हकीकतरायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हकीकतराय इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
हकीकतरायः
जन्मतिथिः १७१९
जन्मस्थानम् सियालकोट (पञ्जाबराज्यम्, मुघलसाम्राज्ये अधुना पाकिस्थाने)
मृत्युतिथिः २३ फरवरी १७३४
मृत्युस्थानम् लाहौर-महानगरं, पञ्जाबराज्यं (मुघलसामग्राज्ये अधुना पाकिस्थाने)
तत्त्वचिन्तनम् हिन्दुधर्मः
सम्मानाः हुतात्मा
उक्तिः
अहं तादृशं धर्मं स्वीकर्तुं न शक्नोमि, यत्र झकिया इत्यस्य माध्यमेन अत्याचारस्य समर्थनं भवति। दर अल-हर्ब [१] द्वारा महिलानां, बालकानां च दासतायाः, विश्वासस्य अन्तरे सति भेदभावस्य च आचरणं कुर्वन्ति, तादृशस्य धर्मस्य स्वीकारं कर्तुं न शक्नोम्यहम्।
मुस्लिमशासनकाले शरिया-न्यायेन हत्या

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम-शासनकाले हिन्दूधर्मस्य अपमानने सति विरोधम् अकरोत्।[२] ततः मुस्लिम-आततायिभिः तस्य हत्या अभवत्।[३] मृत्युकाले सः चतुर्दशवर्षीयः (१४) आसीत्। तस्य मृत्योः दिने वसन्तपञ्चमी पर्व आसीत्। तस्मिन् दिने तस्य समाधिस्थले अनेके हिन्दवः एकत्रिताः भवन्ति।

यः काझी अब्दुल हक इत्याख्यः 'मौलवी' हकीकतरायस्य विरुद्धं 'फतवा' इत्यादेशेन मृत्युदण्डस्य याचनां कृतवान् आसीत्, तस्य शिरः सरदार-दल-सिंहः, सरदार-मान-सिंहः इत्येताभ्याम् उच्छेदितम्। तस्य मौलवी-पदधारिणः मृत्योः वर्षस्य सन्दर्भे विभिन्नेषु स्रोतस्सु भेदः दृश्यते। १७३२,[४] उत १७३५[५] इति मन्यते। महाराजा रणजीतसिंहः हकीकतरायं हुतात्मत्वेन अघोषयत्।[६]

बाल्यं, परिवारश्च[सम्पादयतु]

हकीकतरायस्य जन्म नवदशाधिकसप्तदशाब्दे (१७१९) खत्रि-परिवारे अभवत्। सः परिवारः पञ्जाबराज्यस्य सियालकोट-प्रदेशे निवसति स्म। हकीकतरायस्य जनकस्य नाम भागमलः, जनन्याश्च नाम कौरा (गौरा) आसीत्। भागमलः व्यापारी आसीत्। मोघलशासकानाम् अधीनत्वात् तस्मिन् काले राजभाषा फारसी आसीत्। अतः पितृभ्यां फारसीभाषायां “हकीकतराय” इति बालकस्य नामकरणं कृतम्।

हकीकतरायस्य पितामहस्य नाम नन्दः आसीत्। सः हररायस्य शिष्यः आसीत्। हकीकतरायस्य स्वसुरस्य नाम कनैया इति आसीत्, यस्य पुत्र्या लक्ष्मिदेव्या सह हकीकतरायस्य विवाहः जातः आसीत्। मातुलस्य नाम अर्जुनः इति। मातुलः अपि हुतात्मा जातः आसीत्।

शिक्षणम्[सम्पादयतु]

बाल्यकाले प्राथिमिकं शिक्षणं समाप्य हकीकतरायः 'फारसी'-नामिकां प्रशासनिकभाषां पठितुं लाहौर-महानगरम् अगच्छत्। तत्र सः मुस्लिमविद्यालये (मदरेसा) निवस्य एव अध्ययनं करोति स्म। अध्ययने मेधावी हकीकतरायः पाठितं पाठं शीघ्रं हि स्मरति स्म। तेन मुस्लिमशिक्षकः (मौलवी) तस्य प्रशंसाम् अपि करोति स्म।

