होराशास्त्रस्य विभागाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

होराशास्त्रस्य विभागाः विद्यन्ते। ज्योतिविद्भिः होराशास्त्रं हि पञ्चधा विभक्तमस्ति--

1) जातकं,

2) ताजिकं,

3) रमलं,

4) प्रश्नः

5) स्वप्नश्चेति ।

तेष्वपिं सर्वातिशायित्वेन जातकस्यैव प्राधान्याद्यदा कदा होराशास्त्रमेव जातकशब्देनाऽप्यभिधीयते । यथाऽऽह कल्याणवर्मा -

‘जातकमिति प्रसिद्धं यल्लोके तदिह कीयंते होरा । ।

अथवा दैवविमर्शनपर्यायः खल्वयं शब्दः ॥” इति ।[१]

तत्र यत्र जन्मकालग्रहनक्षत्रतिथिराश्यादीनाधारीकृत्य फलादेशः क्रियते तज्जातकम् । जातकसम्बद्धग्रन्थाश्च बृहज्जातकादयः । यत्र च गोचरमाधारीकृत्य फलादेशः क्रियते तत्ताजिकम् । ताजिकग्रन्थाश्च ताजिकनीलकण्ठीप्रभूताः । यत्र च प्रस्तारद्वारा शुभाशुभफलं कथ्यते तद्रमलशास्त्रम् । रमलग्रन्थाश्च रमलनवरत्नांदयः । यत्र च प्रश्नलग्नमाश्रित्य फलादेशः क्रियते तत्प्रश्नशास्त्रम् । प्रश्नग्रन्थाश्च प्रश्नसारादयः । स्वप्नविवेचनेन शुभाशुभफलनिरूपक स्वप्नशास्त्र . तग्रन्थाश्च स्वप्नाध्यायादयः । तत्र प्रथमं जातकशास्त्रमत्र निरूप्यते ।

जातकशास्त्रम्[सम्पादयतु]

मुख्यलेखः : जातकशास्त्रम्

यत्र हि जन्मकालिकग्रहाद्यवस्थितिमाधारीकृत्य जनस्य भूतवर्तमानभाविशुभाशुभफलादेशः क्रियते तज्जातकशास्त्रम् ।

खस्थानां पिण्डानां भूस्थितैर्जनैः सह सम्बन्धनं सहसा न प्रतीतिमायाति । किन्तु तयोरविच्छेद्यः सम्बन्धोऽस्त्येव यथार्थतः । सत्यमेवोक्तम् -

‘ग्रहैर्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्' । इति ।

सूक्ष्मावलोकनेनैतत्स्पष्टमेव ज्ञायते यद्यत्प्रकृतिको यस्य जन्मनक्षत्रतत्स्वामिराशितत्पतिलग्नतत्पमासतत्पतिवासरतिथितत्पतीत्यादिः तत्प्रकृतिक एवं जनो भवतीति । यथा हि मेषराशी जातो जनो जलाद् बिभेत्येव । मेषराशेः स्वामी भौमः स च वह्निप्रकृतिको जलविमुखः । एवमेव सिंहस्य स्वामी सूर्यः । तद्राशौ जातो निश्चयमेव पित्तप्रकृतिकोऽल्पवाचश्च भवति । यदि योगान्तरवशात् कस्मिभिन्नापि सर्वाणि लक्षणानि घटेरंस्तथापि स्वल्पमपि जन्मराशिप्रभावं देहे दृश्यत एव । एवमेव नक्षत्रादीनामपि । तेन जातकफलादेशात पूर्वं खस्थपिण्डज्ञानमत्यावश्यकीयं भवति ।

ताजिकशास्त्रम्[सम्पादयतु]

