पुण्यो गन्धः पृथिव्यां च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(७.९ पुण्यो गन्धः पृथिं... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य नवमः(९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

पुण्यः गन्धः पृथिव्यां च तेजः च अस्मि विभावसौ जीवनं सर्वभूतेषु तपः च अस्मि तपस्विषु ॥ ९ ॥

अन्वयः[सम्पादयतु]

पृथिव्यां च पुण्यः गन्धः विभावसौ तेजः च अस्मि । सर्वभूतेषु जीवनं तपस्विषु तपः च अस्मि ।

शब्दार्थः[सम्पादयतु]

पृथिव्यां च = भूमौ
पुण्यः = स्वाभाविकः
गन्धः = गन्धः
विभावसौ = सूर्ये
तेजः च = कान्तिःच
अस्मि = भवामि
सर्वभूतेषु = सकलप्राणिषु
जीवनम् = आयुः
तपस्विषु = मुनिषु
तपः च = तपः अपि
अस्मि = भवामि ।

अर्थः[सम्पादयतु]

अहं पृथिव्यां सुरभिः गन्धः सूर्ये कान्तिः च अस्मि । सकलप्राणिषु आयुः तपस्विषु तपः च अस्मि ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]