कलहस्य आरम्भः[सम्पादयतु]

एकदा मुस्लिमशिक्षकः कमपि छात्रं स्मरितपाठं वक्तुम् आदिष्टवान्। परन्तु सः छात्रः वक्तुं न शक्तवान्। तस्य छात्रस्य धर्मः इस्लाम् आसीत्। अतः मुस्लिमशिक्षकः तं प्रति भर्त्सनां कुर्वन् अवदत् यत्, यूष्माकं सर्वेषाम् अपेक्षया सः हिन्दूः बालकः हकीकतरायः योग्यः अस्ति, यः स्वस्य पाठं शीघ्रतया स्मरति इति। शिक्षकस्य भर्त्सनायाः कारणेन क्रुद्धाः विद्यार्थिनः हकीकतरायं स्वस्य शत्रुत्वेन पश्यन्तः आसन्। ततः शिक्षकस्य विद्यालयात् बहिर्गते सति सर्वे कूर्कुराः विद्यार्थिनः हकीकतरायं कालयन्ति (persecute) स्म। दीर्घकालं यावत् सोढित्वा अन्ततो गत्वा हकीकतरायः तान् विद्यार्थीन् न्यवेदयत् यत्, कृपया भगवत्याः कृते मां मा पीडयन्तु इति। भगवत्याः नाम श्रुत्वा सर्वेऽपि विद्यार्थिनः हिन्दूधर्मस्य देवतानाम् उपहासम् आरब्धवन्तः। ते देव्याः विषये अपशब्दान् अवदन् च।

देवीनां प्रति अपशब्दोच्चारणस्य हकीकतरायेन विरोधः कृतः। सः तान् बोधयन् उक्तवान् यत्, यदि अहम् एतान् एव शब्दान् 'मुहम्मद' इत्यस्य पुत्र्याः फातिमा इत्यस्यै वदानि, तर्हि यूष्माकं मनसि कीदृशी पीडा भविष्यति? अतः यूयं देवीनां विषये अपशब्दान् मा वदत इति। हकीकतरायस्य वचनानि इस्लामविरुद्धानि सन्ति इति उक्त्वा सर्वेऽपि विद्यार्थिनः कोलाहलम् आरब्धवन्तः। ते आरोपयन् यत्, हकीकतरायः फातिमा इत्येमां प्रति अपशब्दस्य प्रयोगम् अकरोत्। सः मोहम्मद इत्यस्य अपमाननम् अकरोत् इति। सर्वेऽपि हकीकतरायस्योपरि प्रहारम् अकुर्वन्। तं ताडयन्तः सर्वे शिक्षकस्य पार्श्वे अगच्छन्।

शिक्षकोऽपि मुस्लिम-विद्यार्थिनां पक्षधरः सन् घटनायाः निन्दाम् अकरोत्।[७][८] सः राजकीयाधिकारिभ्यः इस्लामधर्मस्य अपमाननस्य सूचनाम् अयच्छत्। यद्यपि विद्यार्थिषु जातः सः बालकलहः आसीत्, तथापि मुस्लिमसमाजः तस्मै मृत्युदण्डं दातुं याचनाम् अकरोत्।[९]

अभियोगः[सम्पादयतु]

मोघलशासनकाले 'नवाब' इत्युपाधिधारकाः शासकाः, तेषाम् अन्तर्गताः 'सुबेदार' इत्याख्याः अधिकारिणः च राज्यानां वास्तविकं व्यवस्थापनं कुर्वन्ति स्म। असिनः भयं प्रदर्श्य बलेन धर्मपरिवर्तनाय जनान् विवशान् कुर्वन्ति स्म। [१०] अतः यदा हकीकतरायस्य पितरौ क्षमायाचिकां नीत्वा 'हाकिम मिर्झा अमीर बेग'-नामकस्य अधिकारिणः समीपे अगच्छताम्, तदा सः हकीकतरायस्य धर्मपरिवर्तनस्य उपायम् अयच्छन्। यदि हकीकतरायः इस्लामधर्मम् अङ्गीकरोति, तर्हि सः मुक्तः भविष्यति इति। आदील-नामकेन अधिकारिणा प्रदर्शितं मार्गं हकीकतरायः अजानत्। परन्तु सः धर्मपरिवर्तनाय सज्जः नाभवत्। एवं स्यालकोट-प्रदेशे हकीकतरायस्य कृते मृत्युदण्डस्य याचना बलवती अभवत्।

