योगयुक्तो विशुद्धात्मा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(५.७ योगयुक्तो विशुद्धां... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

गीतोपदेशः
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते ॥ ६ ॥

अन्वयः[सम्पादयतु]

योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ।

शब्दार्थः[सम्पादयतु]

योगयुक्तः = कर्माचरणयुक्तः,
विशुद्धात्मा = विशुद्धचित्तः
विजितात्मा = स्वच्छशरीरः
जितेन्द्रियः = इन्द्रियनिग्रहवान्
सर्वभूतात्मभूतात्मा = सम्यग्दर्शी
कुर्वन्नपि = आचरन् अपि
न लिप्यते = न बध्यते ।

अर्थः[सम्पादयतु]

योगयुक्तः, विशुद्धचित्तः, स्वच्छशरीरः, जितेन्द्रियः, यथार्थदर्शी च पुरुषः कर्म कुर्वन्नपि तेन लिप्तः न भवति ।

शाङ्करभाष्यम्[सम्पादयतु]

योगेति। यदा पुनरयं सम्यग्दर्शनप्राप्त्युपायत्वेन योगेन युक्तो विशुद्धात्मा विशुद्धसत्त्वो विजितात्मा विजितदेहो जितेन्द्रियश्च सर्वभूतात्मभूतात्मा सर्वेषांयब्रह्मादीनां स्तम्बपर्यन्तानां भूतानामात्मभूत आत्मा प्रत्यक्चेतनो यस्य स सर्वभूतात्मभूतात्मा। सम्यगदर्शीत्यर्थः। स तत्रैवं वर्तमानो लोकसंग्रहाय कर्म कुर्वन्नपिन लिप्यते। न कर्मभिर्बध्यत इत्यर्थः ।।7।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
संन्यासस्तु महाबाहो...
योगयुक्तो विशुद्धात्मा... अग्रिमः
नैव किञ्चित्करोमीति...
योगयुक्तो विशुद्धात्मा...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]