इष्टान्भोगान् हि वो देवा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(३.१२ इष्टान् भोगान् हि इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
इष्टान्भोगान् हि वो देवा...


प्रजापतेः तृतीयवचनम्
Avatars of Vishnu.jpg
श्लोकसङ्ख्या ३/१२
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः देवान्भावयतानेन...
अग्रिमश्लोकः यज्ञशिष्टाशिनः सन्तो...

इष्टान्भोगान्हि वो देवा () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः प्रजापतेः तृतीयं वचनं श्रावयति । पूर्वस्मिन् श्लोके प्रजापतेः वचनम् उपस्थापयन् भगवान् निःस्वार्थभावेन कर्तव्यपालनं कृत्वा परस्परं कल्याणप्राप्तिं कर्तुं शक्नुवन्ति इति उक्तवान् । अत्र देवेभ्यः अदत्त्वा यः मनुष्यः खादति, सः चौरः अस्ति इति कथयति । सः वदति यद्, यज्ञेन पुष्टाः देवाः युष्माकं कर्तव्यपालनसामग्रीं स्वयमेव दास्यन्ति, अर्थात् युष्माभिः याचनं न करणीयं भविष्यति । परन्तु तान् देवान् अदत्त्वा यः मनुष्यः भोगान् स्वयमेव भुनक्ति, सः चौरः एव अस्ति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
इष्टान्भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥

पदच्छेदः[सम्पादयतु]

इष्टान् भोगान् हि वः देवाः दास्यन्ते यज्ञभाविताः तैः दत्तान् अप्रदाय एभ्यः यः भुङ्क्ते स्तेन एव सः ॥ १२ ॥

अन्वयः[सम्पादयतु]

यज्ञभाविताः देवाः वः इष्टान् भोगान् दास्यन्ते । तैः दत्तान् एभ्यः अप्रदाय यः भुङ्क्ते स स्तेनः एव ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
यज्ञभाविताः यज्ञवर्धिताः
देवाः इन्द्रादयः
वः युष्मभ्यम्
इष्टान् अभीप्सितान्
भोगान् पदार्थान्
दास्यन्ते वितरिष्यन्ति
तैः देवैः
दत्तान् वितीर्णान्
एभ्यः देवेभ्यः
अप्रदाय अदत्त्वा
यः भुङ्क्ते यः पुरुषः अनुभवति
सः स्तेनः एव सः चोरः एव ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. वो देवाः = वः + देवाः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  2. तैर्दत्तान् = तैः + दत्तान् – विसर्गसन्धिः (रेफः)
  3. प्रदायैभ्यो = प्रदाय + एभ्यः वृद्धिसन्धिः
  4. प्रदायैभ्यो यो = प्रदायैभ्यः + यः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  5. यो भुङ्क्ते = यः + भुङ्क्ते – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  6. स्तेन एव = स्तेनः + एव – विसर्गसन्धिः (लोपः)

समासः[सम्पादयतु]

  1. यज्ञभाविताः = यज्ञेन भाविताः - तृतीयातत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. इष्टान् = इषु + क्त (कर्मणि), तान्
  2. प्रदाय = प्र + दा – ल्यप्
  3. दत्तान् = दा + क्त (कर्मणि), तान्

अर्थः[सम्पादयतु]

यज्ञेन सन्तुष्टाः देवाः प्रार्थनां विनापि अस्मभ्यम् अभीप्सितं वस्तु प्रयच्छन्ति । तेभ्यः देवेभ्यः किमपि अदत्त्वा यः सर्वम् अनुभवति सः चोरः एव भवति ।

भावार्थः[सम्पादयतु]

'इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः' – अत्रापि 'इष्टभोग' इत्यस्य अर्थः इच्छितपदार्थः न भवति । यतो हि अग्रे परमकल्याणस्य चर्चा जाता अस्ति, पश्चात् अपि भविष्यति च । 'इष्ट' इत्येषः शब्दः 'यज्' इत्यस्मात् धातोः निष्पन्नः । 'भुज् पालनाभ्यवहारयोः' (सिद्धान्तकौमुदी १५४८) एवं पालनभक्षणयोः अर्थयोः अत्र पालनम् इत्येव अर्थः उचितः । अत्र 'यज्ञभाविताः देवाः' इत्यस्य पदस्य तात्पर्यम् अस्ति यद्, देवाः तु स्वस्य अधिकारं मत्तवा मनुष्येभ्यः आवश्यकसामग्रीः ददाति एव । केवलं मनुष्यैः स्वकर्तव्यस्य पालनं करणीयम् अस्ति ।

'तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते' – विश्वाड् देवेभ्यः 'ते देवाः' इत्यस्य पदस्य प्रयोगम् अकरोत् । यतो हि तस्य समक्षं मनुष्याः आसन् । परन्तु अत्र 'एभ्यः' ('इदं'-शब्दस्य) इत्यस्य पदस्य उपयोगः कृतः । एतत् पदं समीपतायाः द्योतकम् अस्ति । भगवतः कृते सर्वे समीपस्थाः एव [१] । अनेन सिद्ध्यति यद्, प्रजापतेः वचनं पूर्णम् अभवत्, अधुना भगवतः वचनम् आरब्धम् इति । अत्र 'भुङ्क्ते' इत्यस्य पदस्य तात्पर्यं केवलं भोजनं नास्ति, अपि तु शरीरनिर्वाहस्य सर्वाः आवश्यसामग्र्यः सन्ति । अर्थात् भोजन-वस्त्र-धन-गृहादयः । एतासां सर्वासां सामग्रीणां स्वस्य कृते उपयोगसन्दर्भे अत्र 'भुङ्क्ते' इति शब्दः अस्ति ।

'स्तेन एव सः' – अत्र 'सः स्तेन' इत्यस्य पदस्य तात्पर्यम् अस्ति यद्, यः मनुष्यः स्वस्य कर्तव्यस्य पालनम् अकृत्वा प्राप्तसामग्रीणां (अन्य-जल-वस्त्रादीनां) भोगं स्वयं करोति, सः अन्येभ्यः अदत्त्वा स्वयं स्वीकरोति अतः चौरः एव । यः मनुष्यः अन्यस्मै किमपि अदत्त्वा स्वयम् उपभोगं करोति, सः चौरः एव, अपि तु यः अन्येभ्यः सामग्र्यादिकं दत्त्वा स्वयं मानादिकम् इच्छति सोऽपि चौरः । एतादृशानां मनुष्यानाम् अन्तःकरणं कदापि शान्तं न भवति । एषा व्यष्टिः अर्थात् शरीरं समष्टेः अर्थात् संसाराद् भिन्नं नास्ति । अतः तत्र भेदः भवितुं नार्हति । यतो हि व्यष्टिः समष्टेः एव अंशः । एवं व्यष्टिः तु मम परन्तु समष्टिः न इति तु रागद्वेषादिनः द्वन्दयस्य कारणम् । एतादृशः अङ्कारः एव व्यक्तित्वम् उत विषमता अस्ति [२] । कर्मयोगस्य अनुष्ठानेन रागद्वेषादयः सुगमतया दूरीभवन्ति । यतो हि कर्मयोगिनः 'अहं किमपि न करोमि' इति भावः भवति । सः स्वस्य कृते किमपि न करोति । अत्र मर्मः अस्ति यद्, कर्मयोगी स्वस्य कल्याणाय किमपि कर्म अकृत्वा अन्येषां कल्याणस्य उद्देश्यं सिद्धयितुम् एव कर्म करोति । यतो हि सर्वेषां कल्याणात् स्वस्य कल्याणं भिन्नम् इति यः चिन्तयति, सः विषमतां जनयति ।

मर्मः[सम्पादयतु]

अत्र शङ्का भवति यद्, या सामग्री प्राप्ता अस्ति, तां यदि अन्येभ्यः ददाति, तर्हि कर्मयोगिनः जीवननिर्वाहः कथं शक्यते ? इति । समाधानम् अस्ति यद्, वस्तुतः एषा शङ्का तदा भवति, यदा शरीरेण सह तादात्म्यसम्बन्धः स्थापितः अस्ति । परन्तु कर्मयोगी तु शरीरेण सह स्वस्य सम्बन्धम् एव नाङ्गीकरोति । प्रत्युत शरीरं संसारस्य, संसाराय च इति मत्वा तस्य सेवायै शरीरम् अर्पयति । तस्य दृष्टिः अविनाशिस्वरूपं प्रति भवति, न तु नाशवत् शरीरं प्रति । यस्य दृष्टिः शरीरस्योपरि भवति, स एव शङ्कां करोति जीवननिर्वाहस्य । यावत्पर्यन्तं भोगेच्छा भवति, तावत्पर्यन्तं जीवनेच्छा, मृत्युभयञ्च भवतः । कर्मयोगिषु भोगेच्छा न भवति । किञ्च तस्य सकलानि कार्याणि अन्येभ्यः एव भवन्ति । अतः कर्मयोगी स्वजीनस्य चिन्तां न करोति । वस्तुतः यस्य हृदये जगतः आवश्यकता न भवति, तस्य आवश्यकता जगते भवति । अतः तस्य निर्वाहदायित्वं जगत् स्वीकरोति ।

शाङ्करभाष्यम्[सम्पादयतु]

किंच-इष्टान्भोगानिति। इषअटानभिप्रेतान्भोगान् हि वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति स्रीपशुपुत्रादीन्यज्ञभाविता यज्ञैर्वर्धितास्तोषिता इत्यर्थः। तैर्देवैर्दत्तान्भोगानप्रदायात्त्वानृण्यमकृत्वेत्यर्थः, एभ्यो देवेभ्यो यो भुङ्क्ते स्वदेहेन्द्रियाण्येव तर्पयतिस्तेन एव तस्कर एव स देवादिस्वापहारी।।12।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
देवान्भावयतानेन...
इष्टान्भोगान् हि वो देवा... अग्रिमः
यज्ञशिष्टाशिनः सन्तो...
Orange animated right arrow.gif
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. गीता, अ. ७ , श्लो. २६
  2. आत्मापि चायं न मम सर्वा वा पृथिवी मम।। महाभारतम्, आश्वमेधिकं, ३२/११

अधिकवाचनाय[सम्पादयतु]