हिंसायाः स्थित्याम् अधिकारिषु केनचित् हकीकतरायस्य पितृभ्याम् उत्कोचः स्वीकृत्य पञ्जाबराज्यस्य 'नवाब' इत्यस्य पार्श्वे अभियोगः प्रेषितः।[११] अतः पञ्जाबराज्यस्य 'नवाब' इत्याख्यस्य अधिकारिणः पार्श्वे अभियोगः गतः। निवेदनं तेन स्वीकृतं परन्तु तस्य कृते हकीकतरायः लाहौर-महानगरं प्रति स्वीकरणीयः आसीत्। यतो हि हकीकतरायः तेषां दृष्ट्या अपराधी आसीत्, अतः बाले सत्यपि अधिकारिणः तं पद्भ्यामेव लाहौर-महानगरं यावत् अनयन्। बालहकीकतरायस्य साहाय्यं कर्तुं तस्य पितारौ स्वजनैः सह लाहौर-महानगरं यावत् यात्राम् अकुर्वन्। हकीकतस्य पत्न्याः उपरि सङ्कटं दृष्ट्वा तां तस्य पितुः गृहम् अप्रेषयेतां च। हिन्दूनां दलस्य पृष्ठे एव स्यालकोट-प्रदेशस्य मुस्लिमसमाजः, मौलवीसमुदायः च यात्रां कृत्वा लाहौर-महानगरं प्रति अगच्छताम्। तेषां सर्वेषां मृत्युदण्डस्य याचना 'नवाब' इत्याख्यस्य अधिकारिणः सम्मुखम् अपि प्रस्थापिता।

अन्ततो गत्वा द्वयोः दिनयोः यात्रां कृत्वा हकीकतरायः लाहौर-महानगरं प्राप्तवान्। द्वितीये दिने सः पञ्जाबराज्यस्य तत्कालिनस्य 'नवाब' झकरिया खान (१७२६-४५) इत्यस्य समक्षम् उपस्थापितः। काझी अब्दुल हक इत्याख्यः 'मौलवी' हकीकतरायस्य विरुद्धं 'फतवा' इत्यादेशेन मृत्युदण्डस्य याचनां कृतवान् आसीत्। उभयोः पक्षयोः तर्कान् 'नवाब' इत्येषः अशृणोत्। तदा ज्ञातं यत्, हकीकतरायस्य उपरि कृताः आरोपाः मिथ्या सन्ति इति।[१२] तथापि अन्येषां मुस्लिम-जनानां विरोधस्य भयेन सः हकीकतरायाय मृत्युदण्डं घोषितवान्। परन्तु सः अन्तिमवारं हकीकतरायस्य इस्लामधर्माङ्गीकराय प्रयत्नम् अपि कृतवान्।[१३] अतः सः अकथयत् यत्, "वास्तव्येन एषः कश्चन बालकलहः इति अहं जानामि। तस्य कृते मृत्युदण्डः अयोग्य एव। परन्तु यदि त्वम् इस्लामधर्मं स्वीकरोति, तर्हि कापि हानिः नास्ति। भगवान्, 'अल्लाह' च एकः एव अस्ति। अतः चिन्ता मास्तु। त्वं यदि इस्लामधर्मं स्वीकरोषि, तर्हि अहं ३,००० रूप्यकाणां सम्पत्तिम् अपि दास्यामि" इति। परन्तु हकीकतरायः नाङ्ग्यकरोत्। अतः पितरौ स्वबालं बोधयितुम् एकस्याः रात्र्याः अवकाशं याचितवन्तौ, येन तौ स्वपुत्रम् इस्लामधर्माङ्गिकाराय सज्जीकर्तुं शक्नुयाताम्। 'नवाब' इत्येषः समयं दत्तवान् च।

