स्वामी रामदासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


[[Category:]]

स्वामी रामदासः (हिन्दी: स्वामी रामदासः, आङ्ग्ल: swami ramdas ) इति नामकः एकः षड्विंशतिवर्षस्य तरुणः संन्यासी चाफल-ग्रामे प्राविशत् । सतारा-मण्डलस्य माँड-नद्याः तीरे अयं ग्रामः स्थितः अस्ति । संन्यासी गृहस्य द्वारि स्थित्वा उच्चैः एकं श्लोकम् उदीरयति । जय जय रघुनाथ समर्थ इति सः पुनः पुनः वदति स्म । शरीरे काषायं वस्त्रं, स्कन्धे भिक्षाप्रसेवकः, हस्ते कमण्डलुः, द्वीतीये च यष्टिः, पादयोः काष्टपादुके, मुखं तेजस्वी, वाणी च अवर्जिका तेजस्वी च । ग्रामात् बहिः वटवृक्षः आसीत् तत्र संन्यासी वसतिः । एकदा सह ध्यानस्थः आसीत् । यदा तेन चक्षुषी उन्मिलिते, तदा सम्मुखे भगवतः रामस्य धनुधारिणीं मूर्तिं दृष्टवान् । अतः परम् अपि सः ध्यानमग्नः अभवत् । अनन्तरं पुनः चक्षुषी उन्मिलिते तदापि तां मूर्तिम् अपश्यत् । इत्थं तृतीयवारमपि अभवत् अतः सः प्रभो ! कास्ति तवेच्छा इति अपृच्छत् । रामः अवदत् अहमत्र निवस्तुम् इच्छामि इति । तदनन्तरं सः रामस्य मन्दिरं निर्माप्य अहं रास्य दासः अस्मि इति अवदत् । ततः तस्य नाम रामदास इति अभवत् ।

अन्तर्विषयाः

जन्म परिवारश्च[सम्पादयतु]

१६०८ तमस्य वर्षस्य चैत्र-मासस्य शुक्ल-पक्षस्य नवम्यां तिथौ महाराष्ट्रराज्यस्य बीड-मण्डले जाँब-ग्राम ठोसरा इति उपाधिके परमेश्वरभक्तस्य परिवारे तस्य जन्म अभवत् । तस्य मूलनाम नारायणः आसीत् । तस्य पितुः नाम सूर्याजी पन्तः, मातुः नाम राणुबाई इति च आसीत् । तस्य एकः ज्येष्ठः आसीत् यस्य नाम गङ्गाधरः आसीत् । पितरौ भगवन्तं सूर्यं श्री रामं च अर्चतः । अतः भगवतः रामस्य तिथौ एव नारायणस्य जन्म अभवत् । जातकस्य विषये ज्योतिर्वदा उक्तं यत् – असौ चतुर्दिक्षु रामध्वजं प्रसारयिष्यति, महान् कवि भविष्यति, राष्ट्रे नवं चैतन्यं जागरयिष्यति, स्वकुलस्य नाम प्रसारयिष्यति, इति ।

बाल्यम्[सम्पादयतु]

अयं नारायणः क्रमेण अवर्धत । सः गृहाङ्गने नृत्यं, कुर्दनं च कुर्वाणः जनकौ नन्दयति स्म । सः उत्छृङ्खलः आसीत् कदाचित् पिष्टपात्रम् अधोमुखं धत्ते, कदाचित् जलपूर्णां गर्गरिकां जलेन रेचयति, कदाचित् चुल्लीं निर्वापयति,कदाचित् वत्सं मोचयति । इत्थं तस्य चापलं प्रतिदिनं वर्धमानम् आसीत् । पितृभ्यां तं पैठन-ग्रामे तस्य मातामहस्य गृहे प्रेषयावः इति निर्णयः कृतः । तत्र एकनाथ स्वामिनः भक्तिपीठम् आसीत् । एकनाथस्वामी तस्य मातामहस्य सुहृद् आसीत् । एकनाथस्वामिनः पीठस्य उत्तराधिकारी एनं शान्तं करिष्यति इति तौ अविचारयताम् । सोऽपि बालकं दृष्ट्वा विस्मितो जातः । सः अस्य मुखं परितः प्रभामण्डलम् अस्ति । भवन्तौ भाग्यवन्तौ स्तः इति तत् पितरौ अकथयत् । पितरौ बालकस्य चेष्टाः प्रकाशयत । ताः श्रुत्वा पीठासीनः महात्मा अहसत् । एतद् न किञ्चित् अग्रे असौ तादृशं चेष्टिष्यते यत्र अदभूताः चमत्काराः भविष्यन्ति । भवतोः गृहे साक्षात् भगवान् हनूमान् एव आगतः। तदनन्तरं पीठाधिपः बालकं नारायणं मस्तके अस्पृशत् । आशीर्वादान् च दत्त्वा भागवत प्रासादं प्राशयत् च

शिक्षणम्[सम्पादयतु]

सूर्याजीपन्तः ,तत्पत्नी राणुबाई पुत्राभ्यां सह जाँब-ग्रामं प्रत्यागतः । तदनन्तरं नारायणस्य षड्वर्षीये सति सूर्याजीपन्तः तस्य यज्ञोपवितम् अकारयत् । तं सूर्याजीपन्तः स्वयं शिक्षयति स्म । नारायणस्य धारणाशक्तिः तीव्रा आसीत् । सः एकनारं श्रुत्वा विषयं कण्ठस्थं करोति स्म । अल्पेनेव कालेन सः रूपावलीं ,समासचक्रम्, अमरकोशं च कण्ठस्थम् अकरोत् । सम्पूर्णेन दिनेन साध्यं पाठं सः स्वल्पेनेव कालेन पूरयति स्म । नारायमस्य मनसि अनेका प्रश्नाः भवन्ति स्म यथा- जलं कथं वर्षति, वृक्षादीनाम् उत्पत्तिः कथं भवति । इत्येताः प्रश्नाः सः पितरं पृच्छति स्म । पितापि तं शास्त्रदत्तानि उत्तराणि श्रावयति । हृष्टचेताः स्वगतत्वेन कथयति अहो ! मम पुत्रः कियत् बुद्धिमान् । अस्मै शास्त्राणि, विद्याः, कलाश्च साङ्गोपाङ्गं पाठयिष्यामि इति । एवं विधाः नैकाः योजनाः तेन मनसि स्थिरीकृताः । किन्तु मनुष्यः किञ्चित् अन्यत् चिन्तयति दैवम् अन्यथा प्रवर्तते । सूर्याजीपन्तः सहसा एव मृतः । संम्पूर्णे परिवारे सङ्कटम् आपतितम् ।

पितुः मरणान्ते नारायणस्य चापल्यम्[सम्पादयतु]

