हिन्दूपञ्चाङ्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

हिन्दूपञ्चाङ्गं हिन्दूसमाजेन स्वीकृतः दीनतालिका भवति। प्रायः नेपाले किञ्च भारतवर्षे अस्याः दिनतालिकायाः अङ्गीकारो जायते। हिन्दूकालगणनारीत्या निर्मिता दीनतालिका कैलेण्डर् आहोस्वित् कालदर्शक इत्युच्यते। पञ्चप्रमुखभागानां समुच्चय एव पंचाङ्गम् इत्युच्यते। ते यथा- तिथिः, वारः, नक्षत्रः, योगः किञ्च करणम् चेति। अस्य गणनाधारेण हिन्दूपंचांगस्य तिस्रः धाराः सन्ति। प्रथमं- चंन्द्राधारिता, द्वितीयम्- नक्षत्राधारितेन, तृतीयम्- सूर्याधारितेन चेति। भिन्न भिन्नरूपेण सम्पूर्णभारतवर्षे अस्य प्रभावः दृश्यते। एकस्मिन् वर्षे द्वादशमासाः भवन्ति। प्रत्येकस्मिन् मासि पञ्चदशदिनादनन्तरं दौ पक्षौ भवतः। तौ यथा- शुक्लपक्षः, कृष्णपक्षश्चेति। प्रत्येकस्मिन् वर्षे द्वौ अयनौ भवतः। अनयोः द्वयोः अयनयोः राशौ 27 नक्षत्राणि भ्रमन्ति। 12 मासस्य एकः वर्षः किञ्च 7 दिनस्य एकः सप्ताह इति इयं रीति विक्रमसंवत्सरात् आरम्भः जातः। मासस्य गणना सूर्यचन्द्रमसोः गत्याधारेण भवति। यस्मिन् दिनाङ्के सूर्यः यस्यां राशौ प्रविशति तस्य दिनाङ्कस्यैव संक्रांतिः भवति। पूर्णिमायां चंद्रमा यस्मिन् नक्षत्रे तिष्ठति तदाधारेण मासस्य नामकरणं भवति। चन्द्र वर्षसौरवर्षात् 11 दिनम् 3 होरा 48 क्षणम् अधिकं लघु भवति। तस्मात् प्रतिवर्षत्रयादनन्तरम् एकः मासः योज्यते। एतदनुसारेण एकस्मिन् वर्षे 12 मासाः, तथा एकस्मिन् मासि 30 दिनानि भवन्ति। मासे चन्द्रस्य प्रकाशः अधिकं भवति चेत् शुक्लपक्ष इति , न्यूनं भवति चेत् कृष्णपक्ष इति विभागः क्रियते। एकस्मिन् पक्षे प्रायः 15 दिनानि आहोस्वित् द्वौ सप्ताहौ भवतः। एकस्मिन् सप्ताहे सप्तदिनानि भवन्ति। एकं दिनं तिथिरित्युच्यते यच्च पंचाङ्गाधारेण 19 होरात् 24 होरापर्यन्तं भवति। दिनस्य 24 प्रहरेण साकं अष्टौप्रहरेणापि विभज्यन्ते। एकः प्रहरः होरात्रयात्मको भवति। एकस्यां होरायां प्रायः घड़ीद्वयं भवति। एकः पलः प्रायः अर्धक्षणं भवति। प्रहरानुसारेण पश्यामश्चेत् प्रहरचतुष्टयस्य दिनं किञ्च प्रहरचतुष्टस्य रात्रौ भवति।

तिथिः[स्रोतः सम्पाद्यताम्]

एकं दिनं तिथिरित्युच्यते। यच्च पञ्चाङ्गाधारेण 19 होरात् आरभ्य 24 होरां यावत् भवति। चन्द्रमासे 30 तिथयः भवन्ति। यच्च पक्षद्वयेन विभक्तम्। शुक्लपक्षे प्रथमादारभ्य चतुर्दशदिनानि भवन्ति, ततः परं पूर्णिमा आयाति। पूर्णिमया साकं पञ्चदशतिथयः भवन्ति। कृष्णपक्षे प्रथमादारभ्य चतुर्दशदिनानि भवन्ति ततःपरं अमावश्या आयाति। अमावश्या सहितं पञ्चदशतिथयो भवन्ति। ताः यथा-