रात्रौ हकीकतरायस्य पितरौ कारागारं प्रति स्वबालं बोधयितुम् अगच्छताम्। माता अपि स्वपुत्रस्य जीवनस्य रक्षणाय धर्मान्तरणाय उक्तवती। परन्तु हकीतरायः उक्तवान् यत्, अहं तादृशं धर्मं स्वीकर्तुं न शक्नोमि, यत्र झकिया इत्यस्य माध्यमेन अत्याचारस्य समर्थनं भवति। दर अल-हर्ब [१४] द्वारा महिलानां, बालकानां च दासतायाः, विश्वासस्य अन्तरे सति भेदभावस्य च आचरणं भवति, तादृशस्य धर्मस्य स्वीकारं कर्तुं न शक्नोम्यहम् इति।

अपरे दिने सभायां हकीकतरायः तस्मै 'नवाब'-उपाधिधारिणे अधिकारिणे प्रत्युत्तरं यच्छन् अवदत् –

मुझे है धर्म प्यारा, हंस के मैं बलिदान हो जाऊँ।

धर्म बदलने से बेहतर है कि मैं कुर्बान हो जाऊँ।।

भगवान् किमपि विचिन्त्य एव मह्यं हिन्दूत्वेन जन्म अयच्छत्। प्राणस्य रक्षायै किमर्थम् अहं स्वधर्मं त्यजानि? मम धर्मः प्राणेभ्यः अपि अधिकतरः अस्ति। किं मुस्लिमजनानां मृत्युः न भवति? मृत्युः तु जीवनस्य सत्यता अस्ति। धर्मान्तरणरूपिणः विषस्य आशयेन जीवनस्य अपेक्षया बलिदानं कृत्वा स्वर्गस्य अमृतम् अधिकं श्रेयस्करं भविष्यति इति।

मृत्युदण्डः[सम्पादयतु]

वास्तव्येन हकीकतरायेन कोऽपि राजकीयः उत राष्ट्रीयः द्रोहः अपराधः वा न कृतः आसीत्। अतः नियमानुसारं तस्मै दण्डं कर्तुं प्रशासनम् असमर्थम् आसीत्। अतः अन्ततो गत्वा मुस्लिमसमाजस्य अग्रणिभिः सूचितं यत्, एतस्मै यदि प्रशासनं मृत्युदण्डं न दातुं प्रभवति, तर्हि इस्मालन्यायेन (शरिया) वयम् एतस्मै मृत्युदण्डं दास्यामः। अतः प्रशासनम् एनम् अस्मभ्यं दद्यात् इति। प्रशासनम् अपि तेषां निवेदनं स्वीकृत्य हकीकतरायं समार्पयत्। समर्पणात् प्राक् मुस्लिमसैनिकैः हकीकतरायस्य हस्तौ उच्छेदितौ, येन सह गर्ते स्वरक्षां कर्तुं न प्रयतेत।

मुस्लिमजनैः तस्य कृते कुपसदृशः गर्तः (खड्डा) निर्मितः आसीत्। १८४९ तमे वर्षे गणेशदासबधेरा-द्वारा रचिते 'चार बागे पंजाब' पुस्तके वर्णनं प्राप्यते यत्,[१५] [१६] यदा सर्वे मुस्लिमजनाः हकीकतरायं पाषाणखण्डैः मारयन्ति स्म, तदा हकीकतरायस्य मुखात् केवलं "राम!, राम!" इत्येव निःसरति स्म।

मृत्युः[सम्पादयतु]

गर्ते एव पाषाणखण्डानां प्रहारेण हकीकतरायस्य मृत्युः अभवत्। मृत्योः अनन्तरं मुस्लिमजनाः तस्य पार्थिवदेहं त्यक्त्वा अगच्छन्। यदा हकीकतरायस्य मृत्योः समाचारान् तस्य पितरौ प्राप्तवन्तौ, तदा भागमलः शवस्य याच्ञाम् अकरोत्। सः हिन्दूपद्धत्या शवस्य अन्तिमसंस्कारं कारयितवान्। तस्मिन् दिने २३ फरवरी १७३४ दिनाङ्कः आसीत्। हिन्दूपञ्चाङ्गानुसारं तस्मिन् दिने वसन्तपञ्चम्याः पर्व आसीत्।