पितरि मृते सति नारायणः स्वच्छन्दः जातः । सः अधिकं खेलति स्वल्पं च अधीते स्म । क्वचित् तरुमूषिकावत् द्रुमान् आरोहति स्म । वानरवत् शाखातः शाखान्तरे कुर्दति स्म । नैका होरा नद्यां प्लवते स्म । धावन् एव शैल शिखराणि आरोहति स्म । लघवः शिशवः रात्रौ अन्धकारे बहिर्गमनात् बिभ्यति । किन्तु नारायणः सर्वथा भयस्य अनभिज्ञः आसीत् । सः स्वयम् अन्यान् भाययति स्म ।

(१) एकदा रात्रौ अन्धकारे सः एकं वृक्षम् आरूढवान् । एकः प्रतिवेशी आत्मानं वीरतायै प्रशंसति स्म । संयोगवशात् सः तस्यैव वृक्षस्य तलात् निर्गतः । नारायणः हू हू इति अवदत् । तत् श्रुत्वा प्रतीवेशी भूतः भूतः इति उच्चैः अवदत् ततः पलायनं च अकरोत् । पुनः रक्षत रक्षत इति च अभाषत । श्रुत्वा अन्ये प्रतिवेशी जनाः एकत्रिताः अभूवन्, दीपान् च आनीतवन्तः । कश्चित् अवदत् अवश्यमेव कोऽपि अस्ति । तदा एव केनचित् ऊर्ध्वं दृष्ट्वा प्रोक्तम् अरे अयं तु नारायणः अस्ति इति । नारायण हसन् नीच्चैः अवारोहत् । प्रतिवेशी अपृच्छत् भवीन् अत्र आगत्य किमर्थं स्थितः । नारायणः अवदत् भूतम् अन्वेष्टुम् इति ।

(२) एकः गोपालः ग्रामबालान् क्लेशयति स्म ।तस्य गोष्ठे अनेकाः महिष्यः गावश्च आसन् । तथापि सः गृहस्य बालकेभ्योऽपि दुग्धं न ददाति स्म । नारायणस्य मित्राणि दुग्धनवनीते च याचन्ते सः मारयितुं धावति । अतः एषः शिक्षणीयः इति नारायणेन सङ्कल्पितम् । एकदा गोपालस्य अनुपस्थितौ तस्य गोष्ठं परितः इष्टिकाः, प्रस्तराः,सिकता, मृत्तिका च एकीकृत्य गोपालस्य महिषीः, गाश्च गोष्ठस्य उपरि प्रापयन् नाशितवन्तः । सायङ्काले गोपालः गृहमागतः । तत् चित्रं दृष्ट्वा सः आश्चर्यं गतः । इदं कथं संभवम् इति च अचिन्तयत् । प्रतिवेशीजनाः आगत्य हसन्ति । अन्ते इदं नारायणस्य कार्यम् इति सः अजानात् । अतः सः राणूदेवीसमीपं गतः तत्र तेन नारायणः दृष्टः । सः मम पशून् अवतारय इति नारायणं प्रार्थितवान् । नारायणः यदि त्वं बालकेभ्यः प्रतिदिनं दुग्धदधिमाकन्दं दास्यसी तर्हि तव इमा गावः महिष्यश्च भूमौ अवतरिष्यन्ति । गोपालः नारायण स्वामिनः आदेशं स्वीकृतवान् । तदनन्तरं बालकाः इष्टकादि सामग्र्यः एकीकृतवन्तः अतः सर्वे पशवः अधस्तात् आयाताः ।

मातुः उपदेशः परिवर्तनं च[सम्पादयतु]

नारायणः प्रतिदिनम् उपद्रवति । सः अधिकं समयं बहिरेव व्यत्येति । अतः माता राणूदेवी तस्य आयत्यै चिन्ताग्रस्ता आसीत् । एकदा पार्श्वे उपवेश्य सा नारायणम् उपदिशति – वत्स इदानीं त्वं बालः न असि, किशोरतां प्रप्तः असि । सम्प्रति त्वया अवधार्य वर्तितव्यम् । त्वया अध्ययनम् ,कृषिकर्म, गृहकार्याणि, इत्येतेषु कार्येषु स्वकीयस्य अग्रजस्य साहाय्यं करणीयम् । नारायणः अवदत् मातः ! भवत्या वचने अवश्यमेव ध्यानं दास्यामि इति । तस्मिन् एव दिने सः गृहस्य कोणे स्थित्वा चिन्तनं कुरुते । नारायणस्य मित्राणि बहिरेकत्रितानि खेलन्ति, किन्तु तेषु नारायणः न दृश्यते । तदनन्तरं माता गृहं गतवति । तत्र नारायणं कोणे स्थितं दृष्ट्वा तम् अपृच्छत् – बहिः मित्राणि एकत्रितानि तैः सह खेलितुं नेच्छसि । नारायणः अवदत् –अम्ब ! अहं चिन्तां करोमि खेलितुं नेच्छामि इति ।

कथाश्रवणं चापल्यस्य त्यागः[सम्पादयतु]

तदनन्तरं सः मात्रा सह पुराणं श्रोतुं गच्छति स्म । तन्मयः भूत्वा शृणोति च । सः अनेकानां साधूनां, सत्पुरुषाणां, महात्मनां च कथाः शुश्रुवान् । सः औत्तानपादेः ध्रुवस्य च कथाम् अशृणोत् सा तस्मै अरोचत । अतः सः मातरम् उक्तवान् अहमपि वनं गत्वा तपः करोमि इति । माता अवदत्- तपश्चरणं दुष्करं भवति तदर्थं साहसम् आवश्यकम् इति । इदं श्रुत्वा पश्य मम साहसम् इति उक्त्वा कूपे अकूर्दत । तस्य माता रक्षत रक्षत मम नारायणः कूपे कूर्दितः इति उच्चैः अवदत् । पार्श्वस्थैः कूपे दृढा रज्जू पातिता । नारायणः रज्ज्वा कूपगर्भात् बहिः आगतः । माता तं क्वचिदपि घातस्तु न जातः, अपि नास्ति क्वचित् व्रणितः इति अपृच्छत् । सः अवदत्- कपाले किञ्चत् आहतोऽस्मि । माता विलिप्य पट्टिकाम् अबध्नात् । मातुः चक्षुषोः अश्रूणि दृष्ट्वा नारायणः अवदत्- मातः मा रोदीः तवाक्ष्णोः अश्रु पश्यतो ममापि रोदनं जायते । इदानीं मया चापलं त्यक्तं निश्चन्ता भव इति ।

ईश्वरप्राप्तये गुरोः अन्वेषणम्[सम्पादयतु]