मुख्यलेखः : ताजिकशास्त्रम्

ताजिकशास्त्रं ज्योतिषशास्त्रस्य कश्चन भागत्वेन परिगण्यते। यथा हि जातकं होराशास्त्रस्य प्रथमो भागस्तथैव ताजिकमस्यापरो भागः । किं तत्ताजिकमित्यपेक्षायामुच्यते ताजिकं नाम वार्षिकादिनानाविधफलादेशफलकशास्त्रमेव । यथोक्तं हायनरत्ने -

‘यवनाचार्येण पारसीकभाषायां प्रणीतं ज्योतिषशास्त्रैकदेशरूपं वाषिकादिनानाविधफलादेशफलकशास्त्रं ताजिकशब्दवाच्यं तदनन्तरभूतैः समरसिंहाः दिभिः••••••••"ब्राह्मणैस्तदेव शास्त्र संस्कृतशब्दोपनिबद्धं ताजिकशब्दवाच्यम् । अत एव तैस्ता एव इक्कबालदियो यावन्यः संज्ञा उपनिबद्धाः ।' यथा वा ताजिकभूषणपद्धतौ--

'गर्गाचैर्यवनैश्च रोमकमुखेः सत्यादिभिः कीर्तित

शास्त्रं ताजिकसंज्ञक: •••••••••••••• ।'

ते हि नो दिवसा गताः । उपह्वरे गिरीणां सङ्गमे च नदीनां धिया विप्रो अजायत । काश्मीरोपत्यकायां लगधाचार्यः, कुसुमपुरे आर्यभटः, गुर्जरेषु लाटदेवः, उज्जयिन्यां वराहमिहिरः, गुर्जरेषु लल्लाचार्यः, श्रीमाले ब्रह्मगुप्तः, काश्मीरेष मुञ्जालः, धारानगर्यो भोजदेवः जयपुरे जयसिंहश्च यदा वेधमाश्रित्य दुग्गणितक्यसाधनाय सततमुद्यमपरा आसन् । तेषां स्मरणायापि वयमधिकृता न वेति संशय एव ।।

ज्योतिषशास्त्रं हि शास्त्रान्तरवद्भारतीयानां स्वकीयस्यैव मौलिकचिन्तनस्य परिणतिरिति स्पष्टमेवास्य वेदाङ्गत्वेन । यज्ञाङ्गभूतमिदं शास्त्रं यदि हि पश्चिमत आयातितमित्युच्यते तदा कथं नोच्यते भारतभूरेव तत एवागतेति । यदि कृपस्थो मण्डूकः स्वाधिष्ठितकूपमेव ब्रह्माण्डत्वेन गृह्णाति चेत्तत्र गगनविहारिणो भास्टरस्य का हानिः । यो यद्यविज्ञानाति से तत्तावदेव कथयति । तत्र सत्यासत्यविवेचन तु पण्डितानामेव कार्यम् ।