समाधिस्थलम्[सम्पादयतु]

हकीकतरायस्य मृत्योः अनन्तरं प्रतिमासं हिन्दूसमाजः तस्य स्थानस्य दर्शनार्थं गच्छन्तः आसन्।[१७] समाधिस्थले हकीकतरायस्य स्मरणार्थं तस्य पित्रा मन्दिरस्य निर्माणं कारितं, यत् अधुनापि तत्र वर्तते।[१८] पाकिस्थान-देशे निवसन्तः हिन्दवः प्रतिवर्षं वसन्तपञ्चम्याः दिने तत्र गत्वा हकीकतरायस्य स्मरणं कुर्वन्ति स्म। परन्तु पाकिस्थानसर्वकारेण तस्मिन् पर्वणि निषेधः घोषितः। तत्रस्थस्य किञ्चन नवा-ए-वक्त-नामकं समाचारपत्रं २००४ तमे वर्षे विरोधं कृत्वा अलिखत् यत्, वसन्तपञ्चम्याः दिने मोहम्मद इत्यस्य अपमाननस्य स्मरणे हिन्दवः वसन्तपञ्चम्याः उत्सवम् आचरन्ति इति।[१९]

भारतेऽपि हकीकतरायस्य स्मरणे कानिचन समाधिस्थलानि सन्ति। पञ्जाबराज्यस्य होशियारपुर-मण्डलस्य बाबा-भण्डारी इत्यस्य बोएली-स्थाने समाधिस्थलम् अस्ति। तत्र वसन्तपञ्चम्याः अवसरे हिन्दवः एकत्रिताः भवन्ति।[२०] तस्मिन्नेव राज्ये गुरदासपुर-मण्डलस्य बताला-नगरे हकीकतरायस्य मन्दिरं निर्मितम् अस्ति।[२१][२२] तत्र सतिलक्ष्याः अपि मन्दिरं विद्यते।[२३] देहल्यां हकीकतनगरम् अपि हकीकतरायस्य स्मारकम् अस्ति।

साहित्यम्[सम्पादयतु]

१७८२ तमवर्षे अग्गारसिंह-नामकः कश्चन कविः "पञ्जाबी वर" शैल्यां "हकीकतराय दी वर" इत्याख्यं पुस्तकम् अलिखत्।[२४] महाराजा रणजीतसिंहः हकीकतरायं हुतात्मत्वेन अघोषयत्।[६]

