सोमवासरव्रतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रवेशः[सम्पादयतु]

धार्मिकस्य प्रत्येकं दिवसः अपि विशिष्टः एव । भारतीये सम्प्रदाये साधकानां प्रतिदिनम् अपि कस्याचित् देवतायाः आराधनस्य विशेषः भवति । सोमवासरः चन्द्रस्य नाम्नि अस्ति । अयं वासरः उपवारससप्ताहस्य प्रथमं दिनं भवति । सोमः इत्यस्य शिवः इत्यपि अर्थः शिवस्य आराधनार्थमपि सोमवासरोपवासस्य व्रतम् आचरन्ति ।

आचारणविधिः[सम्पादयतु]

१६सोमवासराः व्रतनिष्ठाः भवन्ति । प्रदोषकाले शिवस्य पूजां कुर्वन् अर्धकिलोमितस्य गोधूमपिष्टेन सह घृतं गुडं योजयित्वा पाकं कृत्वा नैवेद्यं कुर्वन्ति । प्रसादस्य द्विपादभागं ग्रहणं कृत्वा सात्विकेभ्यः वितरं कुर्वन्ति । अन्तिमे दिने साङ्गं व्रतस्य उद्यापनं कृत्वा सात्त्विकजनान् आहूय प्रसादद्रव्यवस्तूनि दानं कुर्वन्ति ।

व्रतकथा[सम्पादयतु]

कदाचित् भगवान् शिवः मर्त्यलोके विवाहस्य इच्छया पार्वत्या सह आगच्छति । विदर्भदेशस्य सर्वसुखसम्पन्नाम् अमरावती इति पुरीम् आगतः । अस्यां नगर्यां राजनिर्मितः कश्चित् सुन्दरः शिवालयः आसीत् । तत्र शिवः पत्न्या सह अवसत् । कदाचित् पार्वत्याः शिवेन सह चतुरङ्गं खेलितुम् इच्छा अभवत् । तदा मन्दिरस्य अर्चकः प्रविष्टवान् । पार्वती तम् आपृच्छत् स्पर्धायां कस्य विजयः भविष्यति इति । तदाः अर्चकः शिवस्य एव विजयः भविष्यति इति उक्तवान् । किन्तु चतुरङ्गखेलने पार्वत्याः विजयः अभवत् । अर्चकः असत्यम् उक्तवान् इति पर्वती तं श्वित्री भवतु इति शप्तवती । कतिपयदिनानन्तरं देवलोकस्य अप्सराः एतत् शिवमन्दिरम् आगच्छन् । कुष्ठरोगिनं तं दृष्ट्वा ताः कारणम् अपृच्छन् । अर्चकः निस्सङ्कोचं सर्वं न्यवेदयत् । अप्सराः तं षोडशसोमवासरस्य व्रतम् आचरितुम् उक्त्वा तत् उपादिशन् । तस्य उपर्युक्तविधिं च उक्त्वा ताः तत्रैव स्थित्वा व्रतमकारयन् । शिवस्य कृपया अर्चकः रोगमुक्तः अभवत् । कदाचित् तत्र पुनरागता पर्वती रोगमोक्षस्य कारणम् अपृच्छत् । तदा सः अर्चकविप्रः सर्वं वृत्तान्तं न्यवेदयत् । सन्तुष्टा पर्वती स्वयं तत् व्रतम् आचरितवती । तस्य मनोरथः अपि आपूरितः । व्रतफलरूपेण गर्विष्ठः तस्याः पुत्रः कार्तिकेयः तस्याः विधेयः अभवत् । तदा कार्तिकेयः (सुब्रह्मण्यः) तस्य मनःपरिवर्तनस्य कारणं पृष्टवान् । पार्वती व्रतमहिमाम् अवदत् । तेन आकृष्टः कार्तिकेयः स्वयं तत् व्रतं समाचरत् । तस्य मनस्सङ्कल्पः अपि सिद्धः । तस्य अनेकानि मित्राणि अर्चकविप्रं पृष्ट्वा तत् व्रतम् समाचरन् । एवं पृथिव्याम् अस्य व्रतस्य प्रसारः अभवत् ।

"https://sa.wikipedia.org/w/index.php?title=सोमवासरव्रतम्&oldid=373214" इत्यस्माद् प्रतिप्राप्तम्