सुमेरोरारभ्य क्षीरसागरपर्यन्तं भारतीयैर्यंद्यदुपाजतं ज्योतिषज्ञानं तत्सर्वमेव ग्रन्थरूपेणास्मान् शास्ति; कामं तत्र यदा कदा कश्चिद्विषयः परानुभूतोऽपि गृहीतः स्यात् । यदि तथा तत्र का हानिः । ‘आ नो भद्राः कृतवो यन्तु विश्वतः' । यदि हि गृहद् गतो बालः कमपि काले प्रवासे उषित्वा प्राप्तवयाः प्रत्यागच्छति चेत् किं स वैदेशिको भवति ? वस्तुतो नैव । यदि हि हुट्टिको दीर्घपात्त्वेन मयैव गगनमिदं धारितमिति मन्यते चेत्तदुपहासायैव भवति । उच्चपातप्रभृतिकठिनविषयज्ञानसम्पादनं गृहीतमपि तदन्यतः कालान्तरमानानुसारेण तत्र संशोधनं भारतीयज्ञानबाह्य मिति ह्विटनेपण्डितो यथा कथयति तत्तस्य भारतीयशास्त्राज्ञतैवेति वराहमिहिरस्य नूनं कदाचिदासीद्यत्प्रोक्तं पूर्वशास्त्रेषु इति कथनेन तथैव भास्कराचार्यस्य 'यदा पुनर्महता कालेन महदन्तरं भविष्यति तदा महामतिमन्तो ब्रह्मगुप्तसमानर्धामण एवोत्पत्स्यन्ते । ते तदुपलब्ध्यनुसारिणीं गतिमुररीकृत्य शास्त्राणि करिष्यन्ति' इति कथनेन सिद्धमेव । भारतीयविचक्षणा न केवल भग्रहावस्थितिमेव जानन्ति स्म अपि तु तेषां गतिविषये गतेरपि गतिविषये च प्रकामं जानन्ति स्म । यच्चोच्यते भारतीया हि परम्पराया अन्धानुगा न हि तेषु गतिरस्तीति तदपि निर्मूलमेव । यदि तथाऽभविष्यत्तदा लल्लाचार्येण आर्यभटस्य भूभ्रमसिद्धान्तं लक्ष्यीकृत्य , 'यदि वा भ्रमति क्षमा तदा स्वकुलायं कथमाप्नुयुः खगाः' इति कथमपि नोक्तमभविष्यत् । काले काले वेधमाश्रित्य प्रणीताः करणग्रन्था अपि भारतीयानां सामयिकावस्थितिपरायणत्वमेव सूचयन्ति ।

भारतीय ज्योतिषशास्त्रं पञ्चार्षसिद्धान्तानार्यभटसिद्धान्तञ्चादाय तत्र तत्र तात्कालिकपरिवर्तनमपि संयोज्य चलतीति स्पष्टमेव सलोचनानाम् । ते चार्षसिद्धान्ताः पैतामह-वासिष्ठ-पौलिश-रोमश-सौरसंज्ञिताः । क्रमोऽयं वराहमिहिरेण निदिष्टः । तत्र पैतामहसिद्धान्तो ब्रह्मगुप्तेन व्याख्यातः, वासिष्ठो हि विष्णुचन्द्रेण, रोमको हि प्रथमं लाटदेवेन ततश्च श्रीषेणेन, पोलिशो हि लाटदेवेन, सौरो हि प्रथमं वराहेण ततश्च लाटसिंहेन व्याख्यातः । आर्यभटसिद्धान्तश्च लल्लाचार्येणं प्रथमं पुनरीक्षितः पुनः पुनः पश्चाद्वैतभिस्ततः । प्राधान्येन त्रय एव सिद्धान्ताःआर्यः, सौरो ब्राह्मश्च । त्रय एवाचार्याश्च-आर्यभटः, लाटसिंहः ब्रह्मगुप्तश्च । अन्ये तदनुगामिनः । तत्रापि ब्रह्मगुप्तमवाप्य शास्त्रमिदं पूर्णतामभजत् । पश्चात्तु तत्र तत्र सामयिकगतिसंयोजनाय बीजसंस्कार एवाहितः । अयनगत विहाय ज्योतिषसिद्धान्तस्य सर्वोऽपि पक्षो ब्रह्मगुप्तमुपतिष्ठति । अयनगतेरुन्नायको मुञ्जालो यद्यपि विषयोऽयं वराहेणापि सङ्केतितपूर्वो ब्रह्मगुप्तेनाऽपि निरीक्षित एव । तेनैव तेनोक्तं स्यात् -

'यदि भिन्नाः सिद्धान्ताः भास्करसङ्क्रान्तयोऽपि भेदसमाः ।।

स स्पष्टः पूर्वस्यां विषुवत्यदयो यस्य ।।' इति ।

अपि च- :

