प्रह्लादश्चास्मि दैत्यानां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१०.३० प्रह्लादश्चास्मि.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रिंशतितमः(३०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

प्रह्लादः च अस्मि दैत्यानां कालः कलयताम् अहम् मृगाणां च मृगेन्द्रः अहं वैनतेयः च पक्षिणाम् ॥ ३० ॥

अन्वयः[सम्पादयतु]

दैत्येषु प्रह्लादः च अस्मि । कलयत्सु अहं कालः । मृगेषु च अहं मृगेन्द्रः । पक्षिषु च वैनतेयः ।

शब्दार्थः[सम्पादयतु]

दैत्यानाम् = दानवानाम्
प्रह्लादः अस्मि = हिरण्यकशिपुपुत्रः अस्मि
कलयताम् = गणनं कुर्वताम्
अहं कालः = अहं समयः
मृगाणां च = जन्तूनाम् अपि
अहं मृगेन्द्रः = अहं सिंहः
पक्षिणाम् = खगानाम्
वैनतेयः च = गरुडः च ।

अर्थः[सम्पादयतु]

दानवेषु अहं प्रह्लादः अस्मि । गणनं कुर्वत्सु अहं समयः, मृगेषु मृगराजः सिंहः, पक्षिषु पक्षिराजः गरुडश्च अस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]