सर्वमेतदृतं मन्ये...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१०.१४ सर्वमेतदृतं मन्ये.... इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


श्लोकः[सम्पादयतु]

गीतोपदेशः
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १४ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सर्वम् एतत् ऋतं मन्ये यत् मां वदसि केशव न हि ते भगवन् व्यक्तिं विदुः देवाः न दानवाः ॥ १४ ॥

अन्वयः[सम्पादयतु]

केशव ! मां यत् वदसि एतत् सर्वम् ऋतं मन्ये । भगवन् ! देवाः ते व्यक्तिं न विदुः, न हि दानवाः ।

शब्दार्थः[सम्पादयतु]

केशव = हे कृष्ण !
मां यत् वदसि = मां यत् कथयसि
एतत् = इदम्
सर्वम् = सकलम्
ऋतम् = सत्यम्
मन्ये = भावयामि
भगवन् = हे देव
देवाः = सुराः
ते = तव
व्यक्तिम् = प्रभावम्
न हि विदुः = न हि जानन्ति
न दानवाः = असुराः अपि न जानन्ति ।
नाशयामि = विध्वंसयामि ।

अर्थः[सम्पादयतु]

कृष्ण ! माम् उद्दिश्य यद्विषयं कथयसि इदं सर्वं सत्यं मन्ये । हे भगवन् ! सुराः तव प्रभावं न जानन्ति । असुराः अपि न जानन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सर्वमेतदृतं_मन्ये...&oldid=418871" इत्यस्माद् प्रतिप्राप्तम्