संसाध्य स्पष्टतरं बीजं नलिकादियन्त्रेण ।

तत्संस्कृतग्रहेभ्यः कर्तव्यो निर्णयादेशौ ॥' इति ।

भारतीयज्योतिषे द्विविधं माने प्रचलति—सायनं निरयणञ्च । स्पष्टग्रहे। अयनांशसमायोजनेन सायनमानं भवति तस्यैव यथावत्स्वीकरणे निरयणमिति । वस्तुतस्तु नोभयोः कश्चन भेदः । यदि हि पूर्वसाधितग्रहा एव गुह्यन्ते तदा तन्नायतांशाः संयोज्या एव; यदि हिं तदैव अहः साध्यन्ते वेधारा तदा स एव कालः शून्यायनांशो भवति इति । तत्रायनांशसंयोजनस्य वार्तव नोदेति । तेनैव मुञ्जालप्राग्वतभिरयनांशा उपेक्षिताः । यस्मिन् बिन्दौ सूर्याचन्द्रमसोर्दक्षिणोत्तरायणक्रान्तिवृत्तं सम्पद्यते तत्प्रदेशस्थतारका नैव सदा तत्रैव नियताऽपि तु किञ्चित् कालानन्तरं सा ततः पूर्वस्यां सरति यद्वाऽयनबिन्दुरेव पश्चिमस्यां ततः सरति । वेदाङ्गज्योतिषकाले धनिष्ठारम्भे उत्तरायणारम्भो हि सम्पद्यते स्म किन्तु अयनगतिवशाच्छकारम्भमभितस्तदेव श्रवणारम्भे सजायते स्म; वराहकाले तु उत्तराषाढाया द्वितीयपादे, सम्प्रति तु तत्पूर्वाषाढारम्भमभित एव । एवमेव नाडीक्रान्तिवृत्तानां सम्पातबिन्दवोऽपि पूर्वपूर्वतः पश्चिमं प्रति सरन्ति क्रमशः किञ्च वृत्त एकस्या अपि बिन्दोश्चलनेन सर्वा अपि बिन्दवञ्चलितुमारभन्ते । इयं गतिरेव अयनचलनशब्देन ज्ञायते । द्वितीयार्यभटो हीदं ग्रहत्वेन गृह्णाति, आकलयत्यप्यस्य भगणानपि । भास्कराचार्य इदं सम्पातचलनं कथयति । केचिदाधुनिकास्तु विषुवचलनमपि । यथोक्तं भास्करीये गोलबन्धाधिकारे

‘तस्याऽपि चलनमस्ति । येऽयनचलनभागाः प्रसिद्धास्त एव विलोमगस्य क्रान्तिपातस्य भागः ।'

अयनचलनमानमाश्रित्याचार्या नैकमत्यं भजन्ते । तदानयनपद्धतिरपि बहुधैव निर्दिष्टाः ।

यथा लघुवासिष्ठे: -

‘अब्दाः खखर्तुभिर्भाज्यास्तद्दोस्त्रिघ्ना दशोद्धृताः ।।

अयनांशा ग्रहे युक्ताः••••••••••••••••••••••••••••••••॥' इति ।

पद्धत्याऽनयाऽस्य युगे ६०० भगणा भवन्ति । शङ्करबालकृष्णानुसारेण १८१० शकमभितो वार्षिकी अयनांशगतिः ६० विकला मताः । पृथूदकानुसारेण कल्पे १८९४११ अयनभगणा भवन्ति । सूर्य सिद्धान्तानुसारेण अयनबिन्दुह पूर्वपश्चिमगतिमाश्रित्य चलति । नासौ ग्रहादिरिव सम्पातो नैव सम्पूर्ण नक्षत्रमण्डलं परिभ्रमत्यपि तु असौ सम्पातादेकवारम् २७ अंशपर्यन्तं पूर्वस्यां चलति ततश्च मूलस्थानं प्रत्यागच्छति पुनश्च तेनैव विधिना पश्चिमं सरति पुनश्च मूलस्थानं प्रत्यागच्छतीति अस्य भगणे १०८ अंशा भवन्तीति । विष्णुचन्द्रस्तु अस्य गति पूर्वाभिमुखीमेव मन्यते, एवमेव मुजालोऽपि । यथोक्तम् -

