बहूनि मे व्यतीतानि...
दिखावट
(४.५ बहूनि मे..... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]

- श्रीभगवान् उवाच -
- बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
- तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥
अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य पञ्चमः(५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन 'तानि अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥
अन्वयः
[सम्पादयतु]परन्तप, अर्जुन ! बहूनि मे तव च जन्मानि व्यतीतानि । तानि जन्मानि सर्वाणि अहं वेद । त्वं न वेत्थ ।
शब्दार्थः
[सम्पादयतु]- परन्तप = अर्जुन !
- मे तव च = मम च ते च
- बहूनि = नैकानि
- जन्मानि = जनूंषि
- व्यतीतानि = अतिक्रान्तानि
- तानि सर्वाणि = तानि असङ्ख्येयानि जनूंषि
- अहम् = अहम्
- वेद = जानामि
- त्वम् = भवान्
- न वेत्थ = न जानाति ।
अर्थः
[सम्पादयतु]हे अर्जुन ! मम च तव च जन्मानि असङ्ख्याकानि सम्पन्नानि । परन्तु तानि सर्वाणि भवान् ज्ञातुं न शक्नोति । अहं तु जानामि ।
शाङ्करभाष्यम्
[सम्पादयतु]या वासुदेवेऽनीश्वरासर्वज्ञाशङ्का मूर्खाणां तां परिहरन् श्रीभगवानुवाच यदर्थो ह्यर्जुनस्य प्रश्नः- बहूनीति। बहूनि मे मम व्यतीतान्यतिक्रान्तानि जन्मानि तवच हेऽर्जुन, तान्यहं वेद जाने सर्वाणि। न त्वं वेत्थ न जानीषे। धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात्। अहं पुनर्नित्य शुद्धबुद्धमुक्त स्वभावत्वादनावरणज्ञानशक्तिरिति वेदाहं हेपरंतप।।5।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]| विकिमीडिया कॉमन्स् मध्ये बहूनि मे व्यतीतानि... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च