष्टाः निर्मातारः अपि २०० वर्षेषु अपि एतावत् सुन्दरं कार्यं कर्तुं न शक्नुवन्ति” ।

यस्मिन् यवनोपासनागृहे बहुवर्षाणि यावत् काऽपि धार्मिकक्रिया न भवति स्म, तस्य बाबरी यवनोपासनागृहस्य नाशेन यवनाः दुःखिताः अभवन् । तथैव यदा सोमनाथ-मन्दिरस्य नाशः अभवत्, तदा भारतीयाः महद्दुःखिताः अभवन् इति निश्चितम् ।

इतिहासे अयमेकः अविस्मरणीयं कृत्यम् आसीत् । भारते प्रथमवारं एतावत् विध्वंसकं कार्यम् अभवत् । ततः परं अन्यैः यवनैः अपि नाशकानि कार्याणि कृतानि । किन्तु तेषाम् इदं कृत्यम् इस्लाम-धर्मविरुद्धम् आसीत् ।

इस्लाम-धर्मे धर्मस्थानानां नाशाय प्रतिबन्धः अस्ति । किन्तु तत्कालीनैः इस्लाम-धर्मोपासकैः महमद इत्याख्यस्य प्रशंसा कृता, पुरस्कारः प्रदत्तः च आसीत् ।

महमद इत्याख्येन यद्दुष्कार्यं कृतम् आसीत्, तस्य प्रभावः वर्तमाने अपि दृश्यते । अमेरिका-देशस्य ‘परसीवल् स्पीअर्’ इति नामकेन इतिहासकारेण लिखितम् अस्ति यत् – “महमद इत्याख्यस्य कृत्यस्य परिणामद्वयम् अभवत् । प्रथमं तु यवनेभ्यः भारतप्रवेशाय मार्गः उद्घाटितः जातः । द्वितीयं तु भारतीयानां मनसि यवनानां कृते सहिष्णुता समाप्ता जाता” ।

साम्प्रतं देशस्य विभागानन्तरम् अपि भारते यवनाः बहवः सन्ति । यवनानां जनसङ्ख्यानुगुणं भारतं विश्वे द्वितीयक्रमाङ्के अस्ति । यतः इस्लाम-धर्मोपासकानां, सूफीसंत इत्यादीनां निर्मलतायाः, सहिष्णुतायाः, सज्जीवनस्य च कारणादेव भारतीयाः आकर्षिताः अभवन् । ते उपासकाः सहिष्णवः आसन् । ते इस्लाम-धर्मस्य नियमानाम् अनुसरणं कुर्वन्ति स्म ।

आक्रमणानन्तरम्[सम्पादयतु]

महमद इत्याख्यस्य आक्रमणेन स्पष्टं भवति यत् – “कस्मिंश्चित् समये अफगानिस्तान्-देशः ब्राह्मणराज्ञाम् अधीनो आसीत् । किन्तु तदनन्तरम् अफगानिस्तान्-देशे तुर्क्-देशीयानाम् आधिपत्यम् अभवत् । तुर्क्-देशीयैः पञ्जाब-राज्ये अपि आधिपत्यं कृतम् आसीत् ।

अनेन कारणेन तुर्क्-देशीयाः भारतस्य सम्पर्के आसन् । तेन एव कारणेन महमद इत्याख्येन निरन्तरं सप्तदशवारं भारते आक्रमणानि कृतानि आसन् ।

सोमनाथमन्दिरस्य, मथुरा-नगरस्य देवालयानां लुण्ठनानन्तरं स्पष्टम् अभवत् यत् यदा कदा अपि वैदेशिकाः अवसरं प्राप्स्यन्ति, तदा भारते आक्रमणं करिष्यन्ति । यतः पञ्जाब-राज्यस्य मार्गः अपि उद्घाटितः आसीत् ।

सम्पूर्णं वृत्तान्तं ज्ञात्वा अपि भारतीयाः राजानः अभिमानस्य कारणात् सङ्घटिताः न जाताः इति स्पष्टम् अस्ति ।

आहत्य, सप्तदशवारम् अस्य मन्दिरस्य ध्वंसः कृत: आसीत् इति उल्लेखो प्राप्यते । अधुना यद् मन्दिरमस्ति, तस्य पुनर्निर्माणकार्यम् महान् नेता लोहपुरुषश्च सरदार् वल्लभभाई पटेलः १९४७ तमे वर्षे नवम्बरमासस्य ३० दिनाङ्के आरब्धवान् । १९५१ तमे वर्षे मेमासस्य ११ दिनाङ्के राष्ट्रपतिः श्रीराजेन्द्रप्रसादः अत्र प्राणप्रतिष्ठाम् अकरोत् । मूलस्थाने पुनः वैभवयुतं मन्दिरं शिरः उन्नीय स्थितम् । एतत् मन्दिरम् अद्य अत्यन्तं सुन्दरम् अपूर्वशिल्पकलायुक्तमन्दिरं सञ्जातम् । प्राचीनस्य सोमनाथमन्दिरस्य अवशेषाः अट्टोपरि सङ्गृहीताः सन्ति । पालिताणापत्तनस्य प्रसिद्धस्य शिल्पिनः प्रभुशङ्करसोमपुरा इत्याख्यस्य मार्गदर्शनेन एतत् मन्दिरं निर्मितम् आसीत् । महाराष्ट्रस्य सुप्रसिद्धवैदिकपण्डितस्य लक्षमणशास्त्रिजोशी इत्येतस्य पौरोहित्ये अत्र प्राणप्रतिष्ठा जाता । तस्य गुरुः श्रीकेवलानन्दसरस्वती अपि अस्मिन् कार्यक्रमे भागम् गृहीतवान् ।

