अयनेषु च सर्वेषु...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१.११ अयनेषु च सर्वॆषु… इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य एकादशः (११) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अयनेषु च सर्वेषु यथाभागम् अवस्थिताः । भीष्मम् एव अभिरक्षन्तु भवन्तः सर्व एव हि ॥

अन्वयः[सम्पादयतु]

सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु ।

शब्दार्थः[सम्पादयतु]

सर्वेषु = सकलेषु
अयनेषु = व्यूहानां द्वारेषु
यथाभागम् = स्वस्वभागे
अवस्थिताः = स्थिताः
भवन्तः सर्वे = समस्ताः भवन्तः
भीष्मम् एव = भीष्माचार्यम् एव
अभिरक्षन्तु = संरक्षन्तु ।

अर्थः[सम्पादयतु]

भवन्तः सर्वेऽपि व्यूहानां द्वारदेशेषु स्वस्वस्थाने तिष्ठन्तु । सेनाधिपतिं भीष्मं च रक्षन्तु ।

रामानुजभाष्यम्[सम्पादयतु]

दुर्योधनं स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्माभिरक्षितं बलमवलोक्य आत्मविजये तस्य बलस्य पर्याप्ततामात्मीयस्य बलस्य तद्विजये चापर्याप्ततामाचार्याय निवेद्य, अन्तर्विषण्णोऽभवत॥१.११ ॥

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

भगवद्गीता

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.gitasupersite.iitk.ac.in/

भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अयनेषु_च_सर्वेषु...&oldid=418429" इत्यस्माद् प्रतिप्राप्तम्