न काङ्क्षे विजयं कृष्ण...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१.३२ न काङ्क्षे विजयम्… इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
न काङ्क्षे विजयं कृष्ण ! न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द ! किं भोगैर्जीवितेन वा ॥ ३२ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य द्वात्रिंशत्तमः (३२) श्लोकः ।


पदच्छेदः[सम्पादयतु]

न, काङ्क्षे, विजयम्, कृष्ण, न, च, राज्यम्, सुखानि, च । किम्,नः, राज्येन, गोविन्द, किम्, भोगैः, जीवितेन, वा ॥

अन्वयः[सम्पादयतु]

कृष्ण ! विजयं राज्यं सुखानि च न काङ्क्षे । गोविन्द ! राज्येन भोगैः जीवितेन वा नः किम् ?

शब्दार्थः[सम्पादयतु]

कृष्ण = हे वासुदेव !
विजयम् = जयम्
राज्यम् = राष्ट्रम्
सुखानि च = भोगान् अपि
न काङ्क्षे = न अभिलषामि
गोविन्द = हे कृष्ण !
राज्येन = राष्ट्रेण
भोगैः = भोग्यवस्तुभिः
किम् = किं प्रयोजनम्
जीवितेन वा = जीवनेन वा
नः = अस्माकम् ।

अर्थः[सम्पादयतु]

हे कृष्ण ! अहं विजयं न इच्छमि । अहं राज्यं सुखानि वा नेच्छामि । हे गोविन्द ! अस्माकं राज्येन भोगैः प्राणैः वा किं प्रयोजनम् ?

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.gitasupersite.iitk.ac.in

भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः[सम्पादयतु]