होशङ्गाबादमण्डलम्
नर्मदापुरममण्डलम् Narmadapuram District | |
---|---|
नर्मदापुरम जिला | |
नर्मदापुरममण्डलम् नर्मदापुरममण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | नर्मदापुरम, सिवनी-मालवा, डोलरिया, बाबई, सोहागपुर, पिपरिया, बानखेडी |
विस्तारः | ६,७०३ च. कि. मी. |
जनसङ्ख्या (२०११) | १२,४१,३५० |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७५.२९% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४५.५% |
Website | http://hoshangabad.nic.in/ |
नर्मदापुरममण्डलम् ( ( शृणु) /ˈhoʊʃəŋɡɑːbɑːdəməndələm/) (हिन्दी: नर्मदापुरम जिला, आङ्ग्ल: Narmadapuram district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य नर्मदापुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नर्मदापुरम इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]होशङ्गाबादमण्डलस्य विस्तारः ६,७०३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छिन्दवाडामण्डलं, पश्चिमे सीहोरमण्डलम्, उत्तरे रायसेनमण्डलं, दक्षिणे बैतूलमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं होशङ्गाबादमण्डलस्य जनसङ्ख्या १२,४१,३५० अस्ति । अत्र ६,४८,७२५ पुरुषाः, ५,९२,६२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.४९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१४ अस्ति । अत्र साक्षरता ७५.२९% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- होशङ्गाबाद, सिवनी-मालवा, डोलरिया, बाबई, सोहागपुर, पिपरिया, बानखेडी ।
वीक्षणीयस्थलानि
[सम्पादयतु]पचमढी
[सम्पादयतु]पचमढी इति इदं स्थलम् एकस्मिन् लघुशैले स्थितमस्ति । इदं भ्रमणार्थम् एकं रमणीयं पर्वतस्थलम् अस्ति । इदं एकं यात्रास्थलमपि अस्ति । शिवभक्ताः वीक्षणार्थं तत्र गच्छन्ति । सम्पूर्णभारतस्य जनाः तथा वैदेशिकाः अपि तत्र गच्छन्ति ।
सेठानी घाट
[सम्पादयतु]इदं स्थलं नर्मदानदीतटे स्थितमस्ति । तत्र बहूनि मन्दिराणि सन्ति । नर्मदानद्यां स्नानस्य आनन्दाय जनाः तत्र गच्छन्ति । पाण्डव-गुहा, बडा महादेव, गुप्त महादेव इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
रायसेनमण्डलम् | ||||
सीहोरमण्डलम् | छिन्दवाडामण्डलम् | |||
होशङ्गाबादमण्डलम् | ||||
बैतूलमण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये होशङ्गाबादमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://hoshangabad.nic.in/
http://www.census2011.co.in/census/district/316-hoshangabad.html