श्रीप्रभासतीर्थः

समीपस्थानि मन्दिराणि[सम्पादयतु]

त्रिवेणीसङ्गमः

श्रीप्रभासतीर्थः[सम्पादयतु]

अत्र लक्ष्मीनारायणौ विराजेते । अत्र गीतामन्दिरे श्रीमद्भग्वद्गीतायाः सर्वे ७०० श्लोकाः अष्टश्वेतप्रस्तरेषु उत्कीर्णाः सन्ति । अत्र भगवतः श्रीकृष्णस्य चरणचिह्नम् अस्ति । गीतामन्दिरस्य समीपे भगवतः बलरामस्यान्तर्ध्यानस्थलमस्ति । शेषावतारी बलरामः अत्रैव पाताललोकं प्रविष्टवान् । अतः एतस्य स्थलस्य नाम देहोत्सर्गः इति ।

श्रीपरशुराममन्दिरम्[सम्पादयतु]

भगवान् परशुरामः एकविंशतिवारं क्षत्रियाणां पराजयं विधाय पृथिव्याः दानं चक्रे । तस्य पापशमनार्थं सः अत्र तपस्तप्तवान् । तदा भगवान् सोमनाथः तं पापमुक्तमकरोत् । तदेव पवित्रस्थलं तिसॄणां नदीनां सङ्गमोऽस्ति । अत्र भगवतः परशुरामस्य मन्दिरं तथा कुण्डद्वयञ्चास्ति ।

त्रिवेणीसङ्गमः[सम्पादयतु]

अत्रैव कपिलानदी-सरस्वतीनदी-हिरण्यानदीनां सङ्गमो भवति । अत्र स्नानस्य, पिण्डदानस्य, तर्पणस्य च विशिष्टं महत्वमस्ति । गुजरातसर्वकारः अस्य स्थलस्य जीर्णोद्धारं कृतवान् । ततः अस्याकर्षणं बहुवर्धितमस्ति ।

भालकातीर्थः[सम्पादयतु]

व्याधस्य क्षमायाचनम्

एतदेव भगवतः श्रीकृष्णस्य देहोत्सर्गस्थानम् । जरा नामकः कश्चन व्याधः हरिणं मत्वा शरेण श्रीकृष्णस्य पादतले प्रहारम् अकरोत् । स्वस्य दोषे ज्ञाते सति व्याधः क्षमां अयाचत,श्रीकृष्णः तं अक्षाम्यच्च । एषा लीला पिप्पलवृक्षस्याधः अभूत् । सः पिप्पलवृक्षः अधुनापि तत्रास्ति । एतत् स्थानं भक्तानां हृदयशान्तिदायकमस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

तत्र भूगर्भे सोमनाथ-लिङ्गस्य स्थापना कृता अस्ति । भूगर्भे सति प्रकाशस्याभावः वर्तते । तस्मिन् मन्दिरे पार्वत्याः, सरस्वत्याः, लक्ष्म्याः, गङ्गायाः, नन्दिनः च मूर्तयः सन्ति । भूमेः उपरिभागे शिवलिङ्गस्योपरि अहल्येश्वरमूर्तिः अस्ति ।

सोमनाथ-मन्दिरस्य प्राङ्गणे गणेशस्य अपि एकं मन्दिरम् निर्मापितमस्ति । अपरं च उत्तरद्वारस्य बहिः अघोरलिङ्गस्य मूर्तिः अपि स्थापिता अस्ति । प्रभास-तीर्थे अहल्याबाई-मन्दिरस्य समीपे एव महाकाली-मन्दिरम् अपि अस्ति ।

गणेशस्य, भद्रकाल्याः, विष्णोः च मन्दिरं नगरे स्थितमस्ति । नगरस्य द्वारस्य समीपे गौरीकुण्ड-नामकः सरोवरः वर्तते । तस्य सरोवरस्य समीपे एकं प्राचीनं शिवलिङ्गम् अपि वर्तते[४]

मार्गाः[सम्पादयतु]

धूमशकटमार्गः[सम्पादयतु]

भारतस्य गुजरातराज्यस्य च अन्यभागतः सोमनाथरेलस्थानं सरलतया प्राप्तुं शक्यते ।

भूमार्गः[सम्पादयतु]

सोमनाथः अहमदाबाद्तः ४०८ कि.मी., जुनागढतः ७९ कि.मी., चोरवाळातः २५ कि.मी. दूरे अस्ति । एतेभ्यः स्थलेभ्यः सोमनाथं प्राप्तुं यानानि मिलन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

शिव

कृष्ण

सौराष्ट्र

सरदार पटेल

परशुराम

बाह्यानुबन्धः[सम्पादयतु]

http://www.somnath.org/

http://www.gujaratindia.com/about-gujarat/somnath.htm

http://www.gujarattourism.com/showpage.aspx?contentid=217&webpartid=903

http://www.mapsofindia.com/gujarat/temples/somnath-temple.html

उद्धरणम्[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=सोमनाथः&oldid=444805" इत्यस्माद् पुनः प्राप्तिः