सामग्री पर जाएँ

कथं न ज्ञेयमस्माभिः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१.३९ कथं न ज्ञेयम्… इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः

[सम्पादयतु]
गीतोपदेशः
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य नवत्रिंशत्तमः (३९) श्लोकः ।


पदच्छेदः

[सम्पादयतु]

कथम्, न, ज्ञेयम्, अस्माभिः, पापात्, अस्मात्, निवर्तितुम् । कुलक्षयकृतम्, दोषम्, प्रपश्यद्भिः, जनार्दन ॥

अन्वयः

[सम्पादयतु]

जनार्दन ! यद्यपि एते लोभोपहतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे पातकं च न पश्यन्ति (तथापि) कुलक्षयकृतं दोषं प्रपश्यिः अस्माभिः अस्मात् पापात् निवर्तितुं कथं न ज्ञेयम् ?

शब्दार्थः

[सम्पादयतु]
कथम् = केन प्रकारेण
न ज्ञेयम् = न अवगन्तव्यम्
अस्माभिः = अस्माभिः
पापात् = दोषात्
अस्मात् = एतस्मात्
निवर्तितुम् = निवारयितुम्
कुलक्षयकृतम् = वंशनाशजन्यम्
दोषम् = अनर्थम्
प्रपश्यद्भिः = अवलोकयद्भिः
जनार्दन = हे कृष्ण

यद्यपि एते तृष्णाविष्टचिताः युद्धात् जायमानं वंशनाशं मित्रद्रोहं च अनर्थं न जानन्ति तथापि तत्सर्वं जानन्तः वयं किमर्थम् अस्मात् युद्धरूपात् पापकार्यात् विमुखाः न भवेम ? वैमुख्ये सत्येव अस्य अनर्थस्य निवारणं शक्यमिति तदेव युक्तम् इति मे मतिः ।

श्लोकवैशिष्ट्यम्

[सम्पादयतु]

विषयस्य सुबोधाय मिलित्वा दत्तम् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...| अत्र शूरा महेष्वासा...| धृष्टकेतुः चेकितानः...| युधामन्युश्च विक्रान्त...| अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...| अयनेषु च सर्वेषु...| तस्य सञ्जनयन् हर्षं...| ततः शङ्खाश्च भेर्यश्च...| ततः श्वेतैर्हयैर्युक्ते...| पाञ्चजन्यं हृषीकेशो...| अनन्तविजयं राजा...| काश्यश्च परमेष्वासः...| द्रुपदो द्रौपदेयाश्च...| स घोषो धार्तराष्ट्राणां...| अथ व्यवस्थितान् दृष्ट्वा...| सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...| योत्स्यमानानवेक्षेऽहं...| एवमुक्तो हृषीकेशो...| भीष्मद्रोणप्रमुखतः...| तत्रापश्यत् स्थितान् पार्थः...| तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...| सीदन्ति मम गात्राणि...| गाण्डीवं स्रंसते हस्तात्...| निमित्तानि च पश्यामि...| न काङ्क्षे विजयं कृष्ण...| येषामर्थे काङ्क्षितं नो...| आचार्याः पितरः पुत्राः...| एतान्न हन्तुमिच्छामि...| निहत्य धार्तराष्ट्रान्नः का...| तस्मान्नार्हा वयं हन्तुं...| यद्यप्येते न पश्यन्ति...| कथं न ज्ञेयमस्माभिः...| कुलक्षये प्रणश्यन्ति...| अधर्माभिभवात् कृष्ण...| सङ्करो नरकायैव...| दोषैरेतैः कुलघ्नानां...| उत्सन्नकुलधर्माणां...| अहो बत महत्पापं...| यदि मामप्रतीकारम्...| एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कथं_न_ज्ञेयमस्माभिः...&oldid=418514" इत्यस्माद् प्रतिप्राप्तम्