अभिसन्धाय तु फलं...
दिखावट
(१७.१२ अभिसन्धाय तु इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
- इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य द्वादशः(१२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]- अभिसन्धाय तु फलं दम्भार्थम् अपि च एव यत् इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥
अन्वयः
[सम्पादयतु]भरतश्रेष्ठ ! फलं तु अभिसन्धाय दम्भार्थम् अपि च एव यत् इज्यते तं यज्ञं राजसं विद्धि ।
शब्दार्थः
[सम्पादयतु]- अभिसन्धाय = उद्दिश्य
- दम्भार्थम् = धर्मादिगुणवत्त्वेन आत्मनः ख्यापनार्थम्
- राजसम् = रजोगुणसम्बन्धिनम् ।
अर्थः
[सम्पादयतु]अर्जुन ! फलम् अपेक्ष्य धार्मिकतया आत्मानं ख्यापयितुं यः यज्ञः क्रियते सः राजसः इति जानीहि ।