नारायणः इमं श्लोकं श्रुतवान् – गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ।। तदनन्तरं गुरुं विना को नु पथः प्रदर्शकः इति विचिन्त्य ईश्वरे प्राप्तव्ये गुरुः आवश्यकः इति सः ज्ञातवान् । अग्रजः गुणवान् निवृत्तिनाथः ज्ञानेश्वरस्य गुरुः आसीत् । मम अग्रजः अपि गुणी अस्ति । अतः श्रेष्ठ इति नाम्ना विख्यातः । एकदा नारायणः स्वस्य अग्रजस्य पादौ धृत्वा प्रार्थयत् - मह्यं मन्त्रदीक्षा दीयताम्, उपदेशः क्रियताम्, भवान् एव मे गुरुर्भूयात् । मह्यं साधनामार्गम् उपदिश्यताम् इति । तेन उक्तं साधनामार्गे अहम् अपि अपटुः, कालान्तरे यदा पाटवं सेत्स्यति, तदा द्रक्ष्याम इति । अनन्तरं नारायणः गृहात् पलायनम् अकरोत् । तस्य पलायनस्य तृतीये दिवसे एकः मेषपालः वने यत् मारुति मन्दिरम् अस्ति तत्र मया ध्यानमग्नः तूष्णीं स्थितः नारायणः दृष्टः । अग्रजः गङ्गाधरः तत् क्षणं मारुतिमन्दिरम् अगच्छत् । तत्र गङ्गाधरः ध्यानमग्नं नारायणम् अपश्यत् । सः बाह्याडम्बरैः परः आसीत् । महता प्रयासेन तस्य मनः सामान्यम् अभवत् । अक्षिणी उन्मिल्य सः पुरस्तात् गङ्गाधरम् अपश्यत् । तस्मै प्रणम्य नारायणः अवदत् भवता अहं न उपदिष्टः किन्तु दत्तदर्शनेन भगनता हनुमता राम नाम जप इति उपदिष्टः । इदानीं स्वकीयं जीवनं रामभक्तये समर्पयामि इति च सः अवदत् । अग्रजः गङ्गाधरः अवदत् अयं हर्षस्य विषयः यादृशी प्रभोः इच्छा इति । तदनन्तरम् उभौ गृहं गतौ माता राणूदेवी नारायणं वक्षसि असञ्जयत् च ।

विवाहस्य चर्चा[सम्पादयतु]

माता राणूदेवी अयं हिमगिरिं प्रस्थितः मा भूत् , त्यक्तसंसारो विरक्तः साधुः मा भूत् इति शङ्कते स्म । तया कृतविवाहाः अनेके युवानः कल्पनालोकात् वास्तवे विश्वस्मिन् अवतरन्तः,वायुना उड्डीना भूमण्डलं स्पृशन्तः, ईशभक्तिं परित्यज्य लवण-तैल-काष्ट-मूल्यानि पृच्छन्तः दृष्टाः । अतः तया नारायणस्य विवाहः कर्तव्यः इति विचारितम् । यदा विवाहचर्चा बलवती जाता, तदा नारायणस्य मित्रमण्डली आयाता पृष्टवती नारायणः कुत्र अस्ति इति । माता नास्ति गृहे इति अवदत् । मित्राणि तम् अन्वष्यन्ति । एकेन मित्रेण वृक्षारूढः नारायणः दृष्टः । अन्ते अग्रजः गङ्गाधरः आगतः सः अवदत् त्वं कीदृशः पुत्रः माता रोदनं कुर्वती अस्ति नीच्चैः एहि तव इच्छायाः विरोधे कोऽपि तव विवाहं न कारयिष्यन्ति इति । नारायणः अवतरितः अग्रजेन सह गृहं गतः । कतिचित् दिनानि विवाहचर्चा शान्ता जाता सर्वे मौनिनः अतिष्ठन् ।

मातुः याचना[सम्पादयतु]

एकदा माता राणूदेवी नारायणं पार्श्वे उपवेश्य मधुरेण स्वरेण अवदत् नारायण मम एकां याचनां मन्यसे । नारायणः उच्यताम् । माता अवदत् अहं त्वां विवाहचतुष्के स्थितम् दृष्टुम् इच्छामि । पुरोहितेन सावधान इति पदम् एकवारम् उच्चारितं श्रुत्वा एव मम श्रवसी तर्पिष्यतः । नारायणः अवदत् एतावद् अहं करिष्यामि, पुरोहितेन उच्चारितं सावधानशब्दं यावत् विवाहचतुष्के स्थास्यामि । माता विचारितवती युवका आदौ विवाहं न करिष्यामि इत्येव वदन्ति, जातविवाहाः पुनः सर्वम् ऊरी कुर्वन्ति इति । नारायणः अपि तथैव अनुकूलः भविष्यति इति ।

विवाहमण्डपात् पलायनम्[सम्पादयतु]

याचनायाः अन्तरम् आसन् ग्रामस्य कन्यया सह तस्य विवाहः निश्चितः । तिथिर्विवाहघटिके च निश्चिते । वरं पुरस्कृत्य वरयात्रिणः आसन-ग्रामं प्राप्ताः । नारायणस्य पुरस्तात् अन्तरपटं च आस्तृतः । इदानीं पुरोहितः उच्चैः सावधान इति अवदत् । नारायणः अपृच्छत् कं भवान् सावधान कथयन्ति । पुरोहितः अवदत् – भवन्तं प्रति सावधानो भव, वधूरागच्छति तस्याः, सन्तानानां, जीविकायाः व्यवसायस्य च भारः त्वया एव सोढव्यः इति । इत्थं श्रुत्वा नारायणस्य मनसि किमहं द्रव्यं, जीविका, गार्हस्थ्यकं पालयितुम् उत्पन्नः अस्मि । मम ध्येयस्तु परमेश्वरस्य प्राप्तिः । अहं ध्रुव इव तपश्चरितुम् उत्पन्नः । भगवता हनुमता रामभक्तिं कर्तुम् आदिष्टः । अहं मातरं प्रति सावधानशब्दं यावत् विवाहचतुष्के स्थास्यामि इत्येव वचनं दत्तवान् । पुरोहितः सावधान इति अवदत्, मम वचनं पूर्णं जातम् । इदानीं गच्छामि । पुरोहितः अक्षिणी निमिल्य मङ्गलाष्टकं पठति स्म । एकं श्लोकम् उच्चार्य पुरोहितः पश्यति सहसा एव कथयति वरः कुत्र गतः इति । सर्वे स्तब्धाः अभूवन् । ईदृशं तु कुत्रापि नादृश्यत, नाघटत, नाश्रुयत इति सर्वत्र आश्चर्यम् आसीत् ।

नारायणस्य भगवतः दर्शनम्[सम्पादयतु]