विंशाब्दस्य प्रथमे दशके, त्रयः वङ्ग-प्रदेशीयाः लेखकाः स्वस्य लेखे हकीकतरायस्य हुतात्मकथां प्राकाशयन्।[२५] आर्यसमाजः "धर्मवीर हकीकत राय" इत्याख्यस्य नाटकस्य रचनां कृत्वा तस्य नाटकस्य विना मूल्यं वितरणम् अकरोत्।[२६]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. http://www.oxfordislamicstudies.com/article/opr/t125/e490
  2. Maan Singh Nirankari (2008). Sikhism, a Perspective. Unistar Books. p. 154. ISBN 978-81-7142-621-8. https://books.google.com/books?id=fJO-ACIK_PoC&pg=PA154. 
  3. Lakshman Singh (2006). The Sikh Martyrs. Singh Brothers. pp. 118–122. ISBN 978-81-7205-382-6. https://books.google.com/books?id=banXAAAAMAAJ. 
  4. Ahsan Jan Qaisar; Som Prakash Verma; Mohammad Habib (1 January 1996). Art and Culture: Endeavours in Interpretation. Abhinav Publications. p. 9. ISBN 978-81-7017-315-1. https://books.google.com/books?id=Hic3XnRU-VgC&pg=PA9. 
  5. Reeta Grewal; Sheena Pall; Indu Banga (2005). Precolonial and colonial Punjab: society, economy, politics, and culture : essays for Indu Banga. Manohar. p. 176. ISBN 978-81-7304-654-4. https://books.google.com/books?id=rCJuAAAAMAAJ. 
  6. ६.० ६.१ W. H. McLeod (24 July 2009). The A to Z of Sikhism. Scarecrow Press. p. 87. ISBN 978-0-8108-6344-6. https://books.google.com/books?id=vgixwfeCyDAC&pg=PA87. 
  7. Himadri Banerjee (2003). The other Sikhs: a view from eastern India. Manohar. pp. 185–186. ISBN 978-81-7304-495-3. https://books.google.com/books?id=_4zXAAAAMAAJ. 
  8. Gokul Chand Narang (1972). Glorious history of Sikhism: from the times and teachings of Guru Nanak to the death of Maharaja Ranjit Singh. New Book Society of India. pp. 70–71. https://books.google.com/books?id=-NVWAAAAMAAJ. 
  9. Gokul Chand Narang (1972). Glorious history of Sikhism: from the times and teachings of Guru Nanak to the death of Maharaja Ranjit Singh. New Book Society of India. pp. 70–71. https://books.google.com/books?id=-NVWAAAAMAAJ. 
  10. Martijn Theodoor Houtsma, E. J. Brill's First Encyclopaedia of Islam, 1913-1936, Volume 4, Brill, Netherlands, फलकम्:ISBN, page 793
  11. Ganesh Das Badhera, Char bagh-i-Punjab, op. cit, p. 30
  12. Ganesh Das Badhera, Char bagh-i-Punjab, op.cit, p. 31
  13. Ganesh Das Badhera, Char bagh-i-Punjab, op.cit, p. 279
  14. http://www.oxfordislamicstudies.com/article/opr/t125/e490
  15. Ganesh Das Badhera, Char bagh-i-Punjab, op.cit, p. 135, op cit, 9. 18
  16. http://www.global.ucsb.edu/punjab/sites/secure.lsit.ucsb.edu.gisp.d7_sp/files/sitefiles/journals/volume20/3-JS%20Grewal%2020.pdf
  17. Pran Nevile (2006). Lahore : A Sentimental Journey. Penguin Books India. pp. 23–. ISBN 978-0-14-306197-7. https://books.google.com/books?id=0fvNDBqOOToC&pg=PA23. 
  18. Pritam Singh and Shinder Thandi, ed (1996). Globalisation and the region: explorations in Punjabi identity. Association for Punjab Studies (UK). p. 49. ISBN 978-1-874699-05-7. https://books.google.com/books?id=fgNuAAAAMAAJ. 
  19. "EDITORIAL: Can't we have a nice time?", 2004-02-16. 
  20. "Basant Panchami celebrated in traditional way", 2010-01-21. 
  21. Ishwar Dayal Gaur (2008). Martyr as Bridegroom: A Folk Representation of Bhagat Singh. Anthem Press. pp. 45–. ISBN 978-81-905835-0-3. https://books.google.com/books?id=OQ4CWDeKSxUC&pg=PA45. 
  22. Gurdaspur: Tourist Places
  23. India. Director of Census Operations, Punjab (1996). Census of India, 1991: Punjab. Controller of Publications. p. 17. https://books.google.com/books?id=ysMUAQAAMAAJ. 
  24. Harbans Singh (1 January 1998). The Encyclopaedia of Sikhism: S-Z. Publications Bureau. p. 413. ISBN 978-81-7380-530-1. https://books.google.com/books?id=XhXYAAAAMAAJ. 
  25. Himadri Banerjee (2003). The other Sikhs: a view from eastern India. Manohar. pp. 185–186. ISBN 978-81-7304-495-3. https://books.google.com/books?id=_4zXAAAAMAAJ. 
  26. Nandini Gooptu (5 July 2001). The Politics of the Urban Poor in Early Twentieth-Century India. Cambridge University Press. pp. 223–. ISBN 978-0-521-44366-1. https://books.google.com/books?id=wZTLEEGmZfQC&pg=PA223. 
"https://sa.wikipedia.org/w/index.php?title=हकीकतरायः&oldid=440171" इत्यस्माद् पुनः प्राप्तिः