यदा यदा हि धर्मस्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(४.७ यदा यदा हि.. इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य ७ (७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यदा यदा हि धर्मस्य ग्लानिः भवति भारत अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजामि अहम् ॥ ७ ॥

अन्वयः[सम्पादयतु]

भारत ! यदा यदा धर्मस्य ग्लानिः, अधर्मस्य च अभ्युत्थानं भवति तदा अहम् आत्मानं सृजामि ।

शब्दार्थः[सम्पादयतु]

भारत = अर्जुन !
यदा यदा = यस्मिन् यस्मिन् काले
धर्मस्य = धर्मस्य
ग्लानिः = हानिः
अधर्मस्य = अधर्मस्य
अभ्युत्थानम् = वर्धनम्
भवति = सम्पद्यते
तदा = तस्मिन् काले
अहम् = अहम्
आत्मानम् = स्वम्
सृजामि = प्रकाशयामि ।

अर्थः[सम्पादयतु]

हे अर्जुन ! यदा यदा धर्मस्य हानिः अधर्मस्य आधिक्यं च सम्भवति तदा अहम् आत्मानं लोकाय प्रकाशयामि । निराकारोऽपि साकारः भविष्यामि ।

शाङ्करभाष्यम्[सम्पादयतु]

तच्च जन्मं कदा किमर्थं चेत्यिच्यते-यदेति। यदा यदा हि धर्मस्य ग्लानिर्हानिर्वर्णाश्रमादिलक्षणस्य प्राणिनामभ्युदयनिःश्रेयससाधनस्य भवति भारत, अभ्युत्थानमुद्भवोऽधर्मस्यतदा तदात्मानं सृजाम्यहं मायया।।7।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
अजोऽपि सन्नव्ययात्मा...
यदा यदा हि धर्मस्य... अग्रिमः
परित्राणाय साधूनां...
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यदा_यदा_हि_धर्मस्य...&oldid=460298" इत्यस्माद् प्रतिप्राप्तम्