सामग्री पर जाएँ

यस्य सर्वे समारम्भाः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(४.१९ यस्य सर्वे... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः

[सम्पादयतु]


गीतोपदेशः
यस्य सर्वे समारम्भाः कामसल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

यस्य सर्वे समारम्भाः कामसल्पवर्जिताः ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः ॥ १९ ॥

अन्वयः

[सम्पादयतु]

यस्य सर्वे समारम्भाः कामसल्पवर्जिताः बुधाः ज्ञानाग्निदग्धकर्माणं तं पण्डितम् आहुः ।

शब्दार्थः

[सम्पादयतु]
यस्य = यस्य पुरुषस्य
सर्वे = सकलाः
समारम्भाः = कर्माणि
कामसल्पवर्जिताः = फलापेक्षया तत्करणेच्छया च वर्जितानि
ज्ञानाग्निदग्धकर्माणम् = ज्ञानानलभस्मीभूतकर्माणम्
तम् = तं मानवम्
बुधाः = विपश्चितः
पण्डितम् = विद्वांसम्
आहुः = वदन्ति ।

यस्य कर्माणि सर्वथा शास्त्रसम्मतानि फलापेक्षारहितानि च सन्ति तस्य पुरुषस्य कर्माणि ज्ञानरूपेण वह्निः भस्मसात् भवन्ति । तादृशं पुरुषं ज्ञानिनः पण्डितं प्रवदन्ति ।

शाङ्करभाष्यम्

[सम्पादयतु]

तदेतत्कर्मण्यकर्मादि यथोक्तदर्शित्वं स्तूयते-यस्येति। यस्य यथोक्तदर्शिनः सर्वे यावन्तः समारम्भाः सर्माणि कर्माणि समारभ्यन्त इति समारम्भाः कामसंकल्पवर्जिताःतकामैस्तत्कारणैश्च संकल्पैर्वर्जिताः मुधैव चेष्टामात्रा अनुष्ठायन्ते प्रवृत्तेन चेल्लोकसंग्रहार्थं निवृत्तेन चेज्जीवनमात्रार्थं तं ज्ञानाग्निदग्धकर्माणंिकर्मादावकर्मादिदर्शनं ज्ञानं तदेवाग्निस्तेन ज्ञानाग्निनादग्धानि शुभाशुभलक्षणानि कर्माणि यस्य तमाहुः परमार्थतः पण्डितं वुधा ब्रह्मविदः।।19।।

ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...

सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]

अधिकवाचनाय

[सम्पादयतु]