नारायणः विवाहमण्डपात् पलायितः गहनम् अरण्यम् अविशत् । तस्य नासिकं प्राप्तुं सङ्कल्पः आसीत् । तत्र गोदावर्याः तीरे भगवान् रामचन्द्रः सौमित्रिणा सीतया सह अवशत् । पञ्चवटी अपि तत्रैव आसीत् । भगवता रामेण तत्र निवासं कृत्वा सहस्राधिकाः राक्षसाः हताः । नारायणः बहूनि कष्टानि सोढ्वा नासिकं प्राप्नोत् । तत्र रामकुण्डे स्नानं कृत्वा सः मन्दरे गत्वा प्रभोः सम्मुखे साष्टाङ्गं प्रणामम् अकरोत् । ततः अञ्जलिबद्धो ध्यानस्थः सन् उपाविशत् । नारायणः प्रेमपूर्णां कारुण्यपूर्णां मूर्तिं दृष्ट्वा धन्यताम् अन्वभवत् । सः रामं प्रार्थयत् हे प्रभो ! तव शरणं प्रपन्नोऽस्मि तारयतु वा मारयतु इति उक्त्वा रामचरणौ पाणिभ्याम् अगृह्णात् । रामः तस्मै दर्शनं ददौ । तस्य मस्तके हस्तः धृतः, तपश्चरितुं च आदिदेश । किन्तु तत् दिव्यं भव्यं च दर्शनं सोढुं नारायणः समर्थः नाभवत् । सः मूर्छितः अभवत् । निकटस्थैः जनैः तस्य मुखे शीतलं जलं क्षिप्तम् । अतः सः प्रबुद्धः अभवत् सः कुत्र अन्ति ? इति च अपृच्छत् । जनसम्मर्दात् कश्चित् तम् अपृच्छत् ते के इति । नारायणः अवदत् यस्य जटाजूटम् अस्ति, यस्य मुखं सदैव प्रसन्नं दृश्यते, यस्य स्कन्धे धनुर्बाणौ विराजेते, यः मेघवत् श्यामः, यस्य नेत्रे च कमलसमाने, यः स्मितेन एव संम्पूर्णं विश्वं वशे करोति सः कुत्र अस्ति ? । सा विशाला मूर्तिः क्व अस्ति ? । ततः परं एकः सज्जनः श्रान्तं क्लान्तं च बालं स्वं गृहम् अनयत् । स तं स्नानम् अकारयत्, भोजनं औषधं च दत्त्वा शयनम् अकारयत् । अपरे दिने नारायणः मन्दिरस्य सर्वाणि कार्याणि स्वयम् अकरोत् ।

नारायणस्य तपः[सम्पादयतु]

तत्र कतिपय दिनानि यापयित्वा तद् स्थलं ध्यानयोग्यं नास्ति इति सः अजानात् । एतः एकसमिन् प्रभाते स नासिकात् कोशद्वये गोदावरिनन्दिन्योः सङ्गमे स्थतं टाकली-ग्रामं प्रापत् । १६२० तमस्य वर्षस्य माघशुक्लसप्तम्यां गायत्रीपुरश्चरणम् आरभत । ब्राह्मे मुहूर्ते प्रातः स्नानं सन्ध्यादिकं च समाप्य सः प्रतिदिनम् अष्टाधिकसहस्रं सूर्यनमस्कारान् करोति स्म । तदनन्तरं गोदावरिजले स्थित्वा गायत्रीं, श्री राम जय राम जय जय इति च जपति स्म । मध्याह्नसन्ध्यां समाप्य सः ग्रामे गत्वा केवलान् पञ्चैव गृहान् भीक्षां याचते । भीक्षायाः अप्राप्तौ वा अल्पप्राप्तौ षष्ठं गृहं न गच्छति स्म । भीक्षां प्राप्य सः नदीं गच्छति स्म । भीक्षायाः अन्नस्य भागत्रयं करोति स्म । एकं भागं मत्स्येषु क्षिपति, द्वतीयः भागः गोमात्रे ददाति । तृतीयं भागं प्रसेवके स्थापयित्वा नदीजले वारत्रयं ब्रूडयति । येन भीक्षान्नस्य अम्लत्वं, कटुत्वं च दूरं भवति । अतः देहधारणम् उद्दीश्य एव नारायणः भोजनं करोति । देहधारणम् अपि परमेश्वरभक्तये सुखाय न । तत परम् अयं नासिकं प्रापत् । तत्र स्थित्वा विद्वत्चरणेषु शास्त्राणि अधीते । सायङ्काले देवदर्शनं च लभते । रात्रौ कथाकीर्तनं प्रवचनानि श्रुत्वा स्वीयं गह्वरं प्रविशति स्म । मननं चिन्तनं च कुर्वाणः निद्राति । सः स्वं रामदास इति कथयन्ति ।

मोगलसाम्राज्यं, रामदासस्य सङ्कल्पः च[सम्पादयतु]

नासिके त्रीणि वर्षाणि व्यतीतीनि । अनन्तरं रामदासस्य निवासस्थाने रात्रौ अपि जनाः तिष्ठन्ति स्म । सर्वे मिलित्वा राम जपं कुर्वन्ति स्म । प्रेम्णा भजनानि गायन्ति स्म । रामदासः तेषु प्रेरकेण प्रकारेण प्रवचनानि ददाति । भारतम् अतीव दीनाम् अवस्थाम् अनुभवति स्म । उत्तरस्यां मिगलाः शासकाः आसन्, दक्षिणस्यां पुनः यवनाः एव शासकाः आसन् । ते अत्याचारिणः प्रजाजनान् पीडयन्ति स्म । ते इस्लामभिन्नान् धर्मसम्प्रदायान् हीनान् नीन्द्यान् विनाशनीयाँश्च मन्वते । तेषां मते कुराणात् भिन्नः कोऽपि ग्रन्थः आदरणीयः नास्ति । ते स्वभिन्नान् जनान् काफिर इति भाषन्ते । परेषां धर्मपरिवर्तने एव तेषां पुण्यम् आसीत्, तत् अस्वीकारे वधश्च कुर्वन्ति स्म । काफिरवधः तेषाम् अश्वमेधः । इदमेव तेषां प्रभोः आदेशः इति तेषां संस्कारः । इमाः घटनाः रामदासस्य श्रवसी स्पृशन्ति । आत्मनि व्यथितः रामदासः इयम् अस्माकं देवभूमिः कथं दानवानाम् अत्याचारेषु पतिता, कथं वयम् एतेषाम् अत्याचारान् सहामहे । अङ्गुलिगण्याः इमे असंस्कृताः विदेशीयाः कथं शासति । मार्कण्डेयस्य नचिकेतसः भूमौ जनाः भीरवः अभूवन् । कथं देशे प्रविष्टान् चौरान् चरणेषु स्पृशामः । अस्माकं ध्येयं पशुवत् उदरपूर्तिः एवास्ति । इत्येतत् सर्वं जनान् उपदिश्य समाजं कर्तव्योन्मुखं कर्तुं रामदासः प्रयतते । सः आत्मविस्मृतं राष्ट्रम् अहं जागृकं करिष्यामि इति सङ्कल्पितवान् ।

प्रथमः शिष्यः उद्धवः[सम्पादयतु]

