हलधरनागः
| हलधरनागः | |
|---|---|
|
| |
| जननम् |
३१, १९५० ଘେଁସ, ସୋହେଲା ବରଗଡ଼ |
| राष्ट्रीयता | ଭାରତୀୟ |
| प्रमुखप्रशस्तयः | ପଦ୍ମଶ୍ରୀ |
| पतिः/पत्नी | ମାଳତୀ |
| शिशवः | ନନ୍ଦିନୀ |
|
| |
| हस्ताक्षरम् |
|
हलधरनागः , भारतीय-कोशली-सम्बलपुरीभाषी लोककविः, लेखकः, रामकथागायकः च अस्ति । लोककवित्वेन प्रारम्भिकजीवने “भजन-रासरकेली- दलखाई-सजनी” इत्यादीनि पारम्परिकसंबलपुरीगीतानि रचयन्ति स्म, येषां प्रदर्शनं स्थानीयदण्डनाट्ये भवति स्म । महासती उर्मिला, आछिआ, तारा मन्दोदरी, बछर् , सिरिसम्लाई, वीर सुरेन्द्र साए , करमसानी , रसिआ कवि, प्रेमप्रधान इत्यादयः साहित्यिककृतीनां कृते २०१४ तमे वर्षे ओडिशा-साहित्य-अकादमीपुरस्कारः ,२०१७ तमे वर्षे केन्द्रीयसाहित्यभाषापुरस्कारः च प्राप्त । भारतसर्वकारः तान् २०१६ तमे वर्षे पद्मश्रीपुरस्कारेण पुरस्कृततवन्तः, २०२० तमे वर्षे तस्य नाम्ना पद्मश्री हलधरनागसाधनाकुटीरस्य संग्रहालयस्य च उद्घाटनं कृतम् ।सम्बलपुरविश्वविद्यालयेन डॉक्टरेट् उपाधिः दत्तवन्तः । तस्य कृतयः ओडिया-हिन्दी-आङ्ग्लभाषासु च अनुवादिताः सन्ति । तस्य नाम्ना वरगडमण्डले तस्य जन्मस्थले घेँस् इत्यत्र कोशलीभाषा एवं साहित्यसंशोधनसंस्था स्थापिता ।
बाल्यकालः
[सम्पादयतु]
हलधरनागस्य जन्म १९५० तमे वर्षे मार्चमासस्य ३१ दिनाङ्के वरगडमण्डले घेँस्-नगरे अभवत् । सः मातुः गुरुबारी-पितुः भजनागस्य ५ पुत्र-१ पुत्रीषु च कनिष्ठः पुत्रः अस्ति । तस्य बाल्यकालस्य नाम "कालिआ" आसीत् । तस्य भजवृत्तौ दैनिकवेतनकर्ता आसीत् । आर्थिककठिनतायाः हेतौ सः तृतीयश्रेणीं यावत् अध्ययनं कृतवान् । बाल्ये हल्धरः घेँस् प्राथमिकविद्यालये जलवाहकरूपेण कार्यं कृतवान् । परन्तु १० वर्षे मातापित्रोः मरणानन्तरं जीवनयापनार्थं विद्यालयात् बहिः किराणआपणम् उद्घाटितवान् । यदा शिक्षकाः बालकान् पाठयन्ति स्म तदा सः तान् पाठान् श्रुत्वा स्वयमेव तस्य अभ्यासं कण्ठस्थं च करोति स्म ।
साहित्यिकरचना
[सम्पादयतु]
सः स्वदेशीयसम्बलपुरीभाषायां लोककथाः लिखति स्म, अनन्तरं १९९० तमे वर्षे प्रथमं काव्यं “धोडो बर्गछ्” इति लिखितवान् | [१] प्रारम्भिकजीवने सः भजन, रासरकेली, दलखाई, सजनी इत्यादीनि पारम्परिकसम्बलपुरीगीतानि रचितवान् ।तस्य गीतानि १३ स्थानीयग्रामेषु दण्डनाट्ये प्रदर्शितानि । स्वस्य अनुभवानाम् आधारेण “महासती उर्मिला, नाटी, चैत्र सकाल् आएला, शबरी ” इत्यादीनि लोककाव्यानि रचितवन्तः तथा च तानि सर्वाणि हल्धरग्रन्थावली प्रथमभागः द्वितीयभागः इति नाम्ना प्रकाशितानि सन्ति। हलधर ग्रन्थावली द्वितीय भागः संबलपुर विश्वविद्यालयेन प्रकाशितः एवं पाठ्यक्रमे अन्तर्भुक्तः च अकरोत्। तस्य कानिचन काव्यानि पौराणिकानि सन्ति । तस्य नाम्ना लोककविरत्नहलधरसंस्कृतिपरिषदः, हलधरसाहित्यसंसदः, हलधरक्लब्, लोककविहलधर वनविद्यालयः इत्यादयः संस्थाः स्थापिताः सन्ति। २०२० तमे वर्षे भारतसर्वकारेण तस्य नाम्ना पद्मश्री हलधरनागसाधनाकुटीरस्य संग्रहालयस्य च उद्घाटनं कृतम् ।
रचनावली
[सम्पादयतु]लोककथाः
[सम्पादयतु]- निशा
- चैत्र सकाल् आएला
- शबरी
- माता
- अछिआ
- बछर्
- महासती उर्मिला
- रसिआ कवि
- सतिआ विहा
- गुआल तीर्थ
- तपचारीवावा
- हलधर धाम
- तारामन्दोदरी
- शिरी समलाइ
- लक्ष्मी पुराण
- प्रेम पएचन।
- वीर सुरेन्द्र साए
- सन्थ कवि भीमभोई
- ऋषि कवि गंगाधर
- भाव्
- सुरुत्
- भावसुरुत्
- हलधर ग्रन्थावली (भागः १)
- हलधर ग्रन्थावली (भागः २)
सम्मान एवं पुरस्कार
[सम्पादयतु]तस्य साहित्यरचनायाः कृते ३३० तः अधिकाः पुरस्काराः प्राप्ताः । भारतसर्वकारेण २०१६ तमे वर्षे पद्मश्रीपुरस्कारः प्रदत्तः, २०१७ तमे वर्षे प्रफुल्लत्रिपाठी इत्यनेन सह संयुक्तरूपेण केन्द्रसाहित्य अकादमीभाषासम्मानेन अपि पुरस्कृतः । [२] सम्बलपुरविश्वविद्यालयेन ब्रह्मपुत्रसम्मानं, २०१४ तमे वर्षे ओडिशासाहित्य-अकादमीपुरस्कारं च प्राप्तवान् ।"लोककविरत्नं", "कोशलकुइलि", "यादवकुलगौरव", "कोशलरत्नं", "यादवरत्नम्" इत्यादीनि उपाधिभिः पुरस्कृताः सन्ति [३]
आधारः
[सम्पादयतु]- ↑ "ଆର୍କାଇଭ୍ କପି". Archived from the original on 2016-03-05. आह्रियत 2013-08-26.
- ↑ Empty citation (help)[नष्टसम्पर्कः]
- ↑ "ଆର୍କାଇଭ୍ କପି". Archived from the original on 2016-04-21. आह्रियत 2016-01-28.