स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (योगसूत्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सूत्रसारः[सम्पादयतु]

सूत्रार्थः[सम्पादयतु]

तस्य अभ्यासस्य तु दीर्घकालपर्यन्तं, सततं, सत्कारसहितं च आसेवितः (पुनरावृत्त्या) दृढभूमिः भवति॥ १४ ॥

दीर्घकालपर्यन्तं, सततं, तपस्या-ब्रह्मचर्य-विद्या-श्रद्धाभिः (सत्कारेण) सह कृतः आसेवितः अभ्यासः, ( अतः सः) सत्कारवान् अभ्यासः दृढभूमिः भवति, ( अर्थात् ) व्युत्थानसंस्कारद्वारा () शीघ्रं हि अभिभूतः न भवति॥

When that practice is done for a long time, without a break, and with sincere devotion, then the practice becomes a firmly rooted, stable and solid foundation.

शब्दार्थः[सम्पादयतु]

• सः = that (practice) सः अभ्यासः

• तु = and, but, however,

• दीर्घकाल = long time (दीर्घः = long; कालः = time)

• नैर्यन्तर्य = without interruption, continually,

• सत्कार = with devotion, sincerity, respect, reverence, positive attitude, right action

• आसेवितः = frequented, pursued, practiced, cultivated, attended to, done with assiduous attention

आसेवित¦ त्रि॰ आ + सेव--क्त। पौनःपुन्येनसेविते च भावे क्त।

• दृढभूमिः = stable, solid foundation, firmly rooted, of firm ground (दृढा = firm; भूमिः = ground)

व्यासभाष्यम्[सम्पादयतु]

दीर्घकालसेवितो निरन्तरसेवितः सत्कारासेवितः । तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान्दृढभूमिर्भवति । व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥१४॥

स तु- अभ्यासस्तु, सः अभ्यासस्तु, दीर्घकालनैरन्तर्यसत्कारासेवितो - दीर्घकालः नैरन्तर्यं सत्कारश्चेति (इतरेतरद्वन्द्वसमासः) दीर्घकालनैरन्तर्यसत्काराः, तैः आसेवितः तथोक्तः । दीर्घकालं यावत्, निरन्तरतया, सत्कारपूर्वकं कृतः अभ्यासः । दृढभूभिः ( भवतीति शेषः ) - दृढा भूमिः यस्यासौ ( बहुव्रीहिसमासः ), सुदृढः भवति, परिनिष्ठितः भवति॥ १४॥

विशेषावबोधः[सम्पादयतु]

दीर्घकाल+आसेवितः- दीर्घकालेन दीर्घकालपर्यन्तं वा आसेवितः, अनुष्ठितः, सम्पादितः, दीर्घकालं यावत् कृतः अभ्यासः। निरन्तरासेवितः - नैरन्तर्येणासेवितः, निरन्तरतापूर्वं कृतम् अर्थात् नियमिततया प्रतिदिनं कृतः अभ्यासः। 'प्रत्यहं प्रतिक्षणमासेवितः । 'आसुषुप्तेरिति भाष्यार्थः । सत्कारेण च आसेवितः - सत्कारः आदरातिशयः, तेन सह । अर्थात् तपसा तपस्या उत द्वन्द्वादिसहनपूर्वकम् । ब्रह्मचर्येण - वीर्यरक्षापूर्वकम् । विद्यया - शास्त्रज्ञानपूर्वकम्। श्रद्धया च - एवञ्च योगं प्रति आदरातिशयपूर्वकं कृतः अभ्यासः । सत्कारवान् - सत्कृतः, सुसेवितः अभ्यासः । भाष्यकारः 'सत्कारपूर्वक'स्य व्याख्यानम् - तपस्यायुक्तः, ब्रह्मचर्ययुक्तः, श्रद्धासम्पन्नः, ज्ञानपूर्वकः च अभ्यासः उक्तः। योगाभ्यासं प्रति 'सत्कारः' तपस्यादिभिः चतुर्भिः मन्यते। एवं छान्दोग्योपनिषदि अपि प्रमाणम् अस्ति -

'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति ।[१]

अर्थात्, विद्यया, श्रद्धया, वेदानां रहस्यैः (उपनिषद्भिः) च यः कर्म करोति, सः तस्मै अधिकः वीरः, पराक्रमी च भवति।

दृढभूमिर्भवति – सुस्थिरः उत सुदृढः अभ्यासः भवति। एतस्य पदस्य तात्पर्यम् अस्ति यत्, व्यूत्थान-संस्कारेभ्यः, द्रागित्येव - शीघ्रं हि। अनभिभूतविषयः - अभिभूतः न भवेत् उत खण्डितः न भवति इत्यर्थः — अत्र आशयः उत तात्पर्यम् अस्ति यत्, एषः अभ्यासः उत चित्तैकाग्र्यः प्रबलव्युत्थानसंस्कारेभ्यः अभिभूतः भवत्येव एवञ्च तदैव समाधिदशायाः निर्गत्य साधकः लौकिकदशायाम् उत व्युत्थान-अवस्थायां पतति। यदि एवं न भवेत्, तर्हि साधकस्य भोजन-पेय-शयनादिकं सर्वोऽपि लौकिकः व्यापारः असम्भवः भवेत्। अभ्यासस्य दृढभूमिः सिद्धा भवति, तेन लाभः भवति यत् समाधिः अतीव शीघ्रतया भग्ना न भवति, अपि तु दीर्घकालं यावत् स्थिरा भवति। तदैव समाधेः अग्रिम-भूमिकासु विजय-क्रमे बाधा न भवति। पश्चात् इच्छानुसारम् उत निश्चयानुसारं समाधौ प्रवेशः, ततश्च निर्गमनं शक्यते। तेन लोकव्यवहारस्य मर्यादा अपि प्रचलति, समाधिसिद्धिश्चापि भवति। अत एव भाष्यकारः 'द्रागित्येव' पदस्य प्रयोगम् अकरोत्। 'अभ्यासं कृत्वोपरमे च कालक्रमादभिभवो भवत्येवेति प्रतिपादयितुं द्रागित्येवेत्युक्तम्' ॥१४॥

विशेषम्[सम्पादयतु]

विशेषव्याख्या[सम्पादयतु]

1) व्युत्थानम् - व्युत्थानकाले चित्ते रजोगुणस्य प्रभावः वर्धते। तेन चित्तम् अस्थिरतायुक्तं भवति। निरोधसंस्काराणां योग्य-अभ्यासेन एव चित्तस्य स्थितिः अतीव शान्ता भवति। यदा निरोध-संस्कारस्य प्रभावः न्यूनः भवति, तदा व्युत्थानस्य संस्काराः प्रभाविताः भवन्ति।

2) सत्कारवान्/सत्कारासेवितः अभ्यासः - तपस्या, ब्रह्मचर्यं, विद्या श्रद्धा इत्येतैः युक्तः अभ्यासः, अत्यादरपूर्वकः अभ्यासः च सत्कारवान्/सत्कारासेवितः अभ्यासः उच्यते।


पातञ्जलयोगसूत्राणि
पूर्वतनः
----
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (योगसूत्रम्) अग्रिमः
योगश्चित्तवृत्तिनिरोधः
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः

सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. छान्दोग्योपनिषद् 1/1/10

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine