होगेनकल् जलपातः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


होगेनकल् जलपातः

होगेनकल् जलपातः मेलगिरिपर्वतप्रदेशे अस्ति । अत्र कावेरीनदी कर्णाटकतः तमिळ्नाडुराज्यं प्रविशति, घट्टप्रदेशतः समतलप्रदेशं गच्छति । शिलासु पतत् जलं धूमः इव जलकणान् निस्सरति । सर्वत्र धूमावृतं वातावरणम् इव भवति । अतः एव होगेनकल् (प्रादेशिकभाषया होगे नाम धूमः इति अर्थः) इति नाम आगतम् अस्ति । जलपातस्य दर्शनाय आदौ दोलासेतुद्वारा गन्तव्यम् । अनन्तरं नैकायानेन । ततः शिलामार्गद्वारा गन्तव्यम् । ७० पादपरिमितात् प्रदेशात् जलं पतति । उपरिष्ठात् वीक्षणार्थं वीक्षणगोपुराणि सन्ति । अत्र तैलाभ्यञ्जनव्यवस्था अस्ति । प्रशिक्षिताः अङ्गमर्दनकुशलाः जनाः अत्र सन्ति । समीपे मकराणां केन्द्रमस्ति । एतत् स्थलम् अतीव अपायकरम् अस्ति ।

मार्गः[सम्पादयतु]

धूमशकटमार्गः[सम्पादयतु]

चेन्नैतः प्रस्थाय( कोवै एक्स्प्रेस् ) मोरप्पूरनिस्थाने अवतरणीयम् । ततः धर्मपुरी मार्गेण (२७ कि.मी ) होगेनकल् स्थानं प्राप्तुं शक्यते । बेङ्गळूरुतः होसूरु –धर्मपुरी पर्यन्तम् वाहनमार्गेण १४० कि.मी गत्वा जलपातः दृष्टुं शक्यः । चामराजनगरतः मलेमहदेश्वरबेट्टद्वारापि जलपातस्थलं गन्तुं शक्यते । मैसूरुतः १८० कि.मी । उत्तमकालः अक्टोबरमासतः जूनमासपर्यन्तम् ।

"https://sa.wikipedia.org/w/index.php?title=होगेनकल्_जलपातः&oldid=406549" इत्यस्माद् प्रतिप्राप्तम्