सः प्रभू रामस्य आज्ञया टाकली-ग्रामस्थितम् आश्रमम् आगतवान् । तत्र उद्धवः रामदासचरणयोः पतितः । अयं रामदासेन कथं प्राप्तः इति आश्चर्यकारी अस्ति । एकदा रामदासः टाकली-ग्रामस्य निकटे दसपञ्चक नामकं ग्रामं गतः । तत्र अन्नपूर्णा नामा नारी गिरिधरनामकेन पतिना सह वसति स्म । तयोः गृहे सन्ततिः नासीत् । तौ रामदासस्य कथाः प्रवचनानि च नियमेन शृणुतः । एकदा गिरिधरः रुग्णः जातः । वैद्यः असाध्योयं रोगः इति अवदत् । अतः पत्नी अन्नपूर्णा रामदासस्य समीपं गता, रामदासः ध्यानस्थः आसीत् । तेन अष्टपुत्रा सौभाग्यवती भव इति उक्तम् । अन्नपूर्णा अरुदत्, वृत्तान्तम् अश्रावयत् च । रामदासः गिरिधरावासं गत्वा गिरिधरामुखे जलं प्रौक्षत् । गिरिधरः स्वस्थः अभवत् । ततः वर्षान्ते ताभ्याम् एकः पुत्रः प्राप्तः । बालकस्य द्वीमासीये सति तं रामदासचरणयोः स्थापयित्वा अयं भवद्भ्यो अर्प्यत इति अवदत् । रामदासः अवदत् अहं संन्यासी अस्मि अस्य पालनं कर्तुं न शक्नोमि । यदा अयं वयस्कः स्यात्, तदा मह्यं समर्पणीयः । सः एव उद्धवः आसीत् । एषः उद्धवः प्रायेण रामदासस्य आश्रमे एव निवासं करोति स्म, श्रद्धया स्वामिनः सेवाम् अपि करोति स्म । सः रुदन् मां त्यक्त्वा कुत्र गच्छति स्वामी इति अकथयत् ।

रामदासस्य उद्धवं प्रति कथनम्[सम्पादयतु]

रामदासः अवदत् मम अनुपस्थितौ आश्रमः त्वया एव रक्षणीयः, अध्ययनं करणीयम्, अवधानेन भगवतः पूजा करणीया । आश्रमस्य व्यवस्थाऽपि दृष्टव्या । वास्तवो रामादासः तव पार्श्वे सदैव स्थास्यति इति च अवदत् । उद्धवः अपृच्छत् वास्तवो रामदासः इति कोऽर्थः ? रामदासः मृत्तिकादिभिः विशालां मारुतिमूर्तिं विनिर्माय सिन्धुरेण लेपित्वा अयमस्ति वास्तवो रामदासः इति अवदत् । ततः परं रामदासः उद्धवाय आशिषं दत्त्वा निर्गतः अयोध्यां प्रति प्रस्थितः ।

भारतभ्रमणम्[सम्पादयतु]

रामदासः भारतस्य भ्रमणस्य माध्यमेन तीर्थयात्रां कर्तुम् ऐच्छत् । भारतस्य प्रत्येकं क्षेत्रं पुण्यभूमिः । अस्य प्रत्येकं नगरे, प्रत्येकं ग्रामे ऋषयः मुनयः च निवसन्ति स्म । तेषु तेषु क्षेत्रेषु ईशावताराः अपि अभूवन् । भारते द्वारका, जगन्नाथपुरी, बदरीकाश्रमः,रामेश्वरश्च स्थलविशेषाः सन्ति । द्विपञ्चाशत् शक्तिपीठानी सन्ति । भगवतः शङ्करस्य शताधिकानि पुण्यस्थलानि सन्ति । दत्तात्रेयः, गोरक्षनाथः, बुद्धः, महावीरः अपि अस्यां भूमौ अभूवन् । अतः सर्वेषां दर्शनाय रामदासः सङ्कल्पम् अकरोत् । नर्मदा याः लङ्घनं कृत्वा सः उत्तरस्यां दिशि गन्तुं प्रवृत्तः । मार्गे तेन दुःखदाः प्रसङ्गाः दृष्टाः श्रुताः च । क्वचित् ग्रामाः प्रज्वाल्यन्ते, क्वचित् खला अलुण्ठ्यन्त, कस्यचित् ग्रामस्य सर्वेऽपि निवासिनः वेतनेन विना कार्ये योज्यन्ते । सर्वत्र यवनानां शासनं दृश्यते । यः कोऽपि तेषाम् अवज्ञां करोति पश्यति सूर्ये तस्य शिरः छेदनं भवति । रामदासः यत्र कुत्रापि गच्छति जनाः तम् आत्मनि आपतितान् अत्याचारान् श्रावयन्ति । सः तान् प्रोत्साहयति किन्तु यदा एकाकी भवति, तदा पीडाम् अनुभवति । तस्य नेत्राभ्याम् अश्रूण्यपि पतन्ति दृश्यते । सर्वत्र अन्यायाः जायमानाः आसन् । तथापि जनाः विरोधाय सङघटनं कुर्वन्तः न दृश्यन्ते । सर्वेऽपि मेषा बर्करा इव नतग्रीवाः दृश्यन्ते । कुत्रापि शोर्यं वीर्यं च न दृश्यते । सर्वेऽपि क्षुद्रेभ्यः, स्वार्थेभ्यः, आत्मीयैः जनैः युद्धरताः दृश्यन्ते, शत्रुभिः न । रामदासः उत्तरस्यां दिशि यथा यथा अग्रे गच्छति, अधिकाधिकं यवनानाम् अत्याचारान् शृणोति । यदा सः पुनः अयोध्यां प्राप्तः, तदा तस्य बहुदुःखम् अभवत् । यवनैः रामस्य जन्मभूमिः अपि अधिगृहिता । सः तत्र अधिकं वस्तुं न शक्नोत् ।

रामदासस्य काशीगमनं[सम्पादयतु]

अयोध्यातः सः काशीं प्राप्तः । एकदा सः गङ्गायां स्नातुं गतः । तत्र आगता आगता पलायध्वं पलायध्वम् इति कोलाहलं श्रुतवान् । जनाः व्याकुलाः सन् यत्र तत्र धावन्ति स्म । विंशतिः यवनाः अश्वम् आरुह्य आगताः आसन् । रामदासः चिन्तयति अस्माकं देशे इयती भीरुता कुतः इति । अत्र आबालवृद्धाः सर्वेऽपि पलायनरताः एव । संपन्नाः जनाः यवनानां सेवकाः । पूजापाठपरायणाः, कपाले तिलकं धारयन्तः अपि गोभक्षकाणां मूर्तिध्वंसकानां यवनानां चरणेषु नमनं कुर्वन्ति । यवनानाम् आज्ञया स्वेषां बान्धवानां ग्रीवाः कर्तयन्ति । भारते एषा भ्रष्टा मतिः कथम् आगता । काशीदृश्यं भयानकम् आसीत् । मन्दिरस्य कलापूर्णासु अवशिष्टासु भित्तिषु एकं विशालं मस्जिदं निर्मितवन्तः, अग्रतो मस्जिदं पृष्ठतश्च मन्दिरम् । एतत् सर्वं दृष्ट्वा रामदासः ततः निर्गतः ।

मथुरायां वृन्दावने च गमनम्[सम्पादयतु]

काशीतः निर्गच्छन् रामदासः मथुरायां वृन्दावने च गतः । तत्र श्रीकृष्णस्य वंशरवः नाश्रूयत आक्रन्दनम् एव अश्रूयत । अतः दुःखीतेन चित्तेन रामदासः यात्रां कुरुते स्म । तेन सर्वत्र भीरुता दृष्टा । अतः सः क्षुभितः सन् स्वं देहं गङ्गायां पातयामि इति निश्चयम् अकरोत् ।

