श्रेयान्स्वधर्मो विगुणः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.४७ श्रेयान्स्वधर्मो विगुणः इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४७ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तचत्वारिंशत्तमः(४७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् स्वभावनियतं कर्म कुर्वन् न आप्नोति किल्बिषम् ॥

अन्वयः[सम्पादयतु]

विगुणः स्वधर्मः स्वनुष्ठितात् परधर्मात् श्रेयान् । स्वभावनियतं कर्म कुर्वन् किल्बिषं न आप्नोति ।

शब्दार्थः[सम्पादयतु]

विगुणः = विकृतः
स्वधर्मः = आत्मधर्मः
स्वनुष्ठितात् = सुकृतात्
परधर्मात् = इतरधर्मात्
श्रेयान् = श्रेयोदायकः
स्वभावनियतम् = स्वभावलब्धम्
कर्म = कर्तव्यम्
कुर्वन् = आचरन्
किल्बिषम् = पापम्
न आप्नोति = न अधिगच्छति ।

अर्थः[सम्पादयतु]

साधु आचरितात् परधर्मादपि किञ्चिदेन विकलः स्वधर्मः एव श्रेयस्करः । प्रकृतिवशात् यत् कर्म निर्णीतं तत् कर्म कुर्वन् पुरुषः पापं न प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]