अनादिमध्यान्तम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(११.१९ अनादिमध्यान्तं... इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


श्लोकः[सम्पादयतु]

गीतोपदेशः
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वम् इदं तपन्तम् ॥ १९ ॥

अन्वयः[सम्पादयतु]

अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रं दीप्तहुताशवक्त्रं स्वतेजसा इदं विश्वं तपन्तं त्वां पश्यामि ।

शब्दार्थः[सम्पादयतु]

अनादिमध्यान्तम् = आदिमध्यान्तरहितम्
अनन्तवीर्यम् = अप्रमेयपराक्रमम्
अनन्तबाहुम् = असङ्ख्याकहस्तम्
शशिसूर्यनेत्रम् = चन्द्रार्कनयनम्
दीप्तहुताशवक्त्रम् = प्रदीप्ताग्निमुखम्
स्वतेजसा = आत्मकान्त्या
इदम् = एतत्
विश्वम् = जगत्
तपन्तम् = तापयन्तम्
त्वाम् = भवन्तम्
पश्यामि = अवलोकयामि

अर्थः[सम्पादयतु]

तव आदिः मध्यः अन्तश्च नास्ति, तव पराक्रमः परिच्छेत्तुं न शक्यः, तव अनन्ताः हस्ताः सन्ति,सूर्यचन्द्रौ तव नयने स्तः, तव मुखेषु जाज्वल्यमानः अग्निः भासते, त्वं निजवर्चसा समग्रमिदं जगत् तापयन् वर्तसे । एतादृशं त्वामहं पश्यामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनादिमध्यान्तम्...&oldid=418404" इत्यस्माद् पुनः प्राप्तिः