विधिहीनमसृष्टान्नं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१७.१३ विधिहीनमसृष्टान्नं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७.१३॥

अन्वयः[सम्पादयतु]

विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।

शब्दार्थः[सम्पादयतु]

विधिहीनम् = अशास्त्रसम्मतम्
असृष्टान्नम् = अदत्तान्नम्
मन्त्रहीनम् = मन्त्रशून्यम्
अदक्षिणम् = दक्षिणाविरहितम्
श्रद्धाविरहितम् = अनासक्तिसहितम्
तामसम् = तमस्सम्बन्धिनम्
परिचक्षते = कथयन्ति ।

अर्थः[सम्पादयतु]

यः यज्ञः शास्त्रसम्मतो न विद्यते, यत्र अन्नं परेभ्यः न दीयते, यत्र स्वरादिशुद्धः मन्त्रः नास्ति, यत्र दक्षिणा अपि नास्ति, यश्च अश्रद्धया क्रियते सः तामसः इति कथ्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विधिहीनमसृष्टान्नं...&oldid=418815" इत्यस्माद् प्रतिप्राप्तम्