तिथयः तिथयः
  पूर्णिमा प्रतिपदा
द्वितीया तृतीया
चतुर्थी पञ्चमी
षष्ठी सप्तमी
अष्टमी नवमी
दशमी एकादशी
द्वादशी त्रयोदशी
चतुर्दशी अमावस्या

वारः[स्रोतः सम्पाद्यताम्]

एकस्मिन् सप्ताहे सप्तदिनानि भवन्ति। तानि यथा- सोमवासरः, मङ्गलवासरः, बुधवासरः, गुरुवासरः, शुक्रवासरः, शनिवासरः किञ्च रविवासरश्चेति।

नक्षत्रम्

आकाशे भिन्नरूपेण परिदृश्यमानं तारामण्डलं नक्षत्रमित्युच्यते। मूलतः 27 नक्षत्राणि सन्ति। ज्योतिष्कैः अभिजिन्नाम्ना एकम् अपरं नक्षत्रम् अङ्गीक्रियते। चन्द्रमा पूर्वोक्तसप्तविंशतिनक्षत्रेषु भ्रमति। तानि नक्षत्राणि यथा- चैत्रः, वैशाखः, ज्येष्ठः, आषाढ़ः, श्रावणः, भाद्रपदः, आश्विनः, कार्तिकः, मार्गशीर्षः, पौषः, माघः तथा फाल्गुनश्चेति।

योगः[स्रोतः सम्पाद्यताम्]

योगः 27 प्रकाराः भवन्ति। सूर्यचन्द्रमसोः दूरेण स्थितिः योग इत्युच्यते।  तेषां नामानि यथा-  विष्कुम्भः, प्रीतिः, आयुष्मानः, सौभाग्यः, शोभनः, अतिगण्डः, सुकर्मा, धृतिः, शूलः, गण्डः, वृद्धिः, ध्रुवः, व्याघातः, हर्षण, वज्रः, सिद्धिः, व्यातीपातः, वरीयानः, परिघ, शिवः, सिद्धः, साध्यः, शुभः, शुक्लः, ब्रह्मः, इन्द्रः किञ्च वैधृतिः चेति।

27 योगेषु नवयोगाः अशुभा इत्युच्यन्ते। तस्मात् सर्वस्मिन् अपि कार्ये एतस्मात् नवयोगात् दूरे स्थातव्यम्। ते योगाः यथा- विष्कुम्भः, अतिगण्डः, शूलः, गण्डः, व्याघातः, वज्रः, व्यतीपातः, परिधः  किञ्च वैधृतिश्चेति।

करणम्[स्रोतः सम्पाद्यताम्]

एकस्यां तिथौ द्वे करणे भवतः, पूर्वर्धः, उत्तरार्धश्चेति। प्रायः 11 करणानि भवन्ति। तानि यथा- बवः, बालवः, कौलवः, तैतिलः, गरः, वणिजः, विष्टिः, शकुनि, चतुष्पाद्, नागः किञ्च किस्तुघ्नः चेति। कृष्णपक्षस्य चतुर्दश्यां उत्तरार्धे शकुनिः, अमावस्यायां पूर्वार्धे चतुष्पाद्, अमावस्याः उत्तरार्धे नागः किञ्च शुक्लपक्षस्य प्रतिपदायां पूर्वार्धे किस्तुघ्नः करणं भवति। विष्टिकरणं भद्रा इत्युच्यते। भद्रायां शुभकार्यं न करणीयम्।

पक्षः[स्रोतः सम्पाद्यताम्]

प्रत्येकस्मिन् मासि 30 दिनानि भवन्ति। मासे चन्द्रस्य प्रकाशः अधिकं भवति चेत् शुक्लपक्ष इति , न्यूनं भवति चेत् कृष्णपक्ष इति विभागः क्रियते। एकस्मिन् पक्षे प्रायः 15 दिनानि आहोस्वित् द्वौ सप्ताहौ भवतः। एकस्मिन् सप्ताहे सप्तदिनानि भवन्ति। शुक्ल पक्षे चन्द्र्य प्रकाशः वर्धते। किञ्च कृष्णपक्षे चन्द्रस्य प्रकाशः न्यूनी भवति।

"https://sa.wikipedia.org/w/index.php?title=हिन्दूपञ्चाङ्गम्&oldid=443380" इत्यस्माद् पुनः प्राप्तिः