हिमाचलं गतः[सम्पादयतु]

सः हिमाचलं गतः । तत्र प्रथमं गङ्गामातरं प्रणम्य गङ्गाप्रवाहे कूर्दितुम् ऐच्छत् । किन्तु पृष्ठतः केनापि तस्य हस्तः धृतः । सः पृष्टतः मुखं करोति, नीलोत्पलश्यामं भगवन्तं श्रीरामं च पश्यति । रामदासः तस्य चरणौ स्पृशति । रामः तम् आलिङ्य तस्य मस्तकोपरि हस्तं स्थापयित्वा तव कार्यम् इदानीम् अवशिष्टम् अस्ति इति असूचयत् । भारतस्य दूरवस्था त्वया एव समापनीया इति । दक्षिणस्यां दिशि कृष्णानद्याः तटात् जनजागरणस्य कार्यम् आरभत । इत्येतत् उक्त्वा रामः परोक्षः अभवत् । रामदासः भगवतः आदेशं मत्वा रामस्य जयकारेण च महाराष्ट्रं संम्पूर्णतया मुक्तं भविष्यति इति अवदत् ।

मुक्तादेव्याः स्मारकस्थले रामदासः[सम्पादयतु]

महाराष्ट्रं मुक्तं भविष्यति इति अवदत्, ततः द्वादशवर्षान्ते रामदासः महाराष्ट्रं प्राप्तः । तत्र तापी नद्याः तटे भगवत्या मुक्तादेव्याः स्मारकस्थले रामदासेन भजनपूजनोपदेशाः कृताः । तत्र श्रोतृषु एकः रामदासस्य ग्रामवासी आसीत् । तव माता वृद्धा अशक्ता च जाता, तथापि सा प्रतिक्षणं भवन्तं स्मरति इति सः अवदत् ।

मातृदर्शनम्[सम्पादयतु]

तत् श्रुत्वा रामदासः सप्ताहान्ते स्वग्रामं प्राप्तः । तत्र स्वगृहस्य द्वारि स्थित्वा सः जय जय रघुवीर समर्थ अति अभाषत । तस्य अग्रजस्य पत्नी भिक्षां गृहित्वा द्वारि प्राप्ता । तस्याः चरणरजः तिलकं कृत्वा रामदासः अवदत् –भ्रातृजाये ! अहं नारायणः तुभ्यं प्रणमामि, अम्बा कुत्र अस्ति । तस्य हृदयस्पृशं रवं राणूदेवी ज्ञातवती । सा मम नारायणः इति वदती द्वारि आगता । नारायणः मातुः चरणौ अगृह्णात् । राणूदेवी झटिति उदस्थापयत् । सा निरन्तरं प्रवहद्भिः आनन्दाश्रुभिः क्लिन्दा अभवत् । सा वारं-वारं रामदासस्य भालं स्पर्शति स्म । उक्तवती च पुत्र त्वं कियत् वृद्धः जातः । त्वं कञ्चित् ऋषि इव प्रतिभाषते । मया श्रुतं यत् त्वं सुन्दराणि भजनानि गायसि, कीर्तनान करोषि, प्रवतनानि करोति इति । अयं प्रसन्नतायाः विषयः त्वत् सदृशं भक्तं पुत्रं लब्ध्वा अहमपि धन्या कृतकृत्या च जाता । पुनः राणूदेवी अहं पञ्चवर्षेभ्यः अन्धा अस्मि अतः त्वां प्रत्यक्षं दृष्टुं न शक्नोमि इति अवदत् । रामदासः मातुः अक्ष्णोः उपरि हस्तम् अक्राम्यत । सा दृष्टिम् अलभत । चर्मचक्षुभ्यां स्वं पुत्रं दृष्ट्वा, तस्य अद्भुतं योगसामर्थ्यं च दृष्ट्वा सा धन्या अभवत् ।

मित्राणामुपरि प्रभावः मातुः प्रार्थना च[सम्पादयतु]

अतः रामदासः औषधविज्ञानेऽपि निष्णातः आसीत् इति विद्वांसः कथयन्ति । रामदासेन बलं लब्धुम् आत्मरक्षां च साधयितुं सर्वेऽपि शिक्षिताः । नारायणस्य तेजःपुञ्जं दृष्ट्वा बालमित्राणि तस्य शिष्याः अभूवन् । इत्थं नारायणः दिनत्रयं स्वग्रामे यापयित्वा सर्वान् बन्धून् मातरं च अपृच्छ्य यात्रायाम् अग्रे प्रासरत् । मात्रा रेणूदेव्या प्रस्थितः पुत्रः रामदासः मम अन्तिमे काले आगते एकदा पुनः त्वया आगन्तव्यम् इति निवेदितः । रामदासः मातः अवश्यम् आगमिष्यामि आश्वस्ता भव इति उक्त्वा रामदासः भारतस्य अन्यान् प्रदेशान् द्रष्टुं प्रस्थितः । तेन जॉब-ग्रामे युवकाः बलवन्तः भवेयुः तदर्थं व्यायामशाला स्थापिता । अन्ते जय जय रघुवीर समर्थ इति च उक्तम् ।

रामभक्ति आन्दोलनम्[सम्पादयतु]

उत्तरे भारते प्रतिस्थाने रामदासेन हनुमत् मन्दिराणि स्थपितानि, मठाः स्थापिताः, मठाधिपतयश्च कृताः । सः काश्यां भगवतः रामचन्द्रस्य मन्दिरम्, प्रयागे वेणीमाधवम्, अन्तर्वेद्यां रामकृष्णौ, उज्जयन्यां जगन्नाथम्, जगन्नाथपुर्यां पद्मनाभं च अस्थापयत् । जगन्नाथपुरीतः ते रामेश्वरधाम गताः । ततः परं धारवार-मैसूर-बैङ्गलुळु-बेलग्रामं च गत्वा पण्ढरपुरं गताः । तत्र सः कटिहस्तं भगवन्तं विट्ठलं ददर्श । तत्र हस्तौ समानीय रामदासः तस्य सन्मुखे स्थितः ।तस्मिन् एव क्षणे विट्ठलः करयोः धनुर्बाणं च धृत्वा रामदासाय दर्शनं दत्तवान् । तस्य चरणयोः वन्दनं कृत्वा रामदासः अग्रे अगच्छत् ।

पैठणगमनम्[सम्पादयतु]

गोदावर्याः तटस्य मार्गेण रामदासः पैठणं गतः। सः नगरे भ्रमते स्म । तेन तत्र गोफणेन गिद्धं वेद्धुं लक्ष्यं कुर्वन्तः गोफणेन गोलकलोष्टान् क्षिपन्तः केचन बालकाः दृष्टाः । किन्तु ते लक्ष्यं वेद्धुं सफलाः न भवन्ति । रामदासेन बालेभ्यो गोफणं गृहीतम्, गुलिका च चालिता विद्धं च लक्ष्यम् । विद्धः गृद्धः भूमौ न्यपतत् । एतद् दृष्ट्वा जनाः अकथयत् घोरः कलिकालः आगतः. संन्यासी भूत्वाऽपि आखेटं कुरुते इति । कीदृश एष साधुः । अनेन प्रायश्चित्तं करणीयम् इति ।

