कर्मणो ह्यपि बोद्धव्यं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(४.१७ कर्मण्य कर्म.... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कर्मणः हि अपि बोद्धव्यं बोद्धव्यं च विकर्मणः अकर्मणशः च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥

अन्वयः[सम्पादयतु]

कर्मणः अपि स्वरूपं बोद्धव्यम् । अकर्मणः च स्वरूपं बोद्धव्यम् । विकर्मणः अपि च स्वरूपं बोद्धव्यम् । तस्मात् कर्मणः गतिः गहना ।

शब्दार्थः[सम्पादयतु]

कर्मणः अपि = कर्मणः स्वरूपमपि
अकर्मणः च = कर्माभावस्य स्वरूपमपि
विकर्मणः अपि च = निषिद्धकर्मणः स्वरूपमपि
बोद्धव्यम् = ज्ञातव्यम्
कर्मणः = कर्मस्वरूपस्य
गतिः = ज्ञानम्
गहना = क्लिष्टम् ।

अर्थः[सम्पादयतु]

कर्म विहितम्, निषिद्धम्, विधिनिषेधरहितं चेति त्रिविधम् । एतस्य त्रिविधस्यापि कर्मणः स्वरूपं यथावत् ज्ञातव्यम् । किन्तु एतत् अत्यन्तं क्लेशेन अवगन्तव्यम् ।

शाङ्करभाष्यम्[सम्पादयतु]

न चैतत्त्वया मन्तव्यं, कर्म नाम देहादिचेष्टा लोकप्रसिद्धम्, अकर्म तदक्रिया तीष्णीमासनं, किं तत्र बोद्धव्यमिति। कस्मादुच्यते-कर्मण इति। कर्मणः शास्रविहितस्यहि यस्मादप्यस्ति बोद्धव्यं, बोद्धव्यं चास्त्येव विकर्मणः प्रतिषिद्धस्य तथाऽकर्मणश्च तूष्णींभावस्य बोद्धव्यमस्तीति त्रिष्वप्यध्याहारः कर्तव्यो यस्माद्गहना विषमा दुर्ज्ञाना, कर्मण इत्युपलक्षणार्थं, कर्मादीनां कर्माकर्मविकर्मणां गतिर्याथात्म्यं तत्त्वमित्यर्थः।।17।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
किं कर्म किमकर्मेति...
कर्मणो ह्यपि बोद्धव्यं... अग्रिमः
कर्मण्यकर्म यः पश्येद्...
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]