पञ्चैतानि महाबाहो...
दिखावट
(१८.१३ पञ्चैतानि महाबाहो इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/69/Hitopadesha.jpg/300px-Hitopadesha.jpg)
- पञ्चैतानि महाबाहो कारणानि निबोध मे ।
- साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रयोदशः(१३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]पञ्च एतानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥
अन्वयः
[सम्पादयतु]महाबाहो ! साङ्ख्ये कृतान्ते सर्वकर्मणां सिद्धये प्रोक्तानि एतानि पञ्च कारणानि मे (वचनात्) निबोध ।
शब्दार्थः
[सम्पादयतु]- सांख्ये = वेदान्ते
- कृतान्ते = कर्मसमाप्तिविशिष्टे
- सर्वकर्मणाम् = सकलक्रियाणाम्
- सिद्धये = प्राप्तये
- प्रोक्तानि = निर्दिष्टानि
- निबोध = जानीहि ।
अर्थः
[सम्पादयतु]अर्जुन ! सर्वेषां कर्मणां यत्र परिसमाप्तिः भवति तादृशे वेदान्ते सर्वकर्मणां सिद्धये निर्णीतानि पञ्च कारणानि मम वचनात् जानीहि ।