रामदासस्य प्रायश्चित्तम्[सम्पादयतु]

रामदासः अवदत् भवन्तः यद् आदिशेयुः तत् विधास्यामि इति । पण्डिताः आगताः होमहवनादिकं च जातम् । मन्त्रजपः अपि सम्पन्नः अभवत् । ब्राह्मणेभ्यः यथेष्टं दक्षिणाद्रव्यम् अपि प्रदत्तम् । ब्राह्मणाः दक्षिणां गृहीत्वा यदा गन्तुं प्रवृत्ताः, तदा रामदासः कुत्र गच्छन्ति कार्यं तु न सम्पन्नम् इति अवदत् । गृद्धः तु तत्रैव पतितः दृश्यते इति । एकः पण्डितः अवदत् – निष्प्राणः सः तथैव स्थास्यति । यदि एवं तर्हि भवतां होमादिकं व्यर्थं जातम् । जनाः कथयन्ति तव एतस्य कथनस्य कः अर्थः । रामदासः अवदत् एषः गृद्धः जीवितः भूत्वा नभसि उड्डियताम् इति । प्रमुखः पण्डितः अवदत् शक्यम् इदम् । रामदासः कमण्डलोः जलं गृहीत्वा गृद्धस्य चच्वाम् अपातयत् । गृद्धः जलम् अपिबत्, पादाभ्याम् उदतिष्ठत्, पक्षौ प्रासारयत् उदडीयत च । सर्वे चकिताः । पण्डिताः तं प्रति नतमस्तकाः अभूवन् । अनेकाः जनाः तस्य शिष्याः अभूवन् ।

टाकलीगमनम्[सम्पादयतु]

ततः परं सः टाकली-ग्रामम् गतः । यत्र तस्य आश्रमः आसीत् । इदानीम् उद्धवः युवा अभवत् । टाकली-ग्रामस्य आश्रमः तेन उत्तमया रीत्या चालितः । तत् सर्वं दृष्ट्वा रामदासः हर्षं गतः । उद्धवम् आशिषं दत्त्वा रामदासः महाबलेश्वरं गतः । तत्रापि तेन हनुमत् मन्दिराणि स्थापितानि । मठाः स्थापिताः । युवकाः बालकाश्च दैनिके व्ययामे उपदिष्टाः । स्वस्य धर्मस्य रक्षायै मार्गाः दर्शिताः ।

राजगुरु रामदासः[सम्पादयतु]

रामदासः शिवाजी अपेक्षया २२ वर्षाणि ज्येष्ठः आसीत् । भारतयात्रां समाप्य यदा सः कृष्णानद्याः परिसरे वसन्ति स्म, तदा सः ३६ वर्षीयः आसीत् । शिवाजी १४ वर्षीयः आसीत् । एतौ उभौ भ्रमणशीलौ स्वाराज्यकाक्षिणौ आस्ताम् । उभौ रामराज्यं स्थापयितुम् इच्छुकौ आस्ताम् । उभौ निष्कामौ, कर्मयोगिनौ च आस्ताम् । रामदासः सदैव कथयति स्म - जय जय रघुवीर समर्थ समर्थ यत् किमपि घटमानमस्ति तत्र रामस्य इच्छा एव कारणम् अस्ति इति । अहं स्वराजं स्थापयामि इति मातुः इच्छा इति । रामदासः जनान् जनेषु च आत्मविश्वासम् अजागरयत् । जनसामान्यस्य मनःप्रवृत्तिं पर्यवर्तत । यथा ज्ञानेश्वरस्य तुकारामस्य च काले जनाः मानवतां वर्धयितुं समुत्सुकाः आसन् तथैव पुनः स्युः इति रामदासः इच्छति स्म । रामदासस्य एतादृश्यै प्रतिज्ञायै शिवाजी साहाय्यकरः आसीत् । सः रामदासश्च निभृतम् अपि मिलतः । तौ स्वाराज्यमन्त्रणां करुतः । शिवाजी रामदासेन स्थापितेषु मन्दिरेषु वारं वारं गच्छति स्म । रामदासस्य शिष्याः तम् अनेकानि महत्वपूर्णानि वृत्तानि श्रावयन्ति स्म । शिवाजी एकदा चाफलम् अगच्छत् । तत्र भगवतः रामस्य दर्शनम् अकरोत् । तेन तत्रत्या स्थितिः शिक्षा-व्यवस्था च दृष्टा । तेन प्रसन्नः शिवाजी तत्रत्यं व्ययं सोढुं राज्यतः आर्थिकं साहाय्यम् अकरोत् । तत्रत्यं मन्दिरं जलनिमग्नं मा भूत् इति विचार्य शिवाजी इत्यनेन एकः जलबन्धः कारितः । यदा रामदासः प्रत्यागतः, तदा बन्धादिकं दृष्ट्वा सः प्रसन्नः सन् शिवाजी अत्यस्मै धन्यवादं प्रदातुम् एकं पत्रम् अलिखत् । शिवाजी इत्ययं आशीर्वादात्मकं तत् पत्रं शिरसि अधरत् । ततः परं शिवाजी रामदासं प्रति गत्वा तं प्रणामं च कृत्वा तस्य अनुगामी शिष्यः अभवत् ।

रामदासस्य चमत्कारः[सम्पादयतु]

एकदा रामदासः चाफलस्य पार्श्वे शिवकन्दरे आसीत् । पिपासया आक्रान्तः, श्रान्तः क्लान्तः शिवाजी तत्र आगतः । तत् दृष्ट्वा रामदासः एकं शिलाखण्डम् अत्रोटयत् । तत्र महत् जलस्रोतः आसीत् ।जलं पीत्वा शिवाजी सन्तोषं प्रापत् । तत् तीर्थम् अद्यापि कुबडीतीर्थः इति नाम्ना प्रवहति ।

शिवाजी इत्यस्य अहङ्कारः, तस्य नाशश्च[सम्पादयतु]

एकदा शिवाजी एकं दुर्गं योजयन्ति स्म । तत्र सहस्राधिकाः जनाः कार्यं कुर्वन्ति स्म । शिवाजी क्षणं व्यचारयत् । एतान् अहं पालयामि इति । जय जय रघुवीर समर्थ इति ध्वनिं श्रुतवान् । शिवाजी तत् सर्वं रामदासम् अदर्शयत् । रामदासः अवदत् राजन् ! त्वं महान् असि । त्वं एतावतां जनानां भोजनदाता भवसि, अन्यथा इमे बुभुक्षया अपीड्यन्त । इत्थं चर्चां कुरुतौ तौ एकस्याः बृहत्याः शिलायाः प्रार्श्वं गतौ । तत्र टङ्कहस्तास्तक्षकाः कार्यं कुर्वन्ति स्म । रामदासः तेषां प्रमुखं तत् शिलाखण्डं द्विधा विभक्तुम् आदिशत् । सः शिलाम् अखण्डयत् । ततः तस्यां श्लायां एकं लघीयो गर्तम् आसीत् । गर्ते एकः जीवः आसीत् । तं दृष्ट्वा रामदासः मम रामस्य लीला अकल्पनीया अस्ति इति अवदत् । ततः परम् अस्मै कः जलम् अन्नं ददाति इति शिवाजी इत्येतम् अपृच्छत् । तत् श्रुत्वा शिवाजी नतमस्तकः भूत्वा मम मानसे एतान् अहं भोजयामि इति अहङ्कारः आसीत् तत् भवता नष्टः इति अवदत् । तदनन्तरं रामदासः राम एव कर्ता धर्ता च अस्ति, वय तस्य हस्तस्य उपकरणानि एव स्मः इति उक्त्वा जय जय रघुवीर समर्थ इति वदन् ततः निर्गताः ।

रामदास्य शिवाजी इत्येतं प्रति कर्तव्यबोधः[सम्पादयतु]

शिवाजी इत्यस्य कथनेन रामदासः एकत्र स्थातुं सज्जनगढ इति स्थानम् अचिनोत् । एकदा शिवाजी दुःखी आसीत्, तदा रामदासः द्वारं लब्ध्वा भीक्षार्थं जय जय रघुवीर समर्थ इति अवदत् । स्वय शिवाजी भीक्षां दातुम् उपस्थितः । सः रामदासस्य भिक्षाप्रसेवके (झोली) एकां स्वहस्तलिखितां चीटीकाम् अपातयत् । रामदासः अवदत् न तण्डुलं न चूर्णं कीदृशी इयं भीक्षा कर्गदपत्रम् अपि भीक्षा भवति किम्, तदनन्तरं चीटिका दृष्टा वाचिता च । तत्र शिवाजिना मम सर्वम् अपि राज्यं भवतां चरणयोः अर्पितमस्ति इति । पठित्वा रामदासः उच्चैः अहसत् अहं तव भीक्षां स्वीकरोमि इति अकथयत् च । किन्तु अहं राजव्यवस्थायै त्वाम् एव नियोजयामि इति अवदत् । इदं राज्यं भवता रामराज्यवत् चालनीयम् इति । भवान् क्षत्रियः असि राजा च असि । प्रजायाः क्षतात् रक्षणं क्षत्रियस्य धर्मः अस्ति । स त्वया परिपालनीयः इति । भगवता गोपालेन अपि उक्तं – स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः इति । ततः शिवाजी दक्षिणदिशि अगच्छत् । रामदासः जांब इति स्वजन्मग्रामम् अगच्छत् ।

मातुः अन्तिमा अवस्था मृत्यु च[सम्पादयतु]

जांब-ग्रामे रामदासः माता अन्तिमान् श्वाशान् गृह्णाति इति सन्देशं प्रापत् । सः मातुः पार्श्वं प्रापत् । तेन मातुः चरणरजांसि मस्तके लिप्तानि अहम् आगतः इति च उक्तम् । माता अवदत् पुत्र अहं त्वाम् एव प्रतिक्षमाणा अस्मि । यमराजः आगच्छति । पूर्वम् अपि सः प्राप्तः किन्तु मया प्रर्थितः मनाक् विरम मम नारायणः आगच्छतु इति । रामदासः मातुः शिरः स्वकीये क्रोडे अस्थापयत् । मुखे जलम् अपातयत्, तुलसीपत्रम् अस्थापयत् । रामदासं पश्यन्त्या नारायण नारायण नारायण इति जपन्त्या तया इहलोकलीला समाप्ता ।

महाप्रयाण[सम्पादयतु]

१६७९ तमस्य वर्षस्य पौषमासे शिवाजी सज्जनगढं प्राप्तः । पञ्चदशदिनानि यावत् तत्र निवासं कृत्वा सः निर्विकल्पं स्मारकम् अनुभूतवान् । माघपूर्णिमायां सः गुरुचरणरजांसि तिलकीकृत्य शिवाजी ततः प्रस्थितः । तदनन्तरं १६८० तमस्य वर्षस्य चैत्रपूर्णिमायां सः दिवं गतः । तत् श्रुत्वा रामदासः साधुभवन्नपि चेतसि पीडाम् अनुभूतवान् । तस्य मुखात् श्री इच्छा, रामेच्छा, ईश्वरेच्छा इति शब्दाः निर्गताः । सः भोजनम् अत्यजत् । दुग्धं पीत्वा एव कालम् अयापयत् । शिवाजीपुत्रः शम्भाजी सिंहासने आरूढः आसीत् । सः क्रोधी आसीत् । अतः रामदासः तं प्रति एकान्ते स्थित्वा विचारं कुरु, प्रमादी मा भूः इत्येतत् सर्वम् अलिखत् । शम्भाजी पत्रं पठित्वा रामदासस्य आश्रमम् अगच्छत्, प्रणामं च अकरोत् । रामदासः तम् आशीषं च अददात्, अयोजयत् च । ततः परं सज्जनगढ-मन्दिरे स्थापनीयाः मूर्तयः जावुरपुरात् आनीताः । रामदासः ताः एव प्रतिक्षमाणः आसीत् । माघकृष्णपञ्चम्यां तासां मूर्तीनां प्राणप्रतिष्ठा अभवत् । भगवतः रामस्य मूर्तेः सम्मुखी रामदासः ध्यानमग्नः अभवत् । मध्याह्ने श्रीराम श्रीराम श्रीराम इति उच्चैः अवदत् स्वीयान् प्राणान् भगवतः रामस्य चरणयोः समर्पयत् । इत्थं १६८२ तमस्य वर्षस्य जनवरी-मासस्य २२ तमे दिनाङ्के तेषाम् अवशानम् अभवत् ।

स्मारकः[सम्पादयतु]

ये महात्मनः भवन्ति तेषां देहः स्थलविशेषे न प्रतिबन्ध्यते । सज्जनगढे राममूर्तिं प्रतिष्ठाप्य तत्र एव स्वीयं वपुः अदाहयत् । अस्माकं साम्प्रतिके मध्यप्रदेशे इटारी इति रेलस्थानम् अस्ति । ततः दिल्लीं प्रति गमनमार्गे भोपालं प्रति गच्छन्ति तत्र १४ कि.मि दूरवर्तिनी मातुः नर्मदायाः पश्चिमे तटे नर्मदापुर इति आख्यम् एकं नगरम् अस्ति । तत् इदानीं होशङ्गाबाद इति नाम्ना प्रसिद्धम् अस्ति । तस्य स्मारक रामजी बाबा की स्मारक इति नामा प्रसिद्धा अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=स्वामी_रामदासः&oldid=370566" इत्यस्माद् पुनः प्राप्तिः