एतैर्विमुक्तः कौन्तेय...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१६.२२ एतैर्विमुक्तः इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ २२ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

एतैः विमुक्तः कौन्तेय तमोद्वारैः त्रिभिः नरः आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! तमोद्वारैः एतैः त्रिभिः विमुक्तः नरः आत्मनः श्रेयः आचरति । ततः परां गतिं याति ।

शब्दार्थः[सम्पादयतु]

तमोद्वारैः = नरकद्वारैः
विमुक्तः = विवर्जितः
श्रेयः = हितम्
पराम् = उत्कृष्टाम्
गतिम् = मोक्षाख्यं स्थानम्
याति = अधिगच्छति ।

अर्थः[सम्पादयतु]

अर्जुन ! नरकद्वारैः एतैः कामादिभिः त्रिभिः विवर्जितः मानवः स्वस्य हितं यदि करोति तर्हि सः अत्यन्तप्रशंसनीयम् उत्कृष्टं मोक्षम् अधिगच्छति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]