'उत्तरतो याम्यदिशं याम्यान्तात्तदनु सौम्यदिग्भागम् ।

परिसरतां गगनसदां चलनं किञ्चिद्भवेदपभे ॥

विषुवदपक्रममण्डलसम्पाते प्राचि मेषादिः ।

पश्चात्तुलादिरनयोरपक्रमासम्भवः, प्रोक्तः ॥' इत्यादि ।

'तेन सोऽस्य वार्षिकी गति ५६-८२१३३ मन्यते । वस्तुतस्तु विषयेऽस्मिन् विष्णुचन्द्र एव समीचीनः प्रतिभाति । भास्कराचार्यः कथयति यत्तस्य तदानीं स्वल्पत्वाद् ब्रह्मगुप्तादिभिर्नापलब्धः, इदानीं बहुत्वादाधुनिकरुपलब्धः । अत एव तस्य गतिरस्तीति अवगतमिति । न केवलमयनबिन्दोगैतिरस्ति अपि तु तस्य गतेरपि गतिरस्ति । द्वितीयार्यभटस्तु -

अयनग्रहदोः क्रान्तिज्याचाप केन्द्रवद्धन स्यात् ।

अयनलवास्तत्संस्कृतखेटादयनचरापमलग्नानि ।' इति कथयति ।

एतदनुसारेण सम्पातस्य प्रदक्षिणा ९६ एव भवति न तु १०८। तन्मतेऽयनचलनस्य कल्पे ५८१७०९ भगणा भवन्ति । क्रान्तितुल्यत्वेन अयनगतिरपि सदा समाना न भवति । अस्य मध्यममानं हि ४६५ विकलाः । अयनगतिमादाय पण्डितानां वैमत्यं विलोक्य खिन्नचेता भास्कराचार्यः कथयति

‘अथ च ये वा ते वा भगणा भवन्तु । यदा येऽशा निपुणैरुपलभ्यन्ते तदा स एव क्रान्तिपतिः' । इति ।।

स हि ११०५ शके ११ कलामिताऽयनगतिरिति मन्यते ।

इत्थं हि वार्षिकोयनगतिः सूर्यसिद्धान्तानुसारेण ५४ विकलाः, मुञ्जालमते । ५९:९, पाराशरमते ४६५, द्वितीयार्यभटमते ४६३ विकलाः ।

मुञ्जालमतेनासौ विलोमगत्या सम्पूर्णमेव नक्षत्रमण्डलं भ्रमति विष्णुचन्द्रानुसारेण तु पूर्वप्रदक्षिणामैव मन्यते सूर्यसिद्धान्तान्तस्तु आवतप्रदक्षिणामेव । वस्तुतस्तु सम्पातस्यापि पूर्णैव प्रदक्षिणा भवति यथा सम्मतं मुञ्जालस्य । तेनैव वैदिकसहितायां यदि चैत्रवैशाखयोर्वसन्त उक्तस्तदा सम्प्रति फाल्गुनचैत्रयोरेव।। वस्तुतस्तु वर्षे हि सूर्य एकवारं सम्पाताच्चलित्वा पुनः सम्पाता गमनानन्तरं यावान् समयोऽन्तरितो भवति तावन्मिताऽयनांशगतिर्भवति । यथा यथा हि गतिरस्य दूर चलति तथा तथा दिनमानमपि ह्रासोन्मुखं भवति ।

धार्मिकपञ्चाङ्गेन सदा सायनमानाञ्चितेन भाव्यमिति पञ्चाङ्गसुधारसमितेः परामर्शः सर्वमान्यः । ४२१ शकापेक्षया सम्प्रति कालः सार्द्धत्रयोविंशतिदिनानि पश्चाद् गच्छति । तेन हि निरयणसूर्ये धनुषः सप्तशे प्राप्ते सायनसूर्यस्य मकरसङ्क्रान्तिर्भवति । वस्तुतोऽयमेव मकरपुण्यकालः ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. ( २।४ )