धूमेनाव्रियते वह्निः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(३.३८ भूमेनाव्रियते वह्निः इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

()

गीतोपदेशः
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य अष्टात्रिंशत्तमः (३८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

धूमेन आव्रियते वह्निः यथादर्शः मलेन च यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम् ॥ ३८ ॥

अन्वयः[सम्पादयतु]

यथा धूमेन वह्निः आव्रियते, यथा मलेन आदर्शः, यथा उल्बेन च गर्भः तथा इदं (ज्ञानम्) तेन आवृतम् ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
यथा येन प्रकारेण
धूमेन धूमेन
वह्निः अग्निः
आव्रियते आवृतः भवति
यथा येन प्रकारेण
मलेन रजसा
आदर्शः दर्पणः
यथा येन प्रकारेण
उल्बेन गर्भवेष्टनेन चर्मणा
गर्भः पिण्डः
तथा तेन प्रकारेण
तेन कामेन
इदम् ज्ञानम्
आवृतम् आच्छादितम् ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. धूमेनाव्रियते = धूमेन + आव्रियते – सवर्णदीर्घसन्धिः
  2. यथादर्शः = यथा + आदर्शः – सवर्णदीर्घसन्धिः
  3. वह्निर्यथा = वह्निः + यथा – विसर्गसन्धिः (रेफः)
  4. आदर्शो मलेन = आदर्शः + मलेन – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  5. आवृतो गर्भः = आवृतः + गर्भः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  6. यथोल्बेन = यथा + उल्बेन – गुणसन्धिः
  7. तेनेदम् = तेन + इतम् - गुणसन्धिः

कृदन्तः[सम्पादयतु]

  1. आवृत्तम् = आङ् + वृ + क्त (कर्मणि)

अर्थः[सम्पादयतु]

येन प्रकारेण धूमेन अग्निः, रजसा दर्पणः, यथा च गर्भवेष्टनेन चर्मणा गर्भः आच्छादितः भवति तेन प्रकारेण कामेन ज्ञानम् आच्छादितम् अस्ति ।

शाङ्करभाष्यम्[सम्पादयतु]

कथं वैरीति दृष्टान्तैः प्रत्याययति-धूमेनेति। धूमेन सहजेनाव्रियते वह्निः प्रकाशात्मकोऽप्रकाशात्मकेन यथा वाऽऽदर्शो मलेन च यथोल्बेन गर्भवेष्टनेन जरायुणावृतआच्छादितो गर्भस्तथा तेनेदमावृतम् ।।38।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
काम एष क्रोध एष...
धूमेनाव्रियते वह्निः... अग्रिमः
आवृतं ज्ञानमेतेन...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]