हास्यचूडामणिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
हास्यचूडामणिः  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः वत्सराजः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

हास्यचूडामणिप्रहसनम् अङ्कद्वयात्मकं वत्सराजस्य अनुत्तमा कृतिर्भगवदज्जुकीयादनन्तरं प्रशस्तिमर्हति। नीलकण्ठयात्रोत्सवे प्रभातवेलायामस्याभिनयः परमददेवेन कारितः ।

कथावस्तु[सम्पादयतु]

कपटकेलिर्नाम वाराङ्गनामाता प्रातरुत्थिता चेट्या तद्रात्रौ चिरसञ्चितमाभरणराशिं चोरैरपहृतमूचे । न द्वारमनावृतकपाटं न च भित्तौ सन्धिः कथं केन चोरितमिति चिन्तयमाना सा कल्पयति - दुहितुरनुरागभाजनेन कालकरण्डेन नाम द्यूतकरेणेदं चौर्यं कृतं भवेदिति। ततो जीर्णोद्यानमठमधिवसन्तं ज्ञानराशिं स्तेय-रहस्य-ज्ञानायानुचरेण मुद्गरकेण सार्धं गता। मुद्गरकश्च तद् वृत्तमाकण्यवदत् -

जाणंताण समक्खं णाअरलोआण मुसदि सव्वस्सं।

हेलाए अम्ह अम्बे कधेहि चोरो अंबए सरिसो॥

इति तौ मठमधिगतौ। मठान्तरे ज्ञानराशिं पुरुषद्वयेन विवदमानं दृष्ट्वा मुद्गरकस्तमध्यापयन्तं प्राजानात् । प्रतीक्षमाणौ तौ श्रुतवन्तौ

ज्ञानराशिः – श्लोकद्वयं कण्ठगत कृतं कच्चित् ?

शिष्यः - ज्ञानराशे, न कण्ठगतमेवापितुं तदुदरमधितिष्ठतीदानीम्।

ज्ञानराशिः – कि मां नामग्राहं ब्रवीषि?

शिष्यः - किं भवतो नामग्रहणमपि पातकम ?

ज्ञानराशिः – रे रे मूर्ख, गुरोर्नाम न गृह्यते।

शिष्यः - तत् किमिति पर्वतानां नाम गृह्यते? ते तु गुरुतमाः।

अथ शिष्यः श्लोकं पठति स्म -

आलोक्य सर्वगात्राणि विचार्य च पुनः पुनः।

इदमेकं तु निष्पन्नं ध्येयो नारीजनः सदा।।

नमस्ते पाण्डुरैकाक्ष नमस्ते विश्वतापन।

नमस्तेऽस्तु मृषाकोश महागुरुषकूर्चक।।[१]

पाण्डुराक्ष इति स्वस्यैव परिहासं मत्वा गुरुः शिष्यं ताडयितुमुद्यतः । दुर्भाग्योपहता अध्यापकाः स्वतो मेधीयांसं शिष्यं न सहन्त इत्युक्त्वा ततोऽपसरन् शिष्यः कथंकथमपि गुरुणा शमितः श्लोकानां परुषाक्षराणां रटनमुपेक्ष्य केवलं विद्यां दातुं निवेदयामास । अशुभेयं केवली विद्येति कृताभिप्रायो ज्ञानराशिरुवाच -

दिव्ये शुद्धिकृता व्यलोककथनाच्चौरेण तातो हतो

भ्राता मे विननाश कालफणिना दष्टो निधानं खनन्।

युद्धज्ञान-विपर्ययान्नृपतिना हन्तुं समाकांक्षितो

जातोऽहं भगवानिये कुलरिपुर्विद्या हि नः केवली॥[२]

तथापि ते केवल्या रहस्यं वदामि -

किं वाग्भिर्निकषो हि नः फलमिति स्याद् गूढगर्वग्रहः

प्रश्नेष्वाविलमुत्तरं विरचयेन्न व्याहरेन्निर्णयम्।

सिद्धं कार्यमवेक्ष्य निश्चितमिदं पूर्व मयासीदिति

स्फारं स्फारमुदीरयेदुपचरेत् कञ्चिन्मृषासाक्षिणम्॥

इति दिशा प्रवर्तते कथानकं प्रहसनस्य।

समीक्षा[सम्पादयतु]

हास्यचूडामणि-प्रहसनं परिगणितेषु संस्कृत-प्रहसनेषु चूडामणिं चुम्बन्-नामसार्थक्यं दधाति। शृङ्गाराभासोऽन्तःसलिल इव प्रवाहो न क्वापि हास्यरसमतिशयानो मर्यादामतिक्राम्यति। इदं च रूपकं लोकस्य दुष्टप्रवृत्तिमलानां भाण्डमिव स्फोटयन् कलुषं पुरत एव स्फारयति। क्वचित् क्वचिदेकोंक्तयो मनो हरन्ति यथा मदनसुन्दरी कामावेशवशीकृता वदति -

भुञ्जानाः सहकारकोरकविषं प्राणन्ति पुष्पंधयाः

कण्ठः कोकिलयोषितां नव-कहू-शब्दाग्निना दह्यते।

श्रीखण्डानिल-कालकूट-पवनैर्मूर्छन्ति नैता लता

धिङ् मृत्योरसमर्थतां स्मरशरैर्वद्धापि जीवाम्यहम्।।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. १.११-१२
  2. १.१७
"https://sa.wikipedia.org/w/index.php?title=हास्यचूडामणिः&oldid=437178" इत्यस्माद् पुनः प्राप्तिः