कालोऽस्मि लोकक्षयकृत्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(११.३२ कालोस्मि लोकक्षयकृत्... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

श्रीभगवानुवाच -

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वात्रिंशत्तमः(३२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कालः अस्मि लोकक्षयकृत् प्रवृद्धः लोकान् समाहर्तुम् इह प्रवृत्तः ऋते अपि त्वां न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥

अन्वयः[सम्पादयतु]

लोकक्षयकृत् प्रवृद्धः कालः अस्मि । लोकान् समाहर्तुुम् इह प्रवृत्तः । त्वाम् ऋते प्रत्यनीकेषु ये अवस्थिताः योधाः सर्वे अपि न भविष्यन्ति ।

शब्दार्थः[सम्पादयतु]

लोकक्षयकृत् = लोकविनाशकः
प्रवृद्धः = बृंहितः
कालः = समयः
अस्मि = भवामि
लोकान् = भुवनानि
समाहर्तुम् = उपसंहर्तुम्
इह प्रवृत्तः = अत्र व्यापृतः
त्वाम् ऋते = त्वां विना
प्रत्यनीकेषु = परसैन्येषु
अवस्थिताः = उपस्थिताः
ये योधाः = ये योद्धारः
सर्वे अपि = ते सकलाः अपि
न भविष्यन्ति = न स्थास्यन्ति ।

अर्थः[सम्पादयतु]

अहं सर्वान् लोकान् संहर्तुं प्रवृद्धः कालोऽस्मि । प्रतिपक्षसैन्येषु ये योधाः सन्ति भीष्मद्रोणप्रभृतयः तान् त्वं न मारयसि चेदपि अवश्यं मया ते मारिताः भविष्यन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]