स्वामी विरजानन्दः
स्वामी विरजानन्दः (१७७८–१८६८) संस्कृतविद्वान्, वैदिकगुरुः, आर्यसमाजस्य संस्थापकः स्वामी दयानन्दसरस्वती इत्यस्य गुरुः च स्वामी विरजानन्दः , एषः मथुरायाः अन्धगुरुः इत्यपि प्रसिद्धः आसीत् ।
बाल्यकालः
[सम्पादयतु]एतस्य जन्मः मोहयाल दत्त सारस्वत ब्राह्मणस्य परिवारे पंजाबराज्यस्य करतारपुरस्थाने १७७८ तमे वर्षे अभवत् । एतस्य बाल्यकालस्य नाम वृज लाल आसीत्। पञ्चमे वयसि चेचक इति कारणात् एषः पूर्णतया अन्धः अभवत्। १२ तमे वयसि मातापितरौ दिवंगतौ एवञ्च भ्रातुः भ्रातृजयायाः च संरक्षणे कानिचन दिनानि व्याप्य गृहात् विद्याध्ययनाय निर्गतवान्। किञ्चित् कालम् इतस्ततः भ्रमणं कृत्वा एषः आध्यात्मिक नगरी इति विख्यातं ऋषिकेशनगरं आगतवान् एवं किञ्चित् कालं ऋषिकेशनगरे स्थित्वा कस्यचित् प्रेरणया एषः हरिद्वारनगरे कस्मिंश्चित् आश्रमे वासं कृतवान् । तत्र एषः स्वामी पूर्णानन्द-महोदयं मिलितवान् । पूर्णानन्द-महोदयः एनं वैदिकव्याकरणम् एवम् आर्षशास्त्रेभ्यः अवगमनं कारितवान् । इतः परं सः संस्कृतविद्वद्भ्यः प्रसिद्धं काशीनगरम् आगतवान् , यत्र १० वर्षाणि यावत् सः दर्शनानां ( वेदान्त, मीमांसा, न्यायादि) तथा आयुर्वेदादि ग्रन्थानाम् अध्ययनम् अकरोत्। ततः परं गयाप्रदेशं आगतवान् यत्र उपनिषदां तुलनात्मकाध्ययनस्य कार्यं कुर्वन्नभवत्। इतः सः कलकत्ताप्रदेशं गतवान्, यत्र स्वीयसंस्कृतज्ञानेन सः प्रशंशां प्राप्तवान्। ततः परं एषः निमंत्रणे अलवरप्रदेशं आगतवान् एवम् अत्र सः शब्द-बोध ग्रंथस्य रचनां कृतवान्। एतस्य मूलप्रतिः अधुनापि तत्र संग्रहालये स्थपितम् अस्ति। ततः परं सः मथुरानगरे स्थितवान्। यत्र तेन पाठशाला स्थापिता। अस्मिन् संपूर्णदेशात् संस्कृतजिज्ञासवः आगताः एवं क्षत्रियेभ्यः दानमपि प्राप्तम्।
दयानन्दसरस्वती-महोदयेन सह मेलनम्
[सम्पादयतु]एतस्मिन् समये एव स्वामी दयानन्द सरस्वती इति सत्यज्ञानस्य अभिलाषायाः स्वगृहं परिवारं च त्यक्त्वा सच्चिदानन्दगुरुं अन्वेष्टुं प्रस्थितवान् । भारतस्य विभिन्नेषु भागेषु यात्रां कुर्वन् १८६० तमे वर्षे गुरुवरस्य स्वामी विरजानन्दस्य आश्रमम् आगतः, तत्र तेन नवीनदृष्टिः, प्रेरणा, आत्मविश्वासः च प्राप्तः । बहुवर्षाणि परिभ्रमणानन्तरं यदा सः भगवतः श्रीकृष्णस्य जन्मस्थले मथुरा -नगरे गुरुविरजानन्दस्य कुटीरं प्राप्तवान् तदा गुरुविरजानन्दः तं पृष्टवान् यत् सः कोऽस्ति इति। तदा दयानन्दः अवदत्, "गुरुवर, एतत् एव अहं वस्तुतः ज्ञातुम् इच्छामि- अहं कोऽस्मि?" प्रश्नस्य उत्तरेण सन्तुष्टः गुरुवरः दयानन्दं स्वशिष्यं स्वीकृतवान्।
स्वामी विरजानन्दः उच्चस्तरीयः विद्वान् आसीत्, सः वैदिकमन्त्रान् नवीनदृष्टिकोणेन दृष्टवान् एवं वेदान् नूतनव्यवस्थां प्रदत्तवान् । तेन दयानन्दाय वैदिकशास्त्राणाम् अभ्यासः कारितः।
दक्षिणा
[सम्पादयतु]अध्ययनस्य पूर्तेः परं यदा दयानन्दः गुरुविरजानन्दं गुरुदक्षिणारूपेण कतिपयानि लवङ्गानि, यानि गुरुं प्रियानि आसन् स्वीकृत्य गतवान् तदा तानि गुरुविरजानन्देन गुरुदक्षिणारूपेण न स्वीकृतानि , सः उक्तवान् यत् गुरुदक्षिणारूपेण, अहम् इच्छामि यत् समाजे विद्यमानम् अन्धविशवासं एवञ्च कुरीतीः समापयतु इति। गुरोः आज्ञाम् अनुसृत्य स्वामी दयानन्द सरस्वती भारतस्य सामाजिक-सांस्कृतिक-राजनैतिक-उत्थाने महत्त्वपूर्णं योगदानं दत्तवान् ।
सम्मानं महत्त्वञ्च
[सम्पादयतु]तस्य स्मृतौ करतारपुरस्य ग्राण्ड ट्रंक रोड् इत्यत्र एकं स्मारकं निर्मितम्, यस्य शिलान्यासः श्री बद्रीनाथ आर्यः (यः पश्चात् आर्यसमाजस्य नैरोबी इत्यस्य स्थापनां कृतवान्) इत्यनेन स्थापितः । १९७१ तमे वर्षे सेप्टेम्बर्-मासस्य १४ दिनाङ्के संकेतविभागेन तस्य स्मृतौ मुद्रिका निर्गमिता।
स्वातन्त्र्य-आन्दोलने वैदिक-पुनरुत्थाने च आर्यसमाजस्य योगदानं बहुप्रशंसनीयम् अस्ति तथा च तस्य संस्थापकः दयानन्दः स्वामी विरजानन्दात् ज्ञानं प्राप्तवान्, अतः आधुनिकभारते तस्य योगदानस्य प्रशंसाकरणम् आवश्यकम् अस्ति।
इदमपि द्रष्टव्यम्
[सम्पादयतु]- स्वामी विराजानन्दः (रामकृष्ण मिशन)
- दयानन्द सरस्वती
बाह्यसंपर्कः
[सम्पादयतु]- विरजानन्द प्रकाश (लेखकः – भीमसेन शास्त्री विद्याभूषण)
- स्वामी विरजानन्दः आश्रम पाणिनी महाविद्यालयः
- भारते वैदिकयुगस्य शिल्पकारः – स्वामी विरजानन्दजी दण्डी (आर्य मन्तव्य)