स तया श्रद्धया युक्तः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
स तया श्रद्धया युक्तस्तस्या राधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥ २२ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सः तया श्रद्धया युक्तः तस्य आराधनम् ईहते लभते च ततः कामान् मया एव विहितान् हि तान् ॥ २२ ॥

अन्वयः[सम्पादयतु]

सः तया श्रद्धया युक्तः तस्याः राधनम् ईहते । ततः च मया एव विहितान् तान् कामान् हि लभते ।

शब्दार्थः[सम्पादयतु]

सः = सः भक्तः
तया श्रद्धया = तया आसक्त्या
युक्तः = संयुक्तः
तस्याः = एतस्य मूर्तेः
आराधनम् = सेवनम्
ईहते = करोति
ततः च = पश्चात्
मया एव = भगवता मया एव
विहितान् = दत्तानि
तान् कामान् = तानि फलानि
लभते हि = प्राप्नोति खलु ।

अर्थः[सम्पादयतु]

सः भक्तः तया आसक्त्या युक्तः सन् तस्याः देवतातनोः सेवनं करोति । पश्चात् मया एव दत्तानि तानि फलानि प्राप्नोति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]