चतुर्विधा भजन्ते मां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(७.१६ चतुर्विधा भजन्ते... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

चतुर्विधाः भजन्ते मां जनाः सुकृतिनः अर्जुन आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥

अन्वयः[सम्पादयतु]

भरतर्षभ अर्जुन ! आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च (इति) चतुर्विधाः सुकृतिनः जनाः मां भजन्ते ।

शब्दार्थः[सम्पादयतु]

भरतर्षभ = भरतोत्तम !
आर्तः = रोगादिपीडितः
जिज्ञासुः = ज्ञातुमिच्छुः
अर्थार्थी = धनाभिलाषी
ज्ञानी च = आत्मज्ञानवान्
(इति) चतुर्विधाः = इति चतुष्प्रकाराः
सुकृतिनः = पुण्यवन्तः
जनाः = मानवाः
माम् = माम्
भजन्ते = सेवन्ते ।

अर्थः[सम्पादयतु]

हे भरतोत्तम अर्जुन ! रोगादिग्रस्तः, भगवत्तत्त्वं ज्ञातुम् इच्छुः, धनाभिलाषी, आत्मज्ञानवान् च इत्येते चतुर्विधाः पुण्यकर्माणः जनाः मां भजन्ते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]