स्रग्विणीछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्रग्विणी।

प्रतिचरणम् अक्षरसङ्ख्या १२

रैश्चतुर्भिर्युता स्रग्विणी संमता। केदारभट्टकृत- वृत्तरत्नाकर:३. ५६

ऽ।ऽ ऽ।ऽ ऽ।ऽ ऽ।ऽ

र र र र।

यति: पादान्ते।


लक्षणम्[सम्पादयतु]

कीर्तितैषा चतूरेफिका स्रग्विणी

यस्मिन् वृत्ते द्वादशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे

चत्वारः रगणाः भवन्ति सा एव स्रग्विणी कीर्तिता वर्तते ।

उदाहरणम्[सम्पादयतु]

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्।
श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ।।

(धर्मलोपो यदाधर्मसम्पोषणं,जायते संसृजामि स्वयं भारत। सज्जनान् रक्षितुं दुर्जनान् मर्दितुं, धर्मसंस्थापनार्थं पुनर्भूतले॥)

अर्थस्तु स्पष्टः एव।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=स्रग्विणीछन्दः&oldid=409018" इत्यस्माद् प्रतिप्राप्तम्