समं सर्वेषु भूतेषु...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१३.२७ समं सर्वेषु भूतेषु. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ २७ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् विनश्यत्सु अविनश्यन्तं यः पश्यति सः पश्यति ॥ २७ ॥

अन्वयः[सम्पादयतु]

सर्वेषु भूतेषु समं तिष्ठन्तं विनश्यत्सु अविनश्यन्तं परमेश्वरं यः पश्यति सः पश्यति ।

शब्दार्थः[सम्पादयतु]

भूतेषु = प्राणिषु
समम् = समानम्
तिष्ठन्तम् = विद्यमानम्
सः पश्यति = स एव सम्यक् जानाति
विनश्यत्सु अविनश्यन्तम् = म्रियमाणेषु अपि अम्रियमाणम् ।

अर्थः[सम्पादयतु]

निखिलेषु प्राणिषु अविशेषेण विद्यमानम्, प्राणिषु म्रियमाणेष्वपि अम्रियमाणम्, परमात्मानं मानवः पश्यति सः एव सम्यक् पश्यति । स एव ज्ञानी, नान्यः।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=समं_सर्वेषु_भूतेषु...&oldid=418855" इत्यस्माद् प्रतिप्राप्तम्