अनपेक्षः शुचिर्दक्ष...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(12.16 अनपेक्षः शुचिः…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १६ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः ॥ १६ ॥

अन्वयः[सम्पादयतु]

यः अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारम्भपरित्यागी मद्भक्तः सः मे प्रियः ।

शब्दार्थः[सम्पादयतु]

यः = यः पुरुषः
अनपेक्षः = निःस्पृहः,निरपेक्षः
शुचिः = शुद्धः
दक्षः = चतुरः
उदासीनः = तटस्थः
गतव्यथः = अपगतभयः,निर्भयः
सर्वारम्भपरित्यागी = सकामकर्मानुानत्यागी
भक्तः = भगवक्तः
(सः) मे = प्रियः = सः मम अभीष्टः ।

अर्थः[सम्पादयतु]

यः पुरुषः निःस्पृहः शुद्धः चतुरः तटस्थः अपगतभयः सर्वेषां कर्मणां फलं त्यजन् भगवद्भक्तः च वर्तते सः मम अभीष्टः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनपेक्षः_शुचिर्दक्ष...&oldid=447719" इत्यस्माद् प